________________ 386 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० त्वम् , कृतकत्वस्य अनित्यत्वमात्रेणैव अविनाभावसंभवात्। तथा च 'कृतकत्वाऽनित्यत्वयोस्तादात्म्यसिद्धिः' इत्यादि प्रत्युक्तम् / कुतश्च अनयोस्तादात्म्यप्रतिबन्धेसिद्धिः ? न तावत् प्रत्यक्षात्; तस्य अविचारकत्व-सन्निहितार्थविषयत्वतः सार्वत्रिकप्रतिबन्धग्रहणे सामर्थ्याऽसंभ- .. वात् / नाप्यनुमानात् ; प्रतिबन्धप्रसाधकाऽनुमानस्यैवासंभवात् / विपक्षे बाधकप्रमाणात् 5 तसिद्धिश्च प्रागेव कृतोत्तरा। यच्चाऽन्यदुक्तम्-'कारणसामर्थ्याऽभेदात्' इत्यादि; तदप्युक्तिमात्रम् ; यतः कारणानां सामर्थ्याऽभेदैः किं विनश्वरमात्रस्वभावभावजनने, उदयानन्तरास्थानशीलाऽर्थोत्पादनमात्रे वा ? प्रथमपक्षे सिद्धसाधनम् ; यः कश्चित् कारणैर्जन्यते तस्य अनित्यतामात्रस्वभावतया इष्ट त्वात् / द्वितीयपक्षस्तु अयुक्तः ; कारणव्यापाराऽऽसादित-आत्मसत्ताकस्य उदयानन्तरमस्था१० नशीलत्वाऽप्रतीतेः / विचित्रा हि कारणसामग्री-काचित् उदयानन्तरमेव अयत्नसाध्यविना शालिङ्गितं विद्युदादिभावम् आविर्भावयति, काचित् पुनः कालान्तरे प्रयत्नसाय-अभावक्रोडीकृतं घटादिरूपम् , अन्या तु प्रचुरतरकाले प्रयत्नसहस्रतोऽपि अस्मदादिभ्योऽनासादितविनाशोपेतं पर्वतादिकम् / विद्युदादेः खलु उदयाऽनन्तरमभावो न प्रतीतितोऽन्यतः सिद्धथति, सा च अन्यत्रापि भवन्ती किन्न तत्सद्भावं प्रसाधयेत् ? न खलु मुद्गरादिव्यापारात् प्राक् कल१५ शादेरभावः प्रतीयते। यदप्युक्तम्-'अन्ते विनाशोपलम्भात्' इत्यादि; तदप्ययुक्तम् ; अन्ते दृष्टधर्मस्य आदावपि अभ्युपगमे अन्ते सन्तानोच्छेदोपलम्भाद् आदावपि तदुच्छेदः स्यात् , अविद्यातृष्णाप्रक्षयस्य च अन्ते दर्शनात् आदावपि तसिद्धिप्रसङ्गतः सुगतस्य मार्गाऽभ्यासो व्यर्थः स्यात् / यदि च स्वहेतोः 'विनाशस्वभावो भावः समुत्पन्नः तर्हि मुद्गरादिप्रहारनिरपेक्षः तथाऽवभासेत / न' 20 हि प्रदीपादिः प्रकाशात्मकतया उत्पन्नः परमपेक्ष्य तद्रूपतया "अवभासते। न च मुद्गरादि प्रहाराऽभावे घटादिप्रध्वंसः स्वप्नेऽपि प्रतीयते, अतः कादाचित्कः" सन् अन्वयव्यतिरेकाभ्यां मुद्गरादिहेतुक एव असौ व्यवतिष्ठते / नहि कादाचित्को निर्हेतुको युक्तः उत्पादवत् / नापि यो यस्माद्भवति "सोऽतद्धेतुकः; प्रतिनियतहेतुफलव्यवस्थाऽभावप्रसङ्गात् / न च विसदृशस न्तानोत्पादने एव तद्वयापारस्य चरितार्थत्वम् इत्यभिधातव्यम् ; घटाविनाशे कपालसन्ततेरपि 25 अनुपपत्तेः / नहि विद्यमाने घटे कपालसन्ततिः उपलभ्यते, अतः तद्विनाशद्वारेणैव सा उत्प १-न्धप्रसिद्धिः श्र० / 2 पृ० 376 50 8 / ३-भेदैः ब० ज० / 4 उदयान्तरा-ब०, ज० / 5 कारणे ज-ब०, ज० / ६-ध्यभाव-ज०, ब० / 7 पृ० 376 पं० 16 / 8 विनाशसद्भावभा-६०, ज०। 9 परमपक्षा ब०, ज०। 10 भासते भां० / 11 “निर्हेतुकत्वस्यापि कतिपय कालावस्थायित्वेन विरोधाऽभावात् / न च नितुकत्वं युक्तम् ; भाव इव अभावेऽपि अन्वयव्यतिरेकाभ्यां हेतोर्व्यापारोपलम्भात्...।" प्रश० व्यो० पृ. 399 / न्यायमं० पृ. 458 / 12 श्र० / 13. अनुपपत्तिः ब०, ज० /