________________ लघी० प्रमाणप्र० का०८] क्षणभङ्गवादः 387 द्यते इति उभयोः तदन्वयव्यतिरेकानुविधानाविशेषात् विनाशेऽपि तज्जन्यतास्तु / कृतकानां ध्रुवभावित्वाद् विनाशस्य न हेत्वन्तरीपेक्षा; इत्यपि कपालसन्तानेन अनैकान्तिकम् , स हि ध्रुवभावी न च मुद्गरादिहेत्वन्तराऽनपेक्षः। निर्हेतुकत्वे , अस्य किम् आकाशादिवत् सदा सत्त्वमेव स्यात् , बन्ध्यास्तनन्धयादिवत् असत्त्वमेव वा ? प्रथमपक्षे भावाऽभावयोर्युगपदुपलम्भः स्यात् , तयोर्विरोधाऽभावतः सहाव- 5 स्थानसंभवात्।विरोधे वा भावदर्शनमनवसरमेव प्राप्नोति, तद्विरोधिनोऽभावस्य सदा सत्त्वात्। द्वितीयपक्षे तु घटादेर्नित्यत्वमेव स्यात् , तत्प्रध्वंसस्य अहेतुकत्वेन सदाऽसत्त्वात् / न च भावकारणकत्वमभावस्य उपपद्यते; तत्कारणभेदप्रतीतेः, अन्यदेव हि मुद्गरादिकं घटविनाशे कारणम् अन्यदेव च मृत्पिण्डादिकं तदुत्पादे। भावकारणकत्वे च अभावस्य भावकाले एव अभावोऽपि स्यात् , तथा च प्रागिव भावोपलम्भो दुर्लभः स्यात् / तदा तदभावे वा न भावकारण- 10 कोऽसौ स्यात , नहि एककारणोत्पन्नाऽर्थानां कालक्रमेण उत्पत्तिः प्रतीयते / अथ द्वितीयक्षणमपेक्ष्य अस्य प्रादुर्भावात् न तदैव उत्पत्तिः; कथमेवम् अहेतुकत्वम् अपेक्षस्यैव (अपेक्ष्यस्यैव) हेतुत्वात् ? अहेतुको हि न किञ्चिदपेक्षते / अथ भावकारणैः तथाभूतस्वभाव एव उत्पादितोऽसौ येन भावसत्तानन्तरं भवति इति; ननु तत्सत्ता किं क्षणानन्तरध्वंसिनी, रूपान्तरयुक्ता वा ? तत्र आद्यपक्षे प्रत्यक्षादिबाधा ; 15 द्वितीयादिक्षणेऽपि भावसत्तायाः प्रत्यक्षादिप्रमाणतः प्रतीयमानत्वात् / द्वितीयपक्षे तु कथमर्थानां क्षणिकता अनेकक्षणस्थायिसत्तानन्तरभाविनाशस्य अक्षणिकत्वे एव उपपत्तेः ? न च अपरं सत्तामात्र किञ्चिदस्ति, यदन॑न्तरभावी स स्यात् / __ अहेतुकत्वञ्चास्य "अर्थोदयानन्तरभावित्वात्, व्यतिरेकाऽव्यतिरेकविकल्पाभ्यां तज्जन्यत्वाऽसंभवाद्वा ? न तावद् उदयानन्तरभावित्वात् ; उक्तदोषाऽनुषङ्गात्। व्यतिरेकाऽव्यतिरेक- 20 विकल्पाभ्याञ्च अस्य मुद्राद्यहेतुता सिद्धयेत् न तु उत्पादानन्तरभाविता / यदा हि असौ दृश्यते तदैव "अहेतुकोऽभ्युपगन्तुं युक्तः, न च मुद्गरादिव्यापारात् प्राक् उपलब्धो घटादीनां विनाशः / .. १-विधाननाशेऽपि तज्जन्यवास्तु ब०, ज० / २-पेक्षेऽपि ब०, ज० / ३-सन्तानैका-ब०, ज० / 4 “विनाशहेतुर्नास्तीति ब्रुवाणः पर्यनुयोक्तव्यः-किमकारणत्वाद् विनाशो नास्ति, उत अकारणत्वान्नित्य इति ? यद्यकारणत्वान्नित्यो विनाशः; कार्यस्य उत्पादो न प्राप्नोति विनाशेन सहाऽवस्थानमिति च दोषः अथ असन् विनाशः ; एवमपि सर्वनित्यत्वं विनाशाभावात् / " न्यायवा० 3 / 2 / 14 / पृ. 414 / ५-रप्रहारादिकं श्र०। 6 क्षणान्तर-आ०, ब०, ज०, भां० / “असौ एकक्षणसङ्गता वा भवेत अनेकक्षणपरिगता वा ?" सन्मति० टी० पृ० 389 / ७-विनोऽसत्त्वस्य ज० ।-विनोंऽशस्य ब० ।-विनो विनाशस्य श्र०।८-नन्तरे भा-ज०।९ “किञ्च उदयानन्तरध्वंसित्वं भावानां भिन्ना'भिन्नविकल्पाभ्यामन्येन ध्वंसस्याभावादवसीयते, प्रमाणान्तराद्वा ?" प्रमेयक. पृ० 145 पू० / “एवं च व्यर्थमेवेह व्यतिरिक्तादिचिन्तनम् / नाश्यमाश्रित्य नाशस्य क्रियते यद्विचक्षणैः // 424 / " शास्त्रवा० / 10 अर्थानन्तरं भा-श्र० / 11 अहेतुकोप्युपग-श्र० /