________________ * 366 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० तदाश्रयत्वं युक्तम् ; खरविषाणादेरपि तत्प्रसङ्गात् / भिन्नस्यापि स्वभावस्य धर्मिणि समवायान्न निःस्वभावता इत्यप्यसुन्दरम् ; समवायस्य प्रागेव असत्त्वप्रतिपादनात् / ___तथा एकान्ततो धर्म-धर्मिणोरभेदेऽपि अन्यतरस्वभावप्रेसङ्गतोऽसत्त्वापत्तिः / सर्वथा अभेदे हि तयोः धर्ममात्रं धर्मिमात्रं वा स्यात् इति अन्यतरस्वभावाऽभावः / कल्पितत्वात् तद्भावस्य न 5 तदभावो दोषाय; इत्यप्यसमीक्षिताभिधानम् ; निर्बीजायाः कल्पनाया एव अनुपपत्तेः / न चास्या निर्बीजत्वमसिद्धम् ; बहिरन्तर्वा वस्तुनः एकान्तकस्वभावत्वे तत्कारणत्वाऽनुपपत्तेः / नहि एकान्तैकस्वभावमनेककल्पनाबीजं युक्तम् ; विभिन्नशक्तिशून्यस्य विभिन्नकार्यहेतुत्वाऽनुपपत्तेः, यद् विभिन्नशक्तिशून्यम् तन्न विभिन्नकार्यहेतुः यथा नित्याभिमतं वस्तु, विभिन्नशक्तिशून्यं च स्वलक्षणाभिमतं वस्तु / अतः कथमेतत् धर्मधर्मिकल्पनालक्षणकार्यद्वयहेतुः स्यात् ? विभि१० नस्वभावव्यावृत्तिवशात् विभिन्नशक्तिशून्यादपि स्वलक्षणाद् विभिन्नकार्योत्पत्तिरविरुद्धा; इत्य प्यचर्चिताऽभिधानम् ; तस्यास्ततो भिन्नायाः संभवाऽभावात् , अवस्तुरूपतया खरविषाणवत् 'विभिन्नस्वभावत्वाऽनुपपत्तेश्च / तदुपपत्तौ वा न अवस्तुत्वमस्याः स्यात् इति अपोहविचारावसरे वक्ष्यते / तद्भेदे च वस्तुन्येव भेदोऽस्तु तत्र तस्याऽविरोधात् , 'अवस्तु भिद्यते वस्तु न भिद्यते' इति किमपि महाद्भुतम् ! व्यावृत्तिभेदाभ्युपगमे च सिद्धो धर्मभेदः व्यावृत्तीनामपि धर्मत्वात् / 15 यदप्युक्तम् -'भावाऽभावात्मकम्' इत्यादि ; तदप्यसाम्प्रतम् / तदात्मकत्वस्य अर्थेषु उपल. भ्यमानत्वेन विरोधाऽसिद्धेः / विरोधो हि अनुपलम्भसाध्यः यथा वन्ध्यायां स्तनन्धयस्य, न च स्वरूपादिना वस्तुनः सत्त्वे पररूपादिना असत्त्वस्य अनुपलम्भोऽस्ति / न खलु वस्तुनः सर्वथा भाव एव स्वरूपम् ; स्वात्मना इव परात्मनाऽपि भावप्रसङ्गात् सर्वस्य सर्वात्मकत्वाऽनुषङ्गतः सत्ताद्वैतं स्यात् , तच्च प्रागेव कृतोत्तरम् / नाप्यभाव एव; पररूपेण इव स्वरूपेणाऽपि अभाव२० प्रसङ्गतः खपुष्पप्रख्यत्वानुषङ्गात् सकलशून्यतानुर्पङ्गतो निखिलव्यवहारोच्छेदः स्यात , क्वचिदपि प्रवृत्त्याद्यभावात् / प्रतिविहिता च तच्छून्यता प्राग् इत्यलं पुनः प्रसङ्गेन / १-प्रसङ्गादस-ज०।२ भिन्नस्वभावानु-ब०, ज०। 3 तद्भेदेऽपि आ० / 4 पृ० 360501! 5 "नन विरुद्धौ भेदाभेदौ कथमेकत्र स्याताम् ? न विरोधः; सह दर्शनात् / यदि हि इदं रजतं नेदं रजतमिति वत् परस्परोपमन भेदाभेदौ प्रतीयेतां न तु तयोः परस्परोपमर्दैन प्रतीतिः। इयं गौरिति बुद्धिद्वयमपर्यायेण प्रतिभासमानमेकं वस्तु द्वयात्मकत्वं व्यवस्थापयति / सामानाधिकरण्यं हि अभेदमापादयति अपर्यायत्वञ्च भेदम् अतः प्रतीतिबलादविरोधः, अपेक्षाभेदाच; तथाहि"" शास्त्रदी० 1 / 1 / 5 / प्रमेयक० पृ० 158 / 6 “सदेव सर्व को नेच्छेत् स्वरूपादिचतुष्टयात् / असदेव विपर्यासात् न चेन्न व्यवतिष्टते // 15 // " आप्तमी / “स्वपररूपाद्यपेक्षं सदसदात्मकं वस्तु न विपर्यासेन / " अष्टश०, अष्टसह. पृ. 135 / "स्वरूपपररूपाभ्यां नित्यं सदसदात्मके // 12 // " मीमांसाश्लो० अभावपरि०। 7 भावः स्वश्रा० / "स्वरूपादिव पररूपादपि सत्त्वे चेतनादेरचेतनादित्वप्रसङ्गात् तत्स्वात्मवत् , पररूपादिव स्वरूपादप्यसत्त्वे सर्वथा शून्यतापत्तेः / स्वद्रव्यादिव परद्रव्यादपि सत्त्वे द्रव्यप्रतिनियमविरोधः"" अष्टसह पृ० 131 / ८-षङ्गात् ब०, ज० /