________________ 380 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० गपद्ययोः क्षणिके विरोधात् यत् क्रमयोगपद्याभ्यामर्थक्रियाकारि तद् अक्षणिकमेव इति सिद्धमस्य विरुद्धत्वम् / अनैकान्तिकत्वञ्च-अक्षणिकेऽप्यर्थे तत्तत्सहकारिसन्निधाने क्रमाऽक्रमाभ्यामर्थक्रियाकारित्वोपपत्तेः।। यदप्युक्तम्'-'सहकारिणः तस्य उपकारं कुर्वन्ति न वा' इत्यादि ; तदसत् ; उपका५ रकाणामेव सहकारित्वाऽभ्युपगमात् , अन्योन्यसन्निधाने तेषामतिशयोत्पत्तेः / नहि असं जाताऽतिशयानां पूर्वरूपाऽविशेषात् कार्यजनकत्वं युक्तम् / धर्म-धर्मितया च उपकार-तद्वतोभेंदः / न च भेदे तस्यैव जनकत्वात् तद्वतोऽजनकत्वम् ; अत्यन्तभेदाऽप्रसिद्धः। धर्मधर्मितया हि तयोर्भेदः, अशक्यविवेचनत्वेन च अभेदः, बुद्धि-तदाकारवत् / न च यो यदर्थमेव कल्पितः स तस्यैवं बाधकः; बुद्धेः अर्थग्राहकत्वाऽभावप्रसङ्गात् आकारस्यैव अर्थग्राहकत्वाऽनुषङ्गात् / 10 ननु प्रत्येकं तेषां सामर्थ्य किमन्यापेक्षया ? इत्यप्यनुपपन्नम् ; यावतां सद्भावे कार्यमुपलभ्यते अभावे च नोपलभ्यते तावतां तत्र कारणत्वाऽवधारणात् , कारणसामर्थ्याऽसामर्थ्ययोः कार्यभावाऽभावाऽवसेयत्वात् / ___ कथञ्च इत्थं क्षणिकस्य अर्थक्रियाकारित्वं घटते ? स हि सहकारिसापेक्षः, निरपेक्षो वा तत्र समर्थः ? यदि निरपेक्षः; तर्हि कुशूलस्थोऽपि बीजक्षणः अङ्कुरं जनयेत्। अथ पूर्वपूर्व१५ क्षित्यादिक्षणपरम्परया आहितातिशयः अन्त्य एव बीजक्षणः तज्जनकः ; तर्हि सिद्धं सापेक्ष स्याऽस्य जनकत्वम् , तद्वत् नित्यस्याप्यस्तु अविशेषात् / अथ स्वोत्पत्तौ एव असौ सहकारिणोऽपेक्षते न कार्ये; तन्न; स्वोत्पत्तेरपि अन्येषां कार्यत्वात् , ततस्तैरपि अनपेक्षैः स्वकार्ये भवि क्षणिकेष्वपि भावेषु ननु चार्थक्रिया कथम् / विशेषाधायिनोऽन्योन्यं नह्याद्याः सहकारिणः // 428 // क्रमेण युगपचापि यतस्तेऽर्थक्रियाकृतः / न भवन्ति ततस्तेषां व्यर्थः क्षणिकताश्रयः // 431 // स हि आह-क्षणिकत्वेऽपि भावानां क्रमयोगपद्याभ्यामर्थक्रियाविरोध एव / यतस्ते स्वयं समर्था भवेयुरसमा वा ?'.." तत्त्वसं० / 1 पृ०३७५ पं० 15 / २-वासाधकः श्र० / 3 “अत्रोच्यते-न सत्त्वं क्षणभङ्गसिद्धौ अङ्गम् असाधारणत्वात् सन्दिग्धव्यतिरेकित्वाद्वा / तथाहि-क्रमाक्रमाभ्यां व्याप्तं सत्त्वं तदनुपलम्भेन अक्षणिकाद् व्यावर्त्तते एवं तदेव सापेक्षत्वानपेक्षत्वाभ्यां व्याप्तं तदनुपलम्भेन क्षणिकादपि व्यावर्त्तते / अन्तक्षणप्राप्तानि क्षितिपवनपाथस्तेजोबीजानि"परस्परानपेक्षाणि वा जनयेयुः सापेक्षाणि वा ?" "न्यायवा. ता. टी०३।२।१४ / पृ० 556 / प्रशकिरणा० पृ. 144 / "क्षणिकस्यापि भावस्य सत्त्वं नास्त्येव सोऽपि हि / क्रमेण युगपद्वापि न कार्य करणे क्षमः // क्षणिकस्य क्रमः कीदृग्युगपत्करणेषु वः / " न्यायमं० पृ. 453 / 4 " नन्वपेक्षते एव किन्तु स्वोत्पादे न पुनः स्वकार्ये। तत्र तस्य अनपेक्षत्वमुपेयते न तु स्वोत्पादे। ननु स्वोत्पत्तावपि अस्य जागर्ति स्वसन्तानवर्ती पूर्व एव निरपेक्षः क्षणः एवं पूर्वः पूर्वः क्षणः स्वसन्तानपतित एव अनपेक्षो जागर्युपजनन इति कुशूलनिहितबीज एव स्यात् कृती कृषीवलः कृतमस्य कृषिकर्मणा"।" न्यायवा० ता० टी० 3 / 2 / 14 / पृ० 557 /