________________ लघी० प्रमाणप्र० का०८] क्षणभङ्गवादः 377 हि अनेककालक्षणैः सकृदेव अर्थस्य सम्बन्धः स्यात् तदा तत्सामर्थ्यप्रभवमपि प्रत्यक्षं तस्य तद्वथापित्वं प्रतिपद्येत, न चाऽसौ सकृत् संभवति पूर्वाऽपरकालक्षणानां क्रमभावित्वात् / नापि स्मरणात् प्रत्यभिज्ञानाद्वा तत्प्रतिपत्तिः; तस्याप्रमाणत्वात् / यदप्युक्तम्'-'विनाशहेतूपनिपाते स भविष्यति' इति ; तत्र विनाशहेतुः विनश्वरं भावं' विनाशयति, अविनश्वरं वा ? तत्र अनश्वरस्य विनाशहेतुशतोपनिपातेऽपि नाशाऽनुपपत्तिः, 5 न हि स्वभावो भावानामन्यथा कर्तु पार्यते / नश्वरस्य च नाशे तद्धेतूनां वैयर्थ्यम् , न हि स्वकारणादेव अवाप्तस्वभावस्यार्थस्य तदर्थः अर्थान्तरव्यापारः फलवान् तदनुपरतिप्रसङ्गात् / किञ्च, भावात् भिन्नो नाशः नाशहेर्तुतः स्यात् , अभिन्नो वा ? यद्यभिन्नः; तदा भाव एव तद्धेतुभिः कृतः स्यात् , तस्य च स्वहेतोरेव उत्पत्तेः कृतस्य च करणाऽयोगात् तदेव तद्धेतुवैयथ्य कारणभेदाऽनुपपत्तिश्च / अथ भिन्नैः ; तदाऽसौ भावसमकालभावी, प्राक्कालभावी, तदु. 10 त्तरकालभावी वा स्यात् ? तत्र सहभावित्वे युगपद् भावाऽभावयोरुपलम्भः स्याद् अविरोधात् , विरोधे वा अभावेन क्रोडीकृतत्वाद् भावस्योपलम्भः स्वार्थक्रियाकारित्वञ्च न स्यात् / प्राक्कालभावित्वे भावस्यैव अभावात् कस्यासौ स्यात् ? सतो हि विनाशः, 'अलब्धसत्ताकस्य च विनाशः' इति महच्चित्रम् ! .. तदुत्तरकालभावित्वे घटादेः किमायातं येनाऽसौ स्वोपलम्भादिलक्षणामर्थक्रियां न कु. 15 र्यात् ? नहि तन्त्वादिभ्यः समुत्पन्ने पटे घटः तां कुर्वन् केनचित् प्रतिषेधुं शक्यः। ननु पटस्य अविरोधित्वान्न तदुत्पत्तौ घटस्य स्वार्थक्रियाकारित्वाभावः, अभावस्य तु तद्विपर्ययात् स स्यात् / अथ किमिदं विरोधित्वं नाम-नाशकत्वम् , नाशरूपत्वं वा ? नाशकत्वं चेत् ; तर्हि मुद्गरादिवत् नाशोत्पादद्वारेण अनेन घटादिरुन्मूलयितव्यः, नाशान्तरेऽपि च अयमेव पर्यनुयोगः इत्यनवस्था। नाशरूपत्वं चेत्, ननु कथमर्थान्तरभूतोऽयं तस्य नाशः, अन्यथा पटो घटस्य नाशः 20 स्यात् ? विरोधित्वाच्चेत् ; चक्रकप्रसङ्गः / अर्थान्तरत्वाऽविशेषाच्च कथं घटस्यैव असौ स्यात् , 1 पृ० 376 पं० 13 / २-वं नाशयति आ०, ब०, ज० / " इतश्च नाशहेतूनामकिञ्चित्करत्वं वक्तव्यम् ; तथाहि-भावः स्वहेतोरुत्पद्यमानः कदाचित् प्रकृत्या स्वयं नश्वरात्मैव उत्पद्यते, अनश्वरात्मा वा ? यदि नश्वरः; न तस्य किञ्चिन्नाशहेतुना"अथानश्वरात्मेति पक्षः; तदापि नाशहेतुरकिञ्चित्कर एव, तस्य केनचित् स्वभावान्यथाभावस्य कर्तुमशक्यत्वात् / " तत्त्वसं० पं० पृ० 140 / 3 स्वभावात् ब०, ज० / “तथाहि नाशको हेतुः न भावाऽव्यतिरेकिणः / नाशस्य कारको युक्तः स्वहेतोभीवजन्मतः // 358 // " तत्त्वसं०।४-तुः तस्मादभिन्नो ब०, ज०। 5 “निर्हेतुकत्वे वस्तूत्पत्त्यनन्तरमात्मानमासादयति तदयुक्तम् ; अत्र पञ्च पक्षा भवन्ति-वस्तूत्पत्तेः पूर्वम् , सह वा, अनन्तरं वा, कालान्तरे वा भवनम् , न वा भवनम् / " तत्त्वोप० पृ० 128 / तत्त्वसं० पृ० 136 / 6 क्रोडीकृत्यतत्तद्भा-ब०, ज० / ७-णार्थ- आ० / 8 तन्वादेः भां०, श्र० / 9 “पदार्थव्यतिरिक्त तु नाशनाम्नि कृते सति / भावे हेत्वन्तरैस्तस्य न किञ्चिदुपजायते // 360 // तेनोपलम्भकार्यादि प्राग्वदेवानुषज्यते / तादवस्थ्याच्च नैवास्य युक्तमावरणादपि // 36 // " तत्त्वसं० / / 48