________________ लघी० प्रमाणप्र० का०७] द्रव्यपर्याययोर्भेदाऽभेदवादः 365 ‘स पट आत्मा येषाम् ' इत्यपि विग्रहे न दोषः, अवस्थाविशेषापेक्षया तन्तूनामेकत्वस्य इष्टत्वात् / तर्हि ते तन्तव आत्मा यस्य' इति विग्रहे तन्तूनामनेकत्वे पटस्यापि अनेकत्वं स्यादिति चेत् ; ननु किमिदं तस्य अनेकत्वं नाम-किम् अनेकाऽवयवात्मकत्वम् , प्रतितन्तु तत्प्रसङ्गो वा ? प्रथमपक्षे सिध्यसाध्यता; आतानवितानीभूत-अनेकतन्त्वाद्यवयवात्मकत्वात्तस्य / द्वितीयपक्षस्तु अयुक्तः, प्रत्येकं तेषां तत्परिणामाऽसंभवात् / आतानवितानीभावलक्षणो हि तेषां 5 परिणामविशेषः पटः, स च समुदितानामेव अमीषां प्रतीयते नान्यथा, तथाभूताश्च ते 'पटस्य आत्मा' इति उच्यन्ते / द्विविधो हि वस्तुनः परिणामः-प्रत्येकावस्थायाम् समुदायावस्थायाञ्च, क्षोरादिवत् दध्यादिवच्च / एवं द्रव्यपर्यायवत् गुणगुण्यादीनामपि कथञ्चित् तादात्म्यं प्रतिपत्तव्यम् , प्रतिभासभेदस्य विरुद्धधर्माध्यासस्य च सर्वथा भेदाऽप्रसाधकत्वप्रतिपादनात् / ___ यच्चान्यदुक्तम्-'गुणगुण्यादीनाञ्च आकारनानात्वेऽपि' इत्यादि ; तदप्यचारु; कथञ्चि- 10 द्भेदाऽभेदात्मना गुणगुण्यादिवत् निखिलार्थानां ग्रहणाऽसंभवतो अन्यतोऽन्यस्य अन्यत्वोपपत्तेः / तादात्म्याकारवैलक्षण्ये हि तेषां भेदाऽभेदौ, तथावभासनमेव च उभयात्मना ग्रहणम् , तच्च अन्यत्र नास्ति इति कथं बहिरन्तर्वा नानात्ववाहॊच्छेदः स्यात् ? __यदप्युक्तम्-'एक नित्यम्' इत्यादि ; तदपि श्रद्धामात्रम् ; सामान्यस्य अनेक-अनित्य-सावयव-अव्यापिस्वरूपत्वप्रतिपादनात् / अतो विशेषपरिणामवत् सादृश्यलक्षणसामान्यपरिणामोऽपि 15 अर्थानां प्रतिव्यक्ति विभिन्न एव / तथाविधसदृशेतरधर्माधारतया च अमीषां प्रत्यक्षतः प्रतीतेः कथं सामान्यस्वभावतोररीकारे विशेषरूपताऽङ्गीकारो विरुद्धचेत ? धैर्मधर्मिणोश्च न सर्वथा भेदे अभेदे वा तद्भावो घटते सह्यविन्ध्यवत् तदन्यतरस्वरूपवच्च, किन्तु कथञ्चिद्भेदे / भेदो हि धर्म-धर्मिणौ एव, अभेदस्तु तयोः द्रव्यान्तरं नेतुमशक्यत्वलक्षणम् अशक्यविवेचनत्वम् / न खलु घटपटादीनामिव अनयोः तल्लक्षणम् अशक्यविवेचनत्वं न संभवति ; घंटादिधर्मिणो मिथ- 20 श्व भिन्नानामपि सदृशेतरपरिणामाद्यशेषधर्माणां मृदादिद्रव्येण एकेनैव अनुवेधात् / . धर्मिणो धर्माणामेकान्ततो भेदाऽभ्युपगमे च निःस्वभावतापत्तिः, स्वभावस्यापि धर्मतया ततो भेदात् , तथा च अस्यासत्त्वम् / यन्निःस्वभावम् तदसत् यथा गगनेन्दीवरम् , निःस्वभावश्च भवद्भिरभिप्रेतो धर्मी इति / एवञ्च धर्माणामप्यभावः निराश्रयाणां तेषां सद्भावाsसंभवात् , अतः सकलशून्यतापत्तिः परस्य पूत्कुर्वतोऽपि आयाता / न च निःस्वभावस्याप्यस्य 25 1 पृ० 359 पं० 26 / 2 पृ. 359 पं० 28 / 3 “एवं धर्मिणो द्रव्यस्य रसादिधर्मान्तररूपेण रूपादिभ्यो भेदः द्रव्यरूपेण चाऽभेदः / तथा अवयविनः स्वरूपेण अवयवैरभेदः अवयवान्तरेण तु अवयवान्तरैः भेद इत्यूहनीयम् / तत्र यथा दीर्घहस्वादीनां विरुद्धस्वभावानामप्यपेक्षाभेदात् एकत्राप्यविरुद्धत्वं प्रतीतिबलादङ्गीक्रियते तथा भेदाभेदयोरपि द्रष्टव्यं प्रतीत्यविशेषात् / " शास्त्रदीपि० 111 / 5 / 4 "आत्मनः सुखाद्याकाराः शश्वदात्मान्तरं नेतुमशक्यत्वादशक्यविवेचनाः / " आप्तप० पृ० 44 / 5 उभयोः ब०। 6 घटपटादि-ब०, ज० / 7 मिथः भि-ब० / 8 अनुवेदात्वं भां०, श्र०।...