________________ 376 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० विनाशेन उत्तरोत्पादेन च अन्यत्वात् / प्रयोगः-ये अकृत्वा कुर्वन्ति कार्य ते प्रतिक्षणं नैकरूपाः यथा बीजादयः, अकृत्वा कुर्वन्ति च नित्यत्वेनाऽभिमताः पदार्थाः कार्याणि इति / तथा च एषां कृतकत्वप्रसिद्धः ततोऽपि क्षणिकत्वं सिद्धम् ; तथाहि-यत् कृतकं तत् क्षणि. कम् यथा विद्युत्-प्रदीपादि, कृतकाश्च विवादापन्नाः पदार्था इति / हेतोरुत्पद्यमानत्वं हि कृत५ कत्वम् , तच्च विनश्वरस्वभावनियतमेव / स्वहेतुतो हि भावाः समुत्पद्यमाना विनाशस्वभावनियता एव उत्पद्यन्ते अतः शिंशपात्व-वृक्षत्वयोरिव कृतकत्व-अनित्यत्वयोः तादात्म्यसिद्धिः / न च हेतुसामर्थ्यप्रभवत्वाऽविशेषेऽपि केचित् नित्याः केचिद् अनित्या भावा भविष्यन्ति इति नाऽनयोः तादात्म्यसिद्धिः इत्यभिधातव्यम् ; कारणसामर्थ्याऽभेदात् पावकादिवत् / न खलु पावकोत्पादककारणकलापः कश्चित् प्रकाशोष्णस्पर्शसहितं पावकमुत्पादयति कश्चित् तद्वि१. परीतम् इति तत्सामर्थ्यभेदः प्रतीतिगोचरः, येन अत्रापि नित्य-अनित्यस्वभावभावोत्पादकत्वेन कारणानां सामर्थ्यभेदः कल्प्येत / अतो भावं भावाः प्रादुर्भावयन्तो विनाशस्वभावमेव आविर्भावयन्ति, इति सिद्धं कृतकत्व-अनित्यत्वयोस्तादात्म्यम् / ननु विनश्वरस्वभावत्वेऽपि अर्थानां नैकक्षणस्थायित्वेन विनाशः, यदैव हि तद्धेतूपनिपातः तदैव असौ भविष्यति; इत्यप्ययुक्तम् ; नश्वरस्यापि प्रतिक्षणम् अनाशे कालान्तरेऽप्यविशेषतो 15 नाशानुपपत्तेः, न हि प्रकाशस्य प्रतिक्षणम् अप्रकाशता तस्यां वा पुनः कालान्तरे प्रकाशता दृष्टा / अन्ते च अर्थानां नाशोपलम्भात् नाशित्वे प्रकाशस्य प्रकाशत्ववत् सिद्धः स्वरूपमात्राऽनुरोधी विनाशः अविलम्बन आदावपि :अविशेषात् / किञ्च, शत-सहस्रक्षणस्थितिस्वभावो भावः प्रथमक्षणे जातः द्वितीयादिक्षणे तथैव आस्ते, न वा ? यदि आस्ते ; तदा अन्त्यक्षणेऽपि अस्य तथैव अस्तित्वप्रसङ्गान्न कदाचित् नाशो२० त्पत्तिः स्यात् , तत्र तत्स्वभावत्यागे वा सिद्धं क्षणिकत्वम् प्रतिक्षणं स्वभावभेदलक्षणत्वात् तस्य / किञ्च, अक्षणिकत्वं नाम अर्थस्य अनेकक्षणस्थायिनी सत्ता, अनेकक्षणयोगित्वञ्च अस्य अनेककालक्षणाऽप्रतिपत्तौ दुरवबोधम् / न च वर्तमानार्थेन्द्रियसम्बन्धसामर्थ्यप्रभवं प्रत्यक्षं वर्तमानकालसम्बन्धिताव्यतिरेकेण अर्थस्य अनेककालक्षणव्यापित्वं प्रतिपत्तु समर्थम् , यदि 1 अन्यत्वात् प्रसंगः भां० / 2 “तत्र ये कृतका भावास्ते सर्वे क्षणभगिनः / विनाशं प्रति सर्वेषामनपेक्षतया स्थितेः // 353 // " तत्त्वसं० / " तदेवं विनाशं प्रति अन्यापेक्षामसामर्थ्यवैयाभ्यां तद्धत्वयोगेन कृतकत्वलक्षणस्य सत्त्वस्य पूर्वाचार्यप्रदर्शितां प्रतिपाद्य यथासौ विपर्यये बाधकप्रमाणमनुभवति तद्दर्शयन्नाह-तस्माद् विनाशः।" हेतुबि० टी० पृ० 213 / 3 उष्णप्रकाशस-आ०, ब०, ज०, भां० / 4 कल्पेत आ०, ब०, ज०, भां० / 5 “अथ मृत्योरपक्रान्तः तस्य चेत् प्रथमः क्षणः / अविनाशस्वभावत्वादास्तां युगशतान्यपि // " न्यायमं० पृ. 448 / ६-वे प्रकाशकस्य भां०, ब०, ज०, श्र० / त्वे प्रकाशत्व-आ० / 7 प्रकाशतावत् भां०। प्रकाशकत्वत् ब०, ज. / ८-नुबन्धी भां०।