________________ 397 मि लघी० प्रमाणप्र० का०९] विवृतिविवरणम् प्रकारा क्रिया कार्यकरणं सा इव / 'अविक्रियैववा' इति कचित् पाठः, तत्र अयमर्थःअविकारोऽपि न विरुद्धथेत इति / 'परमार्थैकत्वेऽपि' इत्यादिना विक्रियैव वा' इत्येतद्वथाचष्टे,शेषस्य सुगमत्वात् / परमार्थेन एकत्वेऽपि अभिन्नस्वभावत्वेऽपि, कस्य ? ज्ञानस्य - कथम्भूतस्य ? अनेकार्थक्रियाकारिणः, अनेकार्थो नीलादिः 5 तस्य क्रिया परिच्छित्तिः तत्कारिणः, कुतः ? मिथ्याव्यवहारभेदात्, मिथ्या कल्पनाकल्पितो व्यवहारः अनीलाद्याकारव्यावृत्त्या नीलाद्याकारसामान्यपरिकल्पनलक्षणः तस्य भेदात् नानात्वात् / एतदुक्तं भवति-यदेव ज्ञानम् अनीलव्यावृत्त्या नीलाकारं सत् तत्परिच्छेदकं तदेव अपीतादिव्यावृत्त्या पीताद्याकारं सत् पीतादेः परिच्छेदकम् इति / तस्य के किं कुर्वन्ति ? इत्याह-प्रतिभासाः नीलाद्याकाराः तत्त्वं भेदाऽभेदात्मकं साधयन्ति / कथम्भूताः ? पर- 10 स्परार्थसंवेदिनः अन्योन्यार्थग्राहिणः / तथाहि-य एव प्रतिभासो नीलं संवेत्ति स एव पीतं रक्तं शुक्लम् , तथा य एव पीतं स एव नीलं रक्तं शुक्लम् , एवम् अन्यत्राऽपि योज्यम् / अन्यथा 'युगपद् अहं नीलादिकं वेद्मि' इति प्रतीतेरनुपपत्तेः, एवमर्थञ्च 'अनेकार्थक्रियाकारिणः' इत्युक्तम् / अतः सिद्धो वर्तमानाऽर्थग्राही प्रतिभासः अतीताऽनागतार्थप्राही, तद्ग्राही च वर्तमानार्थग्राहकः स्वव्यापकज्ञानापेक्षया। तथा च 'यदि वर्तमानग्रहणग्राह्यम् अतीतमनागतं 15 च तर्हि तद् वर्तमानमेव स्यात् तद्ग्रहणग्राह्यत्वात् प्रसिद्धवर्तमानवत्' इति, तन्निरस्तम् ; नीलादिग्रहणग्राह्यस्य पीतादेरपि नीलादित्वप्रसङ्गात् / तथाहि-पीतादिकं नीलं नीलग्रहणग्राह्यत्वात् अभिमतनीलवत , प्रमाणबाधनम् उभयत्र तुल्यम् / ___ एवं तावत् सौत्रान्तिकमतम् अनेकान्तनान्तरीयकं प्रदर्श्य साम्प्रतं योगाचारमतं तन्नातरीयकं प्रदर्शयन्नाह 20 मिथ्येतरात्मकं दृश्याऽदृश्यभेदेतरात्मकम् // 6 // चित्तं सदसदात्मैकं तत्त्वं साधयति स्वतः।। ___ विवृतिः-चित्रनिर्भासिनः तत्त्वम् अविभागज्ञानस्य दृश्यं यदि क्रमेणाऽपि सदसदात्मकं विवर्तेत ततः सिद्धम्-द्रव्यपर्यायात्मकम् उत्पाद-व्यय-ध्रौव्ययुक्तं वस्तु तस्वम् अन्तर्बहिश्च प्रमेयम् , एकान्तस्य अनुपलब्धेः तदनेकान्तात्मा अर्थः इति / 25 'बहिर्मुखाकारतया हि ज्ञानं मिथ्या, सञ्चेतनाद्याकारतया तु सत्यम्' इत्येके / तान् . प्रति इदमुत्तरम-'मिथ्येतरास्मकम्' इति / मिथ्या च कारिकाव्याख्यानम् इतरः च आस्मा यस्य तत्तथोक्तम् / 'ग्राह्याकारात् तस्य १-कारणं श्र०। 2 'तग्राही' इति नास्ति भा० / ३-गविज्ञानस्य ज० वि० / ४-कारस्य श्र०।