________________ 368 लवीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [२विषयपरि० स्वरूपप्रसङ्गाद् अभावकल्पनावैयर्थ्यम् / अथ भूतलधर्मोऽसौ ; तन्न ; 'घटो नास्ति' इति सामा- . नाधिकरण्येन प्रत्ययप्रवृत्तितो घटधर्मत्वस्य अत्र उपपत्तेः भाववत् , यथैव हि 'घटोऽस्ति' इति सामानाधिकरण्यप्रतीतेः भावः घटधर्मः तथा अभावोऽपि / अभावस्य आधारधर्मत्वेऽपि औधे यसामानाधिकरण्याऽविरोधे भावस्यापितद्धर्मत्वेऽपि तदविरोधोऽस्तु,इति उभयधर्मशून्यो घटादिः 5 खपुष्पात् न विशिष्येत / एतेन उभयधर्मताऽपि असत्त्वस्य प्रत्युक्ता; सत्त्वस्यापि तद्धमताप्रसङ्गात्। __ यदप्युक्तम्-' भाँवरूपता ग्रासीकृता' इत्यादि ; तत्र किमिदम् अभावरूपतया प्रासीकरणं नाम-स्वरूपापहारः, एकाश्रयप्रतिषेधो वा ? न तावत् स्वरूपापहारः; सत्त्वाऽसत्त्वयोः तुल्यबलतया अन्योन्यस्वरूपापहारकत्वाऽयोगात् / नापि एकाश्रयप्रतिषेधः; स्वपररूपाभ्यां भावा- . ऽभावयोः एकत्राप्याश्रये सद्भावप्रतिपादनात् / ____ यच्चान्यदुक्तम्- 'उत्तरपदार्थ' इत्यादि; तत्सत्यम् ; नयप्रतीत्या निश्चिते एव एकान्ते नमः प्रयोगाऽभ्युपगमात् / न चैवं 'सर्वमनेकान्तात्मकम्' इत्यभ्युपगमविरोधः; प्रमाणविषयापेक्षया सर्वस्य तदात्मकत्वप्रतिज्ञानात् , नयगोचरापेक्षया तु एकान्तात्मकस्यापि अभ्युपगमात्। . " अनेकान्तोऽप्यनेकान्तः प्रमाणनयसाधनः।" [वृहत्स्वयं० श्लो० 103 ] इत्यभिधानात् / "धर्मिणोऽनेकरूपत्वं न धर्माणां कथञ्चन / " [ ] इति वचनाच्च / / 15 यदप्य भिहितम्"-'तदात्मकत्वे संशयादिदोषः' इत्यादि; तदपि मनोरथमात्रम्; वस्तुनः सदसदाद्यनेकधर्मात्मकत्वेन प्रतीतौ संशयाऽनुपपत्तेः / यद् यद्धर्मात्मकत्वेन प्रतीयते न तस्य "तदात्मकत्वे संशयः यथा स्वगतधर्मात्मकत्वेन प्रतीयमानस्य स्थाणु-पुरुषद्वयस्य,सदसदाद्यनेकधर्मात्मकत्वेन प्रतीयन्ते च सर्वे भावा इति / न चायमसिद्धो हेतुः ; तदात्मकत्वेन तत्प्रतीतेः प्राक् प्रतिपादितत्वात्। नापि दृष्टान्तः साध्यविकलः; स्थाणुत्वादिधर्मप्रतीतौ स्वप्नेऽपि स्थाण्वादौ 20 संशयाऽप्रतीतेः, तदप्रतीतावेव तत्र तदर्शनात् / चलिता च प्रतीतिः संशयः, न च सदाद्यात्म कत्वेन प्रतीतिः तथा / न खलु वस्तुनः स्वपररूपाभ्यां सदसद्रूपतया प्रतीतिः कस्यचिदनुपहत चेतसो दोलायते / अथ अनुपजायमानोऽपि संशयः अत्र बलादापाद्यते; नन्वेवं कस्यचिदपि प्रतिनियतरूपव्यवस्था नस्यात्, सर्वत्र तस्य "आपादयितुं "सुशकत्वात्। घटादेरपि हि घटादि रूपता 'किं निरंशाऽवयविरूपस्य, क्षणिकपरमाण्वात्मनः, ज्ञानप्रचयस्वभावस्य, परमात्मस्वरू२५ पस्य वा स्यात्' इत्यादि संशयसंभवात् न सिद्धयेत् / ततो घटादेः प्रतिनियतरूपव्यवस्थामिच्छता नानुपजायमानोऽपि "संशयोऽत्र बलादापाद्यः। तन्नसदसदात्मकत्वे वस्तुनि संशयो युक्तः / 1 इति प्रतीतिः सा-ब०, ज० / 2 आधेयेन सा-ब०, ज०, श्र० / 3 विशिष्यति ब०, ज०। 4 पृ. 360 पं० 3 / 5 अभावरूप-श्र०। 6 पृ. 360 पं. 4 / ७-त्याधिष्ठित एव आ०। ८-कत्वस्यापि श्र०। 9 'अनेकान्तः प्रमाणात्ते तदेकान्तोऽर्पितानयात् / इति उत्तरार्द्धम् / "अनेकान्ते तदभावादव्याप्तिः इति चेन्न; तत्रापि तदुपपत्तेः / " तत्त्वार्थराज. पृ. 25 / 10 पृ. 360 पं० 6 / 11 तदात्मकत्वेन सं-ब०, ज०,। 12 उत्पादयितुं आ० / 13 सुशक्य-ब०, ज०। 14 संशयो बलादा-ब०, ज०, भां०।