________________ 399 लघो० प्रमाणप्र० का०९] उत्पादादित्रयात्मकत्वसमर्थनम् खलु सत्तासम्बन्धाद् यौगैः सामान्यादौ सत्त्वमिष्टम् “त्रिषु पदार्थेषु सत्करी सत्ता" [ ] इति कृतान्तव्याघाताऽनुषङ्गात् / न च तत्सत्त्वात् द्रव्यादिसत्त्वं विलक्षणम् अतः तदेव सत्तासम्बन्धनिबन्धनम् नान्यदित्यभिधातव्यम् / यतः किमिदं तत्सत्त्वस्य वैलक्षण्यं नाम-विलक्षणप्रत्ययप्राह्यत्वम् , अबाधितत्वम् , गौणत्वं वा ? तत्र आद्यविकल्पोऽनुपपन्नः; ततः तस्य विलक्षणप्रत्ययग्राह्यतया स्वप्नेऽपि प्रतीत्यभावात् / न खलु यथा गवादिभ्यो महिष्यादेः विल- 5 क्षणप्रत्ययग्राह्यतया प्रतिप्राणि प्रतीतिः प्रसिद्धा, तथा द्रव्यादिसत्त्वात् सामान्यादिसत्त्वस्यापि, भवतस्तु तथाप्रतीतिः स्वसिद्धान्ताऽऽप्रहग्रहाऽभिनिवेशनिबन्धना न वस्तुदर्शनबलप्रवृत्ता घटादेः पुरुषांद्यद्वैतरूपताप्रतीतिवत् / द्वितीयविकल्पोऽप्यनुपपन्नः; अबाधितत्वस्य उभयत्राप्यविशेषात् , नहि सामान्यादिसत्त्ववत् द्रव्यादौ सत्त्वं केनचित् प्रमाणेन बाध्यते तस्याऽसत्त्वप्रसङ्गात् / अथ गौणत्वम् सामान्यादिसत्त्वस्य द्रव्यादिसत्त्वाद् वैलक्षण्यम् ; ननु गौण- 10 त्वमेव अस्य कुतः सिद्धम् ? भिन्नविशेषणत्वाऽभावाच्चेत् ; नहि यथा द्रव्यादौ सत्तालक्षणभिन्नविशेषणनिमित्तं सत्त्वम् तथा सामान्यादौ / न च अभिन्नविशेषणस्य मुख्यत्वं युक्तम् भिन्नविशेषणं मुख्यम् अभिन्नविशेषणं गौणम् / " [ ] इत्यभिधानात् ; ईत्यप्यसत्; अन्योन्याश्रयप्रसङ्गात्-सिद्धेहि सामान्यादिसत्त्वस्य सत्तालक्षणभिन्नविशेषणनिबन्धनत्वाऽभावे गौणत्वसिद्धिः, तत्सिद्धौ च तन्निबन्धनत्वाऽभावसिद्धिरिति / __ एतेन द्रव्यादौ सत्त्वस्य मुख्यत्वमपि चिन्तितम् ; इतरेतराश्रयाऽविशेषात् ; तथाहि-सिद्ध द्रव्यादौ सत्त्वस्य मुख्यत्वे सत्तालक्षणभिन्नविशेषणनिबन्धनत्वसिद्धिः, तत्सिद्धौ च तन्मुख्यत्वसिद्धिरिति / न च कश्चिदबालिशः 'स्वरूपनिबन्धनं सत्त्वमुपचरितम् , अर्थान्तरभूतसत्तानिबन्धनं तु मुख्यम्' इति मन्यते / नहि 'यष्टौ यष्टित्वमुपचरितम् , पुरुषे तु मुख्यम्' इति प्रेक्षावान् मन्यते / किञ्च, सत्ता स्वयं सती अन्यस्य सत्त्वहेतुः स्यात् , असती वा ? यदि असती; कथं स्वसम्बन्धेन अन्यस्य सत्त्वहेतुः ? यद् असत् न तत् स्वसम्बन्धेन अन्यस्य सत्त्वहेतुः यथा खरविषाणम् , असती च सत्ता इति / अथ सती; किं स्वतः , सत्तान्तरसम्बन्धाद्वा ? यदि स्वतः; तर्हि वस्तुनोऽपि स्वत एव सत्त्वमस्तु, किं तत्सम्बन्धात् सत्त्वकल्पनाप्रयासेन ? यत् सत् तत् स्वात्मभूतेनैव सत्त्वेन यथा सामान्यविशेषसमवायाः, सन्ति च द्रव्यादीनि इति / अथ 25 सत्तान्तरसम्बन्धात्; तदा अनवस्था / ननु च अनवस्थाया बाधिकायाः सद्भावादेव सामान्यविशेषसमवायेषु स्वतः सत्त्वमिष्यते द्रव्यादौ तु परतः तत्र तदभावात् , न खलु द्रव्यादौ परतः सत्त्वे अनवस्था अवतरति-सत्तातो हि द्रव्यादीनां सत्त्वं सत्तायास्तु स्वतः इति; तद 20 ..1 "सदिति यतो द्रव्यगुणकर्मसु सा सत्ता / " वैशेसू० १।२।७।२-नः तस्य श्र० / 3 प्रतिपत्तिः ब०, ज० / ४-पाद्वैत-ब०, ज० / 5 सत्ताविशे-व०, ज / 6 इत्यसत् आ०, ब०, ज० / .