________________ 370 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरिक द्रव्यात् स्वस्मादभिन्नाश्च व्यावृत्ताश्च परस्परम् / / उन्मज्जन्ति निमज्जन्ति जलकल्लोलवत् जले // "[ ] इति / / किञ्च, विरोधः अविकलकारणस्य एकस्य भवतः द्वितीयसन्निधानेऽभावाद् अवसीयते शीताग्निवत् / न च सत्त्वसन्निधाने असत्त्वस्य तत्सन्निधाने वा सत्त्वस्य अभावः कदाचिदप्यनु५ भूयते / अपि च अनयोर्विरोधः सहाऽनवस्थानलक्षणः, परस्परपरिहारस्थितिस्वभावः, बध्यघातकस्वरूपो वा स्यात् ? न तावत् सहाऽनवस्थानलक्षणः; अन्योन्याऽव्यवच्छेदेन एकस्मिन् आधारे सत्त्वाऽसत्त्वयोः प्रतीयमानत्वात , ययोस्तथा प्रतीयमानत्वं न तयोः तथा विरोधः यथा रूपरसयोः, तथा प्रतीयमानत्वञ्च सत्वाऽसत्त्वयोरिति / परस्परपरिहारस्थितिलक्षणस्तु विरोधः सहैकत्र आम्रफलादौ रूपरसयोरिव अनयोः संभवतोरेव स्यात् , न पुनरसंभवतोः 10 शंशाश्वविषाणवत् , संभवदसंभवतोर्वा वन्ध्या-स्तनन्धययोरिव / ___ किञ्च, अयं विरोधः धर्मयोः, धर्मधर्मिणोर्वा ? प्रथमपक्षे सिद्धसाधनम्, एतल्लक्षणत्वाद् धर्माणाम् / न च एवंविधविरोधाक्रान्तानां तेषामेकाधिकरणत्वविरोधः ; तथाविधानामप्येषां तदधिकरणतया प्रतीतेः मातुलिङ्गे रूपादिवत् / धर्मधर्मिणोस्तद्विरोधे धर्मिणि धर्माणां प्रती तिरेव न स्यात् , न चैवम् , अबाधबोधाधिरूढप्रतिभासत्वात् तत्र तेषाम् / बध्यघातकरूपोऽपि 15 विरोधः फणिनकुलयोरिव वलवदबलवतोः प्रतीतः सत्त्वाऽसत्त्वयोस्तुल्यबलत्वात् नाऽऽशङ्कनीयः / अस्तु वा कश्चिद्विरोधः; तथाप्यसौ सर्वथा, कथञ्चिद्वा स्यात् ? न तावत् सर्वथा; शीतोष्णस्पर्शादीनामपि सत्त्वादिस्वरूपाऽव्यवच्छेदतः तद्रूपतया विरोधाऽसिद्धेः, यत् यत्स्वरूपाऽव्यवच्छेदकं न तत् तद्रूपतया विरुद्धम् यथा घटत्वादिना घदादि, सत्त्वादिस्वरूपाऽव्यवच्छे दकाश्च शीतोष्णस्पर्शादय इति / एकाधारतया प्रतीयमानत्वाच्च ; यद् एकांधारतया प्रतीयते 20 न तत् सर्वथा विरुद्धम् यथा रूपरसादि एकतुलायां नामोन्नामादि वा, एकाधारतया प्रतीयते च धूपदहनादौ शीतोष्णस्पर्शादय इति / कथञ्चिद्विरोधस्तु रूपादावपि समानः इति एकस्य सदसद्रूपतावत् रूपादिस्वभावताऽपि न स्यात् , न चैतद् युक्तम् प्रतीतिविरोधात् / किञ्च,भावेभ्यो भिन्नो विरोधः, अभिन्नो वा ? यदि अभिन्नः; कथं विरोधको नाम स्वात्मभूतत्वात् तत्स्वरूपवत् ? अथ भिन्नः; तथापि न विरोधकः तत एव अर्थान्तरवत्। अथ अर्थान्त२५ न्तरभूतोऽपि विरोधो विरोधकः भावानां विशेषणत्वात् , न तु अर्थान्तरम् विपर्ययात् ; तदप्यः युक्तम् ; विरोधो हि तुच्छरूपोऽभावः, स यदि शीतोष्णद्रव्ययोर्विशेषणम् तर्हि तयोः अदर्शनापत्तिः / अन्यतरविशेषणत्वेऽपि एतदेव दूषणम् / तदेव च विरोधि स्यात् यस्यासौ विशेषणं १"द्विविधो हि पदार्थानां विरोधः-आवेकलकारणस्य भवतोऽन्यभावे अभावाद् विरोधगतिः शीतोष्णस्पर्शवत् / परस्परपरिहारस्थितलक्षणतया वा भाववत् / " न्यायबिन्दु पृ. 96-98 / प्रमेयक पृ० 158 उ० / सन्मति० टी० पृ० 131 / 2 शशखरविषा-श्र० / 3 चैव तद् श्र० / ४-रोधः स्वा-श्र० /