________________ 374 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० र्थक्रियाकारित्वेन आकाशकुशेशयवद् असत्त्वप्रसक्तेः / अतः सर्वथा नित्यस्य वस्तुनः क्रमाऽ-. क्रमाभ्यामर्थक्रियाकारित्वाऽसंभवादवस्तुत्वमेवायातम् / यत् क्रमाऽक्रमाभ्यामर्थक्रियाकारि न भवति न तद् वस्तु यथा गगनेन्दीवरम् , न भवति च क्रमाऽक्रमाभ्यामर्थक्रियाकारि सर्वथा नित्यम् आत्मपरमाण्वादिकम् , तस्मान्न वस्तु इति / किञ्च, अस्य सर्वदा तत्कारित्वस्वभावता, कदाचिद्वा ? प्रथमपक्षे सर्वदैव अतः सकलकार्याणामुत्पत्तिः स्यात् सदैव तेषामविकलकारणत्वात् / यद् यदा अविकलकारणं तत् तदा उत्पत्तिमत् प्रसिद्धम् यथा समानसमयोत्पादा बहवोऽङ्कराः , अविकलकारणानि च सर्वदा कार्यकारित्वस्वभावनित्यार्थकार्यतया अभिमतानि अखिलकार्याणि इति / ___ अथ कदाचित् ; तर्हि 'पूर्व कार्योत्पादनाऽसमर्थस्वभावं सत् तत् पश्चात् समर्थस्वभावं 10 भवति' इत्यायातम् / तत्रापि तदुत्पत्तिसमये तद् असमर्थस्वभावं त्यजति, न वा ? यदि न त्यजति; तर्हि सर्वदा कार्याऽनुत्पादकत्वप्रसङ्गः / यत् खलु यदुत्पादने अपरित्यक्त-असमर्थस्वभावम् न ततस्तदुत्पत्तिः यथा यवबोजात् शाल्यङ्करस्य, कार्योत्पादने अपरित्यक्त-असमर्थस्वभावञ्च पूर्वमिव तदुत्पत्तिसमयेऽपि नित्याभिमतं वस्तु इति / अथ त्यजति; तन्न; नित्यैकरूपतया तस्यः / प्राक्तनतदुत्पादनाऽसमर्थस्वभावपरित्यागाऽसंभवात् / तत्संभवे वा अस्य नित्यैकरूपताव्या१५ घातः, यत् परित्यक्तपूर्वस्वभावं न तद् एकरूपम् यथा अङ्गुल्यादि, परित्यक्तपूर्वाऽसमर्थस्वभा. वञ्च नित्यैकरूपतया अभिमतं वस्तु इति / अतः कथं तस्य नित्यैकरूपता ? परिणामित्वस्यैव उपपत्तेः असमर्थस्वभावपरित्यागेन समर्थस्वभावस्वीकारस्य तदन्तरेण अनुपपत्तेः , न खलु नित्यैकरूपे वस्तुनि पूर्वापररूपत्यागोपादाने घटेते / यत्र पूर्वापररूपत्यागोपादाने स्तः तत् परि णामि यथा कुण्डलेतरावस्थाक्रोडीकृतं सर्पादि, असामर्थ्यतरलक्षणपूर्वाऽपररूपत्यागोपादाने स्तश्च 20 नित्यतयाऽभिमते वस्तुनि इति / 'नित्यैकरूपोऽप्यर्थः सहकारिसहितः कार्य करोति न सर्वदा' इत्यभिदधताऽपि परिणामित्वमेव समर्थितम् ; असाहित्यरूपत्यागेन साहित्यरूपोपादानात् , इति क्रमेण युगपदा अनेकधर्मात्मकस्यैव अर्थस्य अर्थक्रियाकारित्वं प्रतिपत्तव्यम् / प्रत्येकञ्च आत्मादिनित्यद्रव्याणां प्रकृतेश्च अपरिणामित्वे एवम् अर्थक्रियाकारित्वाभावो द्रष्टव्यः। यथा च एषां तथाभूतानां तत्कारित्वं न घटते तथा षटपदार्थपरीक्षायां प्रकृतिपरी२५ क्षायाञ्च विस्तरतः प्रतिपादितम् / तन्न नित्यस्य वस्तुनः क्रमयोगपद्याभ्यामर्थक्रियाकारित्वं घटते। . १“युगपदशेषाणि कार्याणि कृत्वा स किं तस्यार्थक्रियासमर्थःस्वभावो निवर्त्तते अहोस्विदनुवर्तते ? तत्र यदि निवर्त्तते इति पक्षः तदा तस्य क्षणभङ्गित्वं सिद्धम् "तद्रूपस्यानुवृत्तौ तु कार्यमुत्पादयेत् पुनः / अकिञ्चित्कररूपस्य सामर्थ्य चेष्यते कथम् // 415 // सर्वसामर्थ्यशून्यत्वात्तारापथसरोजवत् / असन्तोऽक्षणिकाः सर्वे शक्तिर्यद्वस्तुलक्षणम् // 416 // " तत्त्वसं०।२ वा तस्य श्र० / 3 सर्वदैव ब०,ज०। ४-कस्यैवाथक्रिया ब०, ज०, भां०, श्र० / 5 "नित्यत्वैकान्तपक्षेऽपि विक्रिया नोपपद्यते / प्रागेव कारकाभावः क्व प्रमाणं क्व तत्फलम् // 37 // " आप्तमी / “पूर्वापरस्वभावपरिहारावाप्तिलक्षणामर्थक्रियां कौटस्थ्येऽपिब्रुवाण: कथमनुन्मत्तः?" अष्टश०,अष्टसह पृ० 179 / तत्त्वार्थश्लो० पृ. 76 / प्रमेयक० पृ० 147 पू० /