________________ 388 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० न च 'तथाऽनुपलभ्यमानोप्यस्ति' इति अभिधातुं युक्तम् ; उपलम्भनिबन्धनत्वाद् वस्तुव्यवस्थायाः / प्रतीयमानञ्च कालान्तरे हेतुव्यापारीद् विनाशस्य जन्मानभ्युपगम्य अप्रतीयमानमुदयानन्तरमहेतुकत्वमभ्युपगच्छतोऽस्य महती प्रेक्षापूर्वकारिता स्यात् ! कथञ्च उत्पादोऽपि एवमहेतुको न स्यात् ? नहि सोऽपि कार्यस्य स्वयमुत्पद्यमानस्य अनुत्पद्यमानस्य वा, तथा ततो भिन्नोऽभिन्नो वा कारणैर्विधातुं पार्यते / यथा च मुद्गरादिभ्यो घटाद्यभावो नोपपद्यते तथा स्वरूपतोऽपि / स हि स्वरूपतो भवन् ‘स्वयं नश्वरस्य अनश्वरस्य वा, व्यतिरिक्तोऽव्यतिरिक्तो वा' इत्यादिविकल्पान् नाऽतिक्रामति / ननु नाऽस्माकं दर्शने भावस्य किञ्चिद् भवति, केवलम् एकक्षणस्थितिधर्मा स्वस्वकारणाज्जातः क्षंणानन्तरे 'न भवति' इति व्यपदिश्यते, तदुक्तम्-" न तस्य किञ्चिद् भवति न भव१० त्येव केवलम्।” [प्रमाणवा० 1 / 281 ] इति / नन्वेवं नष्टशब्दस्य कश्चिदर्थोऽस्ति, न वा ? नास्ति चेत् ; किं तेनोक्तेन ? अस्ति चेत् ; किं सत्त्वाद् भिन्नः, अभिन्नो वा ? भेदपक्षोऽयुक्तः; सम्बन्धाऽभावात् अनभ्युपगमाच्च / यद्यभिन्नः; तदा अस्ति-नास्तिशब्दयोः तत्प्रतीत्योश्च पर्यायता स्यात् / तथा च 'क्षणक्षयिणो भावा निरन्वयविनाशाः, न तस्य किञ्चिद्भवति, न भव त्येव केवलम्' इत्येवंविधवचनविशेषा न सत्त्वाऽतिरेकिणं कमप्यर्थमभिदध्युः इत्येषामुच्चारण१५ वैयर्थ्यम् , सत्त्वे विप्रतिपत्त्यभावात् / तस्माद् भावस्य यथा स्वकारणादवाप्तजन्मनः प्रमाणपरिच्छेद्या सद्रूपता तथा असद्रूपताऽपि / कीदृशश्च अयं विनाशो. निर्हेतुकत्वेन अभिप्रेतः-किं विनशनं विनाशः अभावमात्रं प्रसज्यप्रतिषेधरूपम् , विनश्यतीति वा विनाशः अनवस्थायिभावस्वरूपं पर्युदासप्रतिषेधरूपं वा ? न तावत् प्रसज्यप्रतिषेधरूपस्य अस्य अहेतुकत्वम् ; तद्रूपाऽभावस्यैव भवताऽनभ्युपगमात्। 20 नापि पर्युदासप्रतिषेधरूपस्य; अनवस्थायिभावस्वरूपस्य अस्य अहेतुकत्वेन कैश्चिदपि अनभ्युप १-रादिना तस्य जन्मा-भा०, श्रा० / २-तुकत्वमप्यपग-श्र०।३ “यथा विनाशं प्रत्यनपेक्षं विनश्वरम् तथा स्थितिं प्रत्यनपेक्षं स्थास्नु तद्हेतोरकिञ्चित्करत्वात् , तद् व्यतिरिक्ताऽव्यतिरिक्ताऽकरणाद् इत्यादि सर्व समानम् / " अष्टसह. पृ० 185 / सिद्धिवि० टी० पृ० 169 उ०। “उत्पत्तावपि तुल्योऽयं .प्रलापः।" न्यायमं० पृ० 458 / प्रमेयक० पृ० 146 पू० / 4 क्षणान्तरे आ०, ब०, ज०, श्र० / 5 उद्धृतश्चैतत्-अष्टश०, अष्टसह. पृ० 200 / हेतुबि० टी० पृ० 120 / प्रश० व्यो० पृ. 400 / स्या. रत्ना० पृ. 788 / 6 “नष्टशब्दस्य कश्चिदर्थोऽस्ति न वा ? ..." स्या. रत्ना० पृ. 790 / ७-विधाः वचन-श्र० / 8 "तथा च त्रिलोचनः प्रकीर्णके""किं विनश्यतीति विनाशः अनवस्थायिभावस्वभावः पर्युदासप्रतिषेधरूपः, किं वा विनशनं विनाशः अभावमा प्रसज्यप्रतिषेधरूपम् ? नाद्यः कल्पः ; अनवस्थायिभावस्वभावस्य अहेतुकत्वेन केनाप्यनभ्युपगतत्वेन असिद्धत्वात् / '""" स्या० रत्ना० पृ० 788 / ९-रूपस्याहेतु-श्र० /