________________ लघी० प्रमाणप्र० का० 8] नित्ये अर्थक्रियाभावसमर्थनम् 373 कार्यकालमेन स्यात् पूर्वकालकार्यजननस्वभावजन्यत्वात् / यद् यन् तथाविधस्वभावजन्यम् तत् तत् पूर्वकार्यकालम् यथा तत्कालाभिमतं कार्यम् , पूर्वकालकार्यजननस्वभावजन्यन्च नित्यैकरूपस्य वस्तुनः पाश्चात्यं कार्यमिति / अथ येन स्वभावेन उत्तरं कार्य तत् करोति तेनैव पूर्वम् ; तर्हि पूर्वमपि कार्य पाश्चात्यकार्यकालमेव स्यात् पाश्चात्यकालकार्यजननस्वभावजन्यत्वात् पाश्चात्यकालकार्यवत् / __ अथ तज्जननस्वभावजन्यत्वाऽविशेषेऽपि तत्तत्सहकारिक्रमात् तंत्र कार्यक्रमोऽभ्युपगम्यते; सहकारिकृतमेव तर्हि तत् कार्य स्यात् / नित्यस्यापि तत्र सन्निधानान्न दोषोऽयमिति चेत् ; किम् अकिञ्चित्करसन्निधानेन ? अन्यथा घटोत्पत्तौ रासभस्यापि सन्निधानात् तस्य तत्कृतत्वप्रसङ्गः। किञ्चित्करत्वे वा काचपच्यप्रसङ्गः, 'नित्यं हि वस्तु कार्य पूर्वकालमेव कर्तुमिच्छति सहकारिणस्तु उत्तरकालम्' इति / अथ पूर्वमन्येन स्वभावेन तत् तज्जनयति पाश्चात्यञ्च अन्येन; 10 ननु तत्स्वभावद्वयं तस्य सदा संभवति, कार्यवद्वा क्रमि स्यात् ? प्रथमपक्षे स एव दोषः ; 'पूर्वकार्यकाले पाश्चात्यम् तत्काले वा पूर्व स्यात्' इति। द्वितीयपक्षे तु ततः स्वभावद्वयम् अभिन्नम् , भिन्नं वा ? अभेदेऽपि किं नित्याद् वस्तुनः स्वभावद्वयम् अभिन्नम् , ततो वा नित्यं वस्तु ? आद्यविकल्पे तस्य नित्यत्वप्रसक्तिः नित्यादभिन्नस्वभावत्वात् , यत् नित्यादभिन्नस्वभावं तत् नित्यं दृष्टम् यथा नित्यस्वात्मा, नित्यादभिन्नस्वभावश्च स्वभावद्वयमिति / द्वितीयविकल्पे तु 15 नित्यस्य अनित्यत्वप्रसक्तिः अनित्यादभिन्नस्वरूपत्वात् , यदनित्यादभिन्नस्वरूपम् तदनित्यं प्रति पन्नम् यथा अनित्यस्वात्मा, अनित्यात् स्वभावद्वयाद् अभिन्नस्वरूपञ्च नित्यत्वाभिमतं वस्तु * इति / अथ स्वभावद्वयं ततो भिन्नमिष्यते तेनायमदोषः; कथमेवं 'तस्य इदं स्वभावद्वयम्' इति व्यपदेशः सम्बन्धाऽसंभवात् , समवायादेश्च प्रतिषिद्धत्वात् ? तन्न क्रमेण नित्यस्य कार्यत्वं घटते / . नापि योगपद्येन; एकस्मिन्नेव क्षणे सकलकार्योत्पत्तिप्रसङ्गतो द्वितीयादिक्षणे तस्य अन- 20 1 तत्सह-भा०, श्र० / 2 तत्कार्य-ज०,भां० / तत्तत्कायें-श्र० / "क्रमेण युगपचापि यस्मादर्थक्रियाकृतः / न भवन्ति स्थिरा भावा निःसत्त्वास्ते ततो मताः // 394 // न तावत् स्थिरस्य भावस्य क्रमेणार्थक्रिया युक्तति दर्शयति-कार्याणि हि विलम्बन्ते कारणासन्निधानतः / समर्थहेतुसद्भावे क्षेपस्तेषां हि किंकृतः // 395 // अथापि इत्यादिना परस्योत्तरमाशङ्कते-अथापि सन्ति नित्यस्य क्रमिणः सहकारिणः / यानपेक्ष्य करोत्येष कार्यग्राम क्रमाश्रयम् // 396 // साध्वित्यादिना प्रतिविधत्ते-साध्वेतत् किन्तु ते तस्य भवन्ति सहकारिणः / किं योग्यरूपहेतुत्वादेकार्थकरणेन वा // 39 // योग्यरूपस्य हेतुत्वे स भावः तैः कृतो भवेत् ।सचाशक्यक्रियो यस्मात् तत्स्वरूपं सदा स्थितम् // 398 // कृतौ वा तत्स्वरूपस्य नित्यताऽस्यावहीयते। विभिन्नोऽतिशयस्तस्माद् यद्यसौ कारकः कथम् // 399 // " तत्त्वसं० / “नित्यस्य निरपेक्षत्वात् क्रमोत्पत्तिः विरुद्धयते / " प्रमाणवा० 2 / 267 / हेतुवि० टी० पृ. 218 / 3 "नापि यौगपद्येन इति दर्शयतियौगपद्यं च नैवेष्टं तत्कार्याणां क्षयेक्षणात् // 413 // निःशेषाणि च कार्याणि सकृत्कृत्वा निवर्त्तते / सामर्थ्यात्मा स चेदर्थः सिद्धास्य क्षणभजिता // 414 // " तत्त्वसं०। 4 तस्याकार्यकारितस्यानर्थ-ज० /