________________ लघो० प्रमाणप्र० का०८] क्षणभङ्गवादः 375 नापि क्षणिकस्य; पूर्वापरस्वभावत्यागोपादानविकलत्वात् , सकृदनेकशक्तिरहितत्वाच्च / यत् यत् तथाविधम् तत् तत् क्रमयोगपद्याभ्यामर्थक्रियाकारि न भवति यथा खरविषाणम् , एकक्षणस्थायितया निरंशतया च पूर्वापरस्वभावत्यागोपादानविकलं सकृदनेकशक्तिरहितञ्च परपरिकल्पितम् एकान्तक्षणिक' वस्तु इति / प्रतिषिद्धञ्च सन्तानप्रतिषेधाऽवसरे सर्वथा क्षणिकस्य अर्थक्रियाकारित्वम् , प्रतिषेत्स्यते चाग्रे / किञ्च, प्रमाणनिष्ठा प्रमेयव्यवस्था भवति, न च 5 क्षणिकत्वे किञ्चित् प्रमाणमस्ति / ननु इदमस्ति-' यत् सत् तत् सर्व क्षणिकम् यथा घटः, सन्तश्च भावाः' इति / सत्त्वं हि ___ अर्थक्रियाकारित्वमिति, अर्थक्रिया च क्रमयोगपद्याभ्यां व्याप्ता, ‘सत्त्वादिहेतुभ्यः सर्वे.भावाः क्षणिकाः .. " सा च अक्षणिके न संभवति तद्वयापकयोः क्रमयोगपद्ययोः तत्रैव च अर्थक्रिया संभवति न नित्ये' इति बौद्धस्य पूर्वपक्षः असंभवात् , तदसंभवश्व अस्य सर्वदा एकरूपत्वात् , अतः अर्थ- 10 क्रियाऽपि अनेन सदैव कर्त्तव्या न वा कदाचिद् अविशेषात् / क्रमेण अस्य अर्थक्रियाकारित्वसंभवे वा किं येन रूपेण एकं कार्य करोति तेनैव अपरम् , रूपान्तरेण वा ? तेनैव चेत् ; तर्हि द्वितीयक्षणसाध्यकार्यस्य प्रथमक्षण एव उत्पादप्रसङ्गः तदुत्पादकस्वरूपस्य प्रागपि भावात् / रूपान्तरेण चेत् ; तर्हि पूर्वरूपस्य निवृत्तत्वात् क्षणिकत्वम् / अथ तत्तत्क्रमवत्सहकारिसन्निधिमपेक्ष्य नित्यं तत्तत्कार्य करोति; ननु ते सहकारिणः तस्य 15 उपकारं कुर्वन्ति, न वा ? कुर्वन्ति चेत् ; किं ततो व्यतिरिक्तम् , अव्यतिरिक्तं वा ? यदि अव्यतिरिक्तम् / तदा 'तदेव कुर्वन्ति' इत्यायातम् , तस्य च पूर्वमेव निष्पन्नत्वान्न किञ्चित् सहकारिभिः क्रियेत। अथ व्यतिरिक्तम् ; तदा 'तस्य' इति व्यपदेशाऽभावः असम्बन्धात् , सम्बन्धान्तरकल्पने च अनवस्था / तन्न क्रमेण अक्षणिकः कार्यमारभते / / - नापि युगपत् ; एकदैव अखिलकार्योत्पादकस्वभावतया प्रथमक्षण एव अखिलकार्योत्पा- 20 दनात् वणान्तरे तदुत्पाद्यकार्याऽभावतः अनर्थक्रियाकारित्वेन अश्वविषाणवत् असत्त्वप्रसङ्गात्। किञ्च, उत्पादिताऽशेषकार्यग्रामस्य ,किमस्य असौ स्वभावो निवर्त्तते, न वा ? यदि न निवतते; तदा प्रथमक्षणवत् द्वितीयादिक्षणेऽपि तत्स्वभावाऽनिवृत्तेः समस्तस्य उत्पादितस्यापि उत्पादनप्रसङ्गात् पिष्टपेषणाऽनुषङ्गः / निवर्त्तते चेत्, तर्हि तन्निवृत्तौ तस्यापि निवृत्तिः तस्य ततोऽभिन्नत्वात् , अतः कथमस्याऽक्षणिकत्वम् ? तस्य ततो भेदे वा 'तस्य' इति व्यपदेशाऽनुपपत्तिः 25 सम्बन्धाऽभावात् , तद्भावे वा अनवस्था तस्यापि अपरसम्बन्धपरिकल्पनप्रसङ्गात् / किञ्च, कार्योत्पादनसमये तेषां प्राक्तनाऽऽकारस्वभावत्यागः अस्ति, न वा ? नास्ति चेत् ; . पूर्ववत् तदापि अतः कार्याऽनुत्पादप्रसङ्गः / अस्ति चेत; क्षणिकत्वम् , प्रतिक्षणं पूर्वस्वभाव. 1 "क्षणिकैकान्तपक्षेऽपि प्रेत्यभावाद्यसंभवः / प्रत्यभिज्ञाद्यभावान्न कार्यारम्भः कुतः फलम् // 41 // " आप्तमी०, अष्टसह. 181 / तत्त्वार्थश्लो० पृ. 77 / प्रमेयक० पृ० 147 / 2 पृ० 10 / ३-रित्वमर्थ-आ० / 4 अक्षणिकत्वे ब०, ज० / 5 तत्कार्य आ० / 6 क्रियते आ०, भां० /