________________ 382 लघीयायालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० प्रेवर्तमानस्याऽस्य अतीतवर्तमानकालपरिगतत्वेन अर्थाऽवभासकत्वात् / ननु च अतीतदेश- . कालयोरतीन्द्रियत्वेन इन्द्रियसम्बन्धाऽभावात् कथं तद्विशिष्टत्वम् अतोऽर्थस्य प्रतीयेत ? इत्यप्ययुक्तम् ; प्रत्यभिज्ञानस्य इन्द्रियजत्वाऽसंभवात् स्मृतिप्रत्यक्षप्रभवत्वात्तस्य, अतः अतीतग्रह णसमर्थस्य अत्र स्मरणस्य विद्यमानत्वात् युक्तमेव अतीतविषयतया 'सः' इति ग्रहणम् , वर्त्त५ मानग्रहणसमर्थकस्य प्रत्यक्षस्य सद्भावाच्च 'अयम्' इति वर्तमानतया, अतः अतीतत्वेऽपि देश कालयोः तत्सम्बन्धिनो देवदत्तस्य इदानीन्तनदेशकालसम्बन्धितया ग्रहणमविरुद्धम् / प्राचीनसाम्प्रतिककालविशिष्टतया भेदोऽपि न सर्वथा देवदत्तस्वरूपभेदकः ; 'य एव मया पूर्व प्रतिपन्नो देवदत्तः स एव इदानीं प्रतीयते' इति तत्स्वरूपैकत्वप्रतीतेः। किञ्च, अभिज्ञाक्षणात् प्रत्यभिज्ञाक्षणं यावत् अर्थस्यास्थायित्वे प्रत्यभिज्ञानस्याप्रवृत्तिरेव 10 स्यात् , नहि नीलाभावे नीलज्ञानस्य प्रवृत्तिरस्ति, प्रवर्तते चेदम, अतः अर्थानां स्थायित्वसिद्धिः, अन्यथा नीलज्ञानात् नीलादेरपि सिद्धिर्न स्यात् , प्रामाण्यञ्चास्य अग्रे प्रसाधयिष्यते / यदि च कालव्यापित्वं देशव्यापित्वञ्च अर्थस्य न प्रतीयते किमेतावता तस्याभावः ? सर्वदर्शिनो हि . . दर्शननिवृत्तिः भावाऽभावं प्रसाधयति न अर्वाग्दृशः अतिप्रसङ्गात् / अर्थो हि स्वात्मना भवन् न ज्ञानेन अन्यथाकतुं पार्यते, नहि ज्ञानानामर्थान्यथात्वकरणे तथात्वकरणे वा सामर्थ्यम् , 15 तत्स्वरूपप्रकाशनमात्रे तेषां व्यापारात् / नियतसामग्रीतः समुत्पद्यमानानि हि ज्ञानानि यदि अर्थ सर्वात्मना परिच्छेत्तुमसमर्थानि तदा तेषामेव अयमपराधः नाऽर्थस्य, न खलु प्रदीपो रसं न प्रकाशयति इति रसस्य अपराधः अभावो वा। ___ यदि च अर्थक्रियातः अर्थानां सत्त्वं स्यात् तदा अर्थक्रियायाः कथं सत्त्वं स्यात्-अर्थक्रि यान्तरात् , स्वतो वा ? अर्थक्रियान्तराञ्चेत् ; अनवस्था / स्वतश्चेत् ; अर्थानामपि स्वत एध तदस्तु 20 किं ततस्तत्कल्पनया ? किञ्च, अर्थक्रियाकारित्वमेव सत्त्वम् , अर्थक्रियाकारित्वेन वा ? प्रथम पक्षे भेदाऽभावात् “यदेवार्थक्रियाकारि तदेव परमार्थसत् / " [ ] इति सत्त्वअर्थक्रियाकारित्वयोः लक्ष्यलक्षणभावो न स्यात् , भेदे सत्येव अस्य संभवात् / अथ अर्थक्रियाकारित्वेन सत्त्वम् 'यो हि तां करोति तस्य सत्त्वम्' इति ; तर्हि 'अन्यद् अर्थक्रियाकारित्वम् , अन्यत् सत्त्वम्' इत्यायातम् , तथा च 'सत्त्वं हि अर्थक्रियाकारित्वम्' इत्युक्तं विरुद्धथते / 1 वर्तमानस्या-आ०।२-समर्थकस्य ब०, ज०, आ० / ३-ग्रहणार्पकस्य श्र० / 4 ..."बुद्धयसञ्चरदोषतः // 56 // " आप्तमी० अष्टसह० पृ० 202 / 5 “अर्थक्रियायाश्च अपरार्थक्रिया यदि सत्त्वन्यवस्थापिका..।" प्रमेयक० पृ० 148 उ० / सन्मति० टी० पृ० 402 / 6 “तदेव परमार्थसत् / अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः / " न्यायबि० 1 / 14, 15 / प्रमाणवा० 3 / 3 / तत्त्वसं० पं० पृ. 144 / “अन्यत्संवृतिसत् प्रोक्ते ते सामान्यस्वलक्षणे / " इत्युत्तरार्द्धम् , अष्टसह पृ० 121 / अभि. आलोक पृ० 547 / 7 सत्त्वे यो हि ताःक-ब०, ज० /