________________ लघी० प्रमाणप्र० का०८] . क्षणभङ्गवादः . 381 तव्यम् , एवमन्यैरपि इति कुशूलस्थस्यापि बीजस्य अङ्कुरजनकत्वप्रसङ्गः / भूतिक्षणे एव च अखिलस्य निरपेक्षतया उत्पादप्रसङ्गात् सकलसन्तानोच्छेदः स्यात् / कारणे विनष्टे कार्यस्योसादात् न तदुच्छेदः इति चेत; नन्वेवं कथं तत् तस्य कारणं स्यात् , यत्सद्भावे यन्नोत्पद्यते अभावे तु उत्पद्यते तस्य तत्कारणत्वाऽयोगात् ? ततः 'तत्तत्सहकारिसन्निधाने कारणं तत्तत्कार्य करोति' इति प्रेक्षादक्षैः प्रतिपत्तव्यम् / यच्च-"द्वितीयादिक्षणसाध्यकार्यस्य प्रथमक्षणे एव उत्पादः स्यात्' इत्याद्युक्तम्'; तदप्ययुक्तम् ; सामग्रीभेदात् , नहि द्वितीयक्षणादिसामग्री प्रथमक्षणसामग्री भवति / एकस्वभावेन च कार्यकारित्वमसिद्धम् , कारणस्वभावभेदमन्तरेण कार्याणां भेदाऽसम्भवात् / न चैवं प्रतिस्वभावं तद्वतो भेदप्रसङ्गात् क्षणिकत्वं स्यादित्यभिधातव्यम् ; अनुस्यूतस्य एकस्य अनेकस्वभावात्मकत्वे विरोधाऽसंभवात् / न च विरुद्धधर्माध्यास एव एकस्य अनेकस्वभावात्मकत्वं 10 विरुणद्धि ; यतो विरोधः अनुपलम्भसाध्यः, न च एकस्मिन् अनेकात्मकत्वाऽनुपलम्भोऽस्ति चित्रज्ञानस्य एकस्यापि अनेकात्मकत्वोपलम्भात् , सहकारीतरभावेन च एकस्यापि रूपादिक्षणस्य अनेकस्वभावत्वविभावनात् / नहि रूपं येनैव स्वभावेन रूपक्षणं जनयति तेनैव रसक्षणम् , तस्याऽपि रूपत्वप्रसङ्गात् रूपस्य वा रसत्वाऽनुषङ्गात् / स्वभावान्तरेण तज्जनने सिद्धं विरुद्धधर्माध्यासेऽपि एकस्यानेकस्वभावात्मकत्वम् / अपेक्ष्यमाणभेदादत्र तदविरोधे अक्षणिक- 15 स्यापि अत एव सोऽस्तु / युगपञ्च एकस्य अनेकस्वभावात्मकत्वाऽविरोधे क्रमेणाऽपि तदविरोधोऽस्तु अविच्छिन्नप्रवीतेरविशेषात् / तथा चायं हेतुः कालात्ययापदिष्टः क्षणिकपक्षस्य प्रत्यक्षबाधितत्वात् 'अश्रावणः शब्दः' इति पक्षवत् / अनिमेषलोचनो हि अर्थानामक्षणिकत्वमेव प्रतिपद्यते / न च अनेनाऽपि क्षण एव अनुभूयते, पूर्वाऽपरक्षणविवेकाऽभावतः तत्र अक्षणिकत्वप्रतीतिः इत्य- 20 भिधातव्यम् / तस्य अनुभवविच्छेदाऽनुपलक्षणात् , अनेकक्षणस्थायी हि तस्य अर्थाध्यवसायोऽविच्छिन्नरूपोऽनुभूयते। न खलु 'ज्ञानेन एकक्षणस्थायिनैव भवितव्यम्' इति नियमोऽस्ति, स हि तथाप्रतीतेर्नान्यतो भवितुमर्हति, सा च अनेकक्षणस्थायित्वेऽपि समाना / न च भिन्नकालसम्बन्धितया तत्र तावद्धा भेदसंभवात् स्थायित्वाऽनुपपत्तिः इत्यभिधातव्यम् ; एकानुभवसम्बन्धिनो यावदनुभवानुवृत्तेः कालस्य एकत्वात् / तथा प्रत्यभिज्ञानेनाऽपि क्षणिकपक्षबाधा स्फुटतरैव अनुभूयते; 'स एवाऽयम्' इत्याकारण 1 द्वितीयक्षण-ब०, ज०, श्र० / 2 पृ. 375 पं० 13 / ३"नहि कारणशक्तिभेदमन्तरेण कार्यनानात्वं युक्तं रूपादिज्ञानवत् / " अष्टश०, अष्टसह. पृ० 183 / ४-स्याप्यनेक-श्र० / 5 “अपि च येन रूपेण रूपस्य रूपं प्रत्युपादानकारणता तेनैव यदि रसं प्रति सहकारिकारणता तदा पुनरपि रूपरसयोरविशेषः / अथ अन्येन रूपेण रूपोपादानता अन्येन च रससहकारितेति तर्हि स्वभावभेदानानात्वम्"" न्यायमं० पृ. 455 / 6 “अपि च प्रत्यभिज्ञा""सर्वतो जाज्वलीति कस्तस्यां सत्यां क्षणभनिनो भावानभिदध्यात्"" न्यायमं० पृ. 458 / “सर्व चेदं क्षणभङ्गसाधनं कालात्ययापदिष्टं प्रत्यभिज्ञाप्रत्यक्षेण प्रतीतस्य पुनःप्रतीतेः / " प्रश० कन्द० पृ. 80 / 25