________________ 378 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० अविशेषात् अन्यस्यापि कस्मान्नोच्येत ? न च 'येन सम्बन्धः तस्यासौ' इत्यभिधातव्यम् ; भेदाऽविशेषतः सम्बन्धस्यापि सर्वत्र प्रसङ्गात् / अथ मुद्गरादिना घटादेः प्राक्तनरूपविलक्षणं रूपान्तरं भगुरत्वाख्यं विधीयते तेनासौ 'तस्य' इत्युच्यते ; तत् किं स्वात्मनि तेनैव रूपेण अवस्थितस्य अस्य विधीयते, विनष्टस्य वा ? तत्र तेनैव रूपेण अवस्थितस्य विरोधान्न रूपान्तरं युक्तम् ; नहि अवस्थितायां नीलरूपतायां पीतरूपता कर्तुं शक्या। विनष्टस्य च असत्त्वात् कथं रूपान्तरोत्पत्तिः शशविषाणवत् ? चक्रकप्रसङ्गश्च; घटादेर्विनष्टत्वे सति रूपान्तरोत्पत्तिः, सत्यां तस्यां विनाशसम्बन्धः, सति तस्मिन् विनष्टत्वम् इति। न च प्रसज्यप्रतिषेधात्मनो भावस्य कार्यत्वधर्माधारता; वस्तुरूपतापत्तेः। वस्तुनो हि कारणसामग्रीतो भावः अर्थक्रिया कारित्वञ्च स्वरूपम् , अभावोऽपि चेत् तत उत्पद्येत परोन्मूलनलक्षणाञ्च अर्थक्रियां कुर्यात् 10 तदा कोऽस्य भावाद् विशेषः स्यात् ? तुच्छरूपस्य च अभावस्य अभावनिराकरणप्रकरणे विशेषतो निराकरिष्यमाणत्वात् अलमिह अतिप्रसङ्गेन / पर्युदासप्रतिषेधे तु घटादेरन्यः कपालादिश्चेत् तदभावः; तस्य सहेतुकत्वं केन प्रतिषिद्धम् ? मुद्रादीनां विसदृशसन्तानोत्पत्ती. व्यापारस्य अस्माभिरभ्युपगमात् , घटादयस्तु स्वोत्पत्तिक्षणानन्तरमस्थानशीलाः स्वकारणा देव संजाताः न कालान्तरमनुवर्त्तन्ते / 15 ततः सिद्धम्-'यो यद्भावं प्रति अन्याऽनपेक्षः स तत्स्वभावनियतः यथा अन्त्या कारण सामग्री स्वकार्योत्पादनं प्रति, विनाशं प्रति अन्याऽनपेक्षाश्च सर्वे भावाः' इत्यतोऽप्यनुमानात् उदयानन्तरमस्थायित्वं भावानाम् / तथा, 'यद् यथाऽवभासते तत तथैव सत् इत्यभ्युपगन्तव्यम् यथा नीलकुवलयं नीलतयाऽवभासमानं तेनैव रूपेण सत् , क्षणपरिगतेनैव रूपेण अवभासन्ते च सर्वे भावाः' इत्यनुमानतोऽपि / वर्तमानताग्रहणं हि "क्षणिकताग्रहणमुच्यते, 20 तच्च अस्ति प्रत्यक्षे, नहि पूर्वाऽपरकालपरिगतेनात्मना भावाः प्रत्यक्षादिना गृहीतुं शक्यन्ते इत्युक्तं प्राक् इति / १-च्यते श्र० / 2 तस्य भविष्यति इ- ब०, ज० / 3 “अथ क्रियानिषेधोऽयं भावं नैव करोति हि / तथाप्यहेतुता सिद्धा कर्तुर्हेतुत्वहानितः // 363 // तथाहि-प्रसज्यप्रतिषेधे सति नञः करोतिना सम्बन्धाद् अभावं करोति भावं न करोति इति क्रियाप्रतिषेधाद् अकर्तृत्वं नाशहेतोः प्रतिपादितम्।" तत्त्वसं० पं० पृ० 136 / 4 कार्यध-ब०, ज०। ५-स्यातो विशे-श्र०। 6 "विधिनैवमभावश्च पर्युदासाश्रयात्कृतः / यस्तत्र व्यतिरेकादिविकल्पो वर्तते पुनः // 365 ॥"विवक्षावशाद्धि कुतश्चन भावाद्विलक्षणो भाव एव अभाव इत्याख्यायते, तत्र च व्यतिरेकादिविकल्पे प्राक्तनो दोषः पुनरावत्तते / " तत्त्वसं० पं० पृ० 135 / 7 “यद्भावं प्रति यन्नैव हेत्वन्तरमपेक्षते। तत्तत्र नियतं ज्ञेयं स्वहेतुभ्यस्तथोदयात् / / 354 / / निर्निबन्धा हि सामग्री स्वकार्योत्पादने यथा। विनाशं प्रति सर्वेऽपि निरपेक्षाश्च जन्मिनः // 355 // " तत्त्वसं० / हेतुबि० टी० पृ० 213 / 8 तत्स्वभावो यथा भां० / ९मानग्रहणं ब०, ज०, भां० / 10 क्षणिकग्र-ब।