________________ 367 लघी० प्रमाणप्र० का० 7 ] द्रव्यपर्याययोर्भेदाऽभेदवादः ___ न च स्वरूपादिना सत्त्वमेव पररूपादिना असत्त्वम् , पररूपादिनाऽसत्त्वमेव च स्वरूपादिना सत्त्वमित्यभिधातव्यम् ; तदपेक्षणीयनिमित्तभेदात् , स्वद्रव्यादिकं हि निमित्तमपेक्ष्य अर्थे सत्त्वं व्यवस्थाप्यतेपरद्रव्यादिकं तु अपेक्ष्य असत्त्वम् , अतो विभिन्ननिमित्तनिबन्धनत्वात् सत्त्वाऽसत्त्वयोर्भेदः / यस्य विभिन्ननिमित्तनिबन्धनत्वं तस्य भेदः यथा एकत्वादिसंख्यायाः, विभिननिमित्तनिबन्धनत्वञ्च सत्त्वाऽसत्त्वयोरिति / न चाऽयमसिद्धो हेतुः ; उक्तप्रकारेण समर्थित- 5 त्वात् / नापि दृष्टान्तस्य साध्यसाधनवैकल्यम् ; एकत्र द्रव्ये स्वरूपमात्रापेक्ष-एकत्वसंख्यातः द्रव्यान्तरापेक्षद्वित्वादिसंख्याया विभिन्ननिमित्तनिबन्धनत्वस्य भेदस्य च सुप्रसिद्धत्वात् / सर्वथा अभेदे तु अनयोः तन्निबन्धनत्वानुपपत्तिः, यत् सर्वथाऽभिन्नम् न तत्र विभिन्ननिमित्तनिबन्धनत्वम् यथा सत्त्वे असत्त्वे वा, सर्वथाऽभेदश्च सत्त्वाऽसत्त्वयोर्भवद्भिरिष्टः इति / प्रतिनियतसदसत्प्रत्ययगोचरचारित्वाऽनुपपत्तिश्च अनयोः, तत एव, तद्वत् / अभिन्ननिमि- 10 त्तनिबन्धनत्वे च तत्प्रत्यययोः 'सर्वत्र हेतुभेदात् फलभेदः' इत्यभ्युपगमो विरुद्ध येत / प्रतिनियतवस्तुव्यवस्थाविलोपश्च सत्त्वाऽसत्त्वयोः सर्वथाऽभेदे; घंटो हि यथा स्वद्रव्यादिनी सन् नैवं परद्रव्यादिनाऽपि तत्सत्त्वाऽव्यतिरिक्तत्वात् तदसत्त्वस्य, तेन असत्त्वे वा स्वद्रव्यादिनापि असत्त्वं स्यात् तदसत्त्वाऽव्यतिरिक्तत्वात् सत्त्वस्य, अतः प्रतिनियतवस्तुस्वरूपाऽव्यवस्थितेः सिद्धः प्रतिनियतवस्तुव्यवस्थाविलोपः / वस्तुसत्त्वमेवं अन्यविविक्तताविशिष्टं तद्व्यवस्थाहेतुः; इत्यपि 15 अन्धसर्पविलप्रवेशन्यायानुसरणम् ; असत्त्वस्यैव 'विविक्तता' इति नामान्तरकरणात् / ततः स्वपररूपाभ्यां सदसदात्मकाः सर्वे भावाः प्रतिपत्तव्याः, प्रतिनियतरूपव्यवस्थाऽन्यथाऽनुपपत्तेः, प्रतिनियतकार्यकारिवान्यथाऽनुपपत्तेर्वा / ____ अथ इतरेतरोऽभावयशात् तद्वयवस्था भविष्यति इत्युच्यते ; ननु किंस्वभावोऽयम् इतरेतराभावः-स्वतन्त्रः, भावधर्मो वा ? न तावत् स्वतन्त्रः; तथाविधस्यास्य अग्रे निराकरिष्यमा- 20 गत्वात् / अथ भावधर्मः; कस्य पुनः भावस्य धर्मोऽसौ-घटस्य, भूतलस्य, उभयस्य वा ? यदि घटस्य; तत्रापि किं घटस्वरूपस्य निषेधकः, न वा ? निषेधकश्चेत् ; किं घटे एव, भूतले वा ? प्रथमपक्षे कथं घटधर्मोऽसौ धर्मिण एव असत्त्वात् ? कथं वा 'भूतले घटो नास्ति' इति प्रतीतिः घटे एव तत्प्रतीतिप्रसङ्गात् ? द्वितीयपक्षे तु अस्मन्मतसिद्धिः, घटाभावस्य घटधर्मस्यैव सतो भूतले घटस्वरूपप्रतिषेधकत्वेन अस्माभिरभ्युपगमात् / अथ अनिषेधकः; "तदा भूतलेऽपि घट- 25 1 "स्वपररूपादिचतुष्टयापेक्षायाः स्वरूपभेदात् सत्त्वाऽसत्त्वयोः एकवस्तुनि भेदोपपत्तेः " / " अष्टसह० पृ० 132 / प्रमेयक पृ० 158 पू० / 2 एकद्रव्ये ब०, ज० / ३-दे च तयोः श्र० / 4 पटो ब०, ज० / ५-ना अस्तीति नै-ब०, ज० / 6 तत्सत्त्वमेव ब०,ज० / ७-मेव विवि-आ० / . 8 "स्यात्सदसदात्मकाः पदार्थाः सर्वस्य सर्वाऽकरणात्।” अष्टश०, अष्टसह० पृ० 133 / 9 “यच्चेदं स्वदेशादिषु सत्त्वं परदेशादिष्वसत्त्वमिष्यत एव इतरेतराभावाऽभ्युपगमात् / ' प्रश० व्यो. पृ० 20 (ङ) / 10 तथा आ० /