________________ लघी० प्रमाणप्र० का०७] द्रव्यपर्याययोर्भदाऽभेदवादः 369 नापि विरोधः; सत्त्वाऽसत्त्वयोस्तत्र भिन्ननिमित्तनिबन्धनत्वात् , ययोभिन्ननिमित्तनिबन्धनत्वं न तयोः एकत्र धर्मिणि विरोधः यथा एकत्वाऽनेकत्वयोः सूक्ष्मत्वस्थूलत्वयोर्वा, भिन्ननिमित्तनिबन्धनत्वच एकत्र धर्मिणि सत्त्वासत्त्वयोरिति / किञ्च, विरोधः सर्वत्र अनुपलम्भसाध्यो भवति / यत् खलु यत्र उपलब्धिलक्षणप्राप्तं सत् नोपलभ्यते तत् तत्र विरुद्धम् यथा तुरङ्गमोत्तमाङ्गे शृङ्गम् , न च स्वरूपादिना वस्तुनि सत्त्वोपलम्भे पररूपादिना असत्त्वस्य अनुपलम्भो- 5 ऽस्ति इति / तत्र उपलभ्यमानयोरपि अॅनयोः विरोधाऽभ्युपगमे स्वस्वभावेनापि वस्तुनो विरोधाऽनुषङ्गात् निःस्वभावतापत्तिः स्यात् / यदि चैकत्र विधिप्रतिषेधात्मकत्वं विरुद्धयते तदा कथम् अनुवृत्तव्यावृत्तप्रत्ययहेतुशक्तिद्वयात्मकत्वं सामान्यविशेषस्य स्यात् , एकाऽनेकस्वभावा-त्मकत्वं मेचकस्य वा ? कथञ्च एकस्य नरसिंहत्वम् उमेश्वरत्वं वा स्यात् ? जात्यन्तरत्वान्न दोषः इत्यन्यत्रापि समानम् / उक्तञ्च"तदेव च स्यान्न तदेव च स्यात् तथाप्रतीतेस्तव तत्कथञ्चित् / " [ पृहत्स्वयं० श्लो० 42 ] "दृष्टत्वान विरोधोऽपि कथ्यते युक्तिशालिभिः / विरोधोऽनुपलम्भो हि यतो जैनमते मतः // दृश्यते मेचकादौ हि नीलपीतादिसंविदः। पञ्चवर्ण यतो रत्नं मेचकं परिकीर्तितम् // न नरः सिंहरूपत्वात् न सिंहो नररूपतः। शब्दविज्ञानकार्याणां भेदात् जात्यन्तरं हि तत् // न नरो नर एवेति न सिंहः सिंह एव वा / सामानाधिकरण्येन नरसिंहः प्रकीर्तितः // १-स्थूलतयोर्वा ब०, ज० / २-ञ्च उक्तध-आ०, ब०, ज० / 3 उभयोः ब०,ज० / 4 “एकत्र बहुभेदानां संभवान्मेचकादिवत् // " न्यायविनि० 2 / 45 / “यथा कल्माषवर्णस्य यथेष्टं वर्णनिग्रहः // 5 // चित्रत्वाद्वस्तुनोप्येवं भेदाभेदावधारणम् / यदा तु शवलं वस्तु युगपत्प्रतिपद्यते // 62 // तदान्यानन्यभेदादि सर्वमेव प्रलीयते // " मीमांसाश्लो० आकृतिवाद / 5 “नात्यन्तमन्यत्वमनन्यता च विधेर्निषेधस्य च पूर्वदोषात् / " इत्युत्तरार्द्धम् / 6 'न नरः सिंहरूपत्वात् / 'न नरो नर एवेति' इमे द्वे कारिके अनेकान्तवादप्रवेशटिप्पणके (पृ. 15) 'न नरः सिंहरूपत्वात्' इति च तत्त्वार्थभाष्यव्याख्यायाम् (पृ० 377 ) “संज्ञाविज्ञानकार्याणाम् / इति पाठभेदेन च जैनतर्कवा. वृत्तौ (पृ० 116) उद्धृताऽस्ति / "किमिव ? नरसिंहवत् / यथा नरस्याकारो प्रस्त्यः (1) सिंहस्याकारः शिरोभागः तदुभयाभेदगतेः नरसिंह इत्युच्यते।" नयचक्रवृ० पृ. 55 पू० / “भागे सिंहो नरो भागे योऽर्थो भागद्वयात्मकः / तमभाग विभागेन नरसिंह प्रचक्षते // " तत्त्वोपप्लव० पृ० 96 / नरसिंहस्य दृष्टान्तरूपेण उल्लेखः तत्त्वार्थराजवा० पृ० 225, मीमांसाश्लो० पृ० 881, वाक्यप० द्वि० काण्ड पृ० 121, तत्त्वसं० पृ० 122, हेतुबि० टी० पृ० 105 इत्यादिषु वर्त्तते / 7 प्रतीतितः भां०, अनेकान्तवादप्र. टि. पृ० 15 / 47