________________ 364 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० क्तम् अस्तित्वादि इष्यते / ननु सत् ( सतः) ज्ञापकप्रमाणविषयस्य भावः सत्त्वम् सदुपैलम्भकप्रमाणविषयत्वं नाम धर्मान्तरं षण्णामस्तित्वमिष्यते, अतो नाऽनेन अनेकान्तः ; ईत्यप्यनुपपन्नम् ; षट्पदार्थसंख्याव्याघातप्रसङ्गात् तत्सत्त्वधर्मस्य तेभ्योऽर्थान्तरत्वात् / ननु धर्मिरूपा एव ये भावाः ते. षट्पदार्थाः प्रोक्ताः धर्मरूपास्तु तद्वयतिरिक्ता इष्टा एव, तथा च पदार्थप्रवेशकग्रन्थः-" ऎवं धर्मैचिना धर्मिणामेव निर्देशः कृतः।" [ प्रश० भा० पृ० 15 ] इति / अस्त्वेवम् , तथापि अस्तित्वादेर्धर्मस्य षट्पदार्थैः साकं कः सम्बन्धः येन तत् तेषां धर्मः स्यात्-संयोगः, समवायो वा ? न तावत् संयोगः ; अस्य गुणत्वेन द्रव्याश्रयत्वात् / नापि समवायः; तस्य एकत्वेन इष्टेः / समवायेन चास्य समवायसम्बन्धे तस्यानेकत्वप्रसक्तेः तदिष्टिव्याघातः / सम्बन्धमन्तरेण च धर्मधर्मिभावाऽभ्युपगमे अतिप्रसङ्गः / किञ्च, अस्तित्वादेः अपराऽस्तित्वाऽभावात् कथं तत्र व्यतिरेकनिबन्धना विभक्तिर्भवेत् ? अथ तत्रापि अपरमस्तित्वमङ्गीक्रियते; तदा अनवस्था स्यात् / अपरापरधर्मसमावेशेन च सत्त्वादेर्धर्मिरूपत्वाऽनुषङ्गात् "पडेव धर्मिणः"[ ] इत्यस्य व्याघातः / ये धर्मिरूपाः त एव षट्वेनावधारिताः ; इत्यप्यसारम्; गुण-कर्म-सामान्य-विशेष-समवायानामनिर्दे शाऽनुषङ्गात् / नहि एषां धर्मिरूपत्वमेव; द्रव्याश्रितत्वेन धर्मरूपत्वस्यापि संभवात् / तथा 'खस्य 15 भावः खत्वम्' इत्यादौ भेदाऽभावेऽपि तद्धितोत्पत्तेरुपलम्भान्न साऽपि भेदपक्षमेवावलम्बते। . यदप्यभिहितम् -'तत्पुरुष' इत्यादि ; तदप्यभिधानमात्रम् ; यतः ‘सेनागजः, काननवि॑क्षाः' इत्यादौ भेदाऽभावेऽपि तत्पुरुषो दृश्यते , ' मत्तगजा वीरपुरुषा सेना' इत्यादौ बहुव्रीहिश्च / * यदप्युक्तम्-'तादात्म्यम् इत्यत्र किं स पटः आत्मा' इत्यादि ; तत्र इत्थं विग्रहो द्रष्टव्यः-- तस्य वस्तुनः आत्मानौ द्रव्यपर्यायौ सत्त्वाऽसत्त्वधर्मों वा तदात्मानौ, तच्छब्देन वस्तुनः परा२० मर्शात् , तयोर्भावः तादात्म्यम्-भेदाऽभेदाद्यात्मकत्वम् / वस्तुनो हि भेदः पर्यायरूपतैव , अभे दस्तु द्रव्यरूपत्वमेव, भेदाऽभेदौ तु द्रव्यपर्यायस्वभावौ एव / न खलु द्रव्यमानं पर्यायमानं वा वस्तु; उभयात्मनः समुदायस्य वस्तुत्वात् , द्रव्यपर्याययोस्तु न वस्तुत्वम् नापि अवस्तुता, किन्तु वस्त्वेकदेशता, यथा समुद्रांशो न समुद्रः नाप्यसमुद्रः किन्तु समुद्रैकदेशः / तदुक्तम् " नाऽयं वस्तु न चाऽवस्तु वस्त्वंशः 'कथ्यते बुधैः / 25 नाऽसमुद्रः समद्रो वा समुद्रांशो यथैव हि // " [तत्त्वार्थश्लो० पृ० 118 ] इति। 1 सज्ज्ञापक-ब०, ज० / षड्ज्ञापक-श्र० / " ननु सतः ज्ञापकप्रमाणविषयस्य भावः सत्त्वम् / " प्रमेयक. पृ० 157 उ० / २-पलम्भप्र-ब०, ज०। 3 इत्यनु-ब०, ज०। 4 उद्धृतञ्चैतत्तत्त्वसं० पं० पृ० 192 / प्रमेयक० पृ० 157 उ० / सन्मति० टी० पृ० 661 / स्या. रत्ना० पृ. 878 / 5 तदिष्टव्या-ज०। ६पृ० 359 पं० 16 / ७-वृक्षः श्र०। ८पृ. 359 5 19 / 9 "तस्य वस्तुनः आत्मानौ तदात्मानौ तयोः भावः तादात्म्यं भेदाभेदस्वभावत्वम् / " आप्तपरीक्षा पृ० 22 / प्रमेयक० पृ० 158 पू० / 10 " कथ्यते यतः "यथोच्यते। " इति पाठभेदः, तत्त्वार्थश्लो।