________________ 371 लघी० प्रमाणप्र० का०७] द्रव्यपर्याययोर्भेदाऽभेदवादः नान्यत् , नचैकत्र विरोधो नामअस्य द्विष्ठत्वात् अन्यथा सर्वत्र सर्वदा तत्प्रसङ्गः / अथ विरुद्धधमानत्व-विरोधकत्वापेक्षया कर्तृ-कर्मस्थोऽपि विरोधो विरोधसामान्यापेक्षया उभयविशेषणत्वात् द्विष्ठोऽभिधीयते ; नन्वेवं रूपादेरपि विरोधकत्वापत्तिः तत्सामान्यस्यापि द्विष्ठत्वाऽविशेषात् , तथा च विरोधकल्पनावैयर्थ्यम् / अभावस्वभावत्वे चास्य सामान्य-विशेषभावाऽनुपपत्तिः, गुणादिरूपत्वे गुणादिविशेषणत्वाऽनुपपत्तिः / यदि च षट्पदार्थव्यतिरिक्तत्वात् पदार्थविशेषो विरोधः अनेकस्थो विरोध्य-विरोधकप्रत्ययविशेषप्रसिद्धः समाश्रीयते; तदाप्यस्य असम्बद्धस्य द्रव्यादौ विशेषणत्वं स्यात् , सम्बद्धस्य वा ? न तावद् असम्बद्धस्य; अतिप्रसङ्गात् , दण्डादौ तथाऽप्रतीतेश्च , न खलु पुरुषेण असम्बद्धो दण्डः तस्य विशेषणं प्रतीतः येन अत्रापि तथाभावः स्यात् / अथ सम्बद्धः ; किं संयोगेन, समवायेन, विशेषणभावेन वा ? न तावत् संयोगेन; अस्य अद्रव्यत्वेन संयोगाऽनाश्रयत्वात् / नापि समवा- 10 येन; अस्य द्रव्य-गुण-कर्म-सामान्य-विशेषव्यतिरिक्तत्वेन असमवायित्वात् / नापि विशेषणभावेन; सम्बन्धान्तरेणाऽसम्बद्ध वस्तुनि तस्याऽसंभवात् , अन्यथा दण्ड-पुरुषादौ संयोगादिसम्बन्धाऽभावेऽपि स स्यात् इत्यलं संयोगादिसम्बन्धकल्पनाप्रयासेन / ततो विरोधस्य विचार्यमाणस्य अनुपपद्यमानत्वात् नाऽसौ सत्त्वाऽसत्त्वयोर्युक्तः / ... नापि वैयधिकरण्यम्; एकाधारतया निर्बाधबोधे तयोः प्रतिभासमानत्वात् / नापि उभय- 15 दोषाऽनुषङ्गः; चौर-पौरिदारिकाभ्यामचौर-पारदारिकवत् तदात्मकवस्तुनो जात्यन्तरत्वात् / न खलु सत्त्वाऽसत्त्वयोर्भेदाऽभेदयोर्वा अन्योन्यनिरपेक्षयोः एकत्वं जिनपतिमताऽनुसारिभिरिष्टम् येन अयं दोषः स्यात्; तत्सापेक्षयोरेव तदभ्युपगमात् , तथाप्रतीतेश्च / नापि सङ्कर-व्यतिकरौ; स्वस्वरूपेणैव अर्थे तयोः प्रतीयमानत्वात् / नाप्यनवस्था; धर्माणामपरधर्माऽसंभवात् , “धर्मिणो ह्यनन्तरूपत्वं न धर्माणां कथञ्चन।" [ ] इत्यभिधानात् / अभावदोषस्तु दूरो- 20 त्सारित एव; सदसदाद्यनेकान्तात्मनोऽर्थस्य अध्यक्षादिप्रमाणतः प्रसिद्धेः / १-था सर्वदा आ० / २-षणभावा-श्र० / 3 ".."जात्यन्तरत्वादचौरपारदारिकवचौरपारदारिकाभ्याम्"।" अष्टसह० पृ० 206 / 4 संशयाद्यष्टदोषाणां परिहारो निम्नग्रन्थेषु द्रष्टव्यः-"उदयस्थितिसंहारलक्ष (ण) स्य सतः प्रतिभासादिभेदाभेदाभ्यां भेदाभेदप्रसिद्धिः आत्मप्रतिबन्धेन तथापरि णामात् ; संशयविरोधवैयधिकरण्योभयदोषप्रसङ्गानवस्थासङ्कराभावकल्पनामन्योन्याविवेकप्रतीतिरतिशेते / " ' प्रमाणसं० पृ०६५ पू० / “न चास्य विरोधसङ्करानवस्थाप्रसङ्गदोषानुग्रहण" नयचक्रवृ० पृ०५८ उ० / न च स्वभावभेदोपलम्भेऽपि नानात्वविरोधसङ्कराऽनवस्थानुषङ्गः चेतसि ग्राह्यग्राहकाकारवत् / अष्टश०, अष्टसह. पृ. 206 / तत्त्वार्थश्लो. पृ० 435 / प्रमेयक० पृ० 158 पू० / सन्मति० टी० पृ. 451 / स्या. रत्ना० पृ० 741 / प्रमेयरत्नमा० 4 / 1 / प्रमाणमी० पृ० 44 / स्याद्वादम० पृ० 197 / सप्तभगित० पृ० 81 /