________________ लघी० प्रमाणप्र० का० 7 ] द्रव्यपर्याययोर्भदाऽभेदवादः 363 ग्रन्थयः, हस्तस्य सङ्कोचप्रसारणे, सर्पस्य कुण्डलीभावः' इत्यत्र / भेदो हि पदार्थानां प्रतीतितोऽभ्युपगम्यते, सा चेद् अवस्थातद्वतोः कथञ्चिद्भेदेऽपि अस्ति तदा असावपि किमिति नाऽभ्युपगम्यते ? न चेयं राजाज्ञा यद् ‘एकस्य नानावस्थात्मकत्वं नास्ति' इति / यदि एकोऽपि क्रमभाविनीनामवस्थानाम् उक्तविधिना तादात्म्येन अनुस्यूतो वर्तेत तदा कथं तत्र कथञ्चिदेकत्वविरोधः ? प्रमाणं हि यथाविधं वस्तुस्वरूपं प्रकाशयति तथाविधमेव तद् अभ्युपगन्त- 5 व्यम् , यत्र अत्यन्तभेदं तत् प्रकाशयति तत्र अत्यन्तभेदः यथा घट-पटादौ, यत्र तु कथञ्चिद्भदं तत्र कथञ्चिद्भेदः यथा रज्जुग्रन्थ्यादौ / तदेवम् अनेकदोषदुष्टत्वात् भिन्नप्रतिभासत्वादिसाधनं न द्रव्यादीनामत्यन्तभेदप्रसाधकं घटते / दृष्टान्तोऽपि साध्यविकलः; घटपटादीनामपि अत्यन्तभेदाऽसंभवात् , तदसंभवश्च सत्त्वादिना अन्योन्यं तेषामेभेदात् सुप्रसिद्धः / साधनविकलश्चायम् ; विस्फारिताक्षस्य एकस्मिन्नपि 10 अध्यक्ष घटादीनां प्रतिभाससंभवात् / न च प्रतिविषयं विज्ञानभेदोऽभ्युपगन्तव्यः; अवयविसिद्धथभावप्रसङ्गात् , ऊर्ध्व-अधो-मध्यभागेषु तद्भेदस्य अत्रापि कल्पयितुं सुशकत्वात् , प्रतीतिबाधा अन्यत्रापि न काकै क्षिता। यदि च दृष्टान्ते अत्यन्तभेदेन अस्य व्याप्त्युपलम्भात् द्रव्य-पर्यायादीनामपि अत्यन्तभेदे साध्ये गमकत्वमिष्यते; तदा 'अश्रावणः शब्दः सत्त्वात् घटादिवत्' इत्यादेरपि गमकत्वमिष्यताम् , सपने घटादौ सत्त्वादेः अश्रावणत्वादिना प्रतिब- 15 न्धप्रतिपत्तेः अत्राप्यविशेषात् / पक्षस्य प्रत्यक्षबाधनाद् अस्यागमकत्वमन्यत्राप्यविशिष्टम् / यदप्युक्तम् -'तन्तवः पटः इति संज्ञाभेदः' इत्यादि; तदप्युक्तिमात्रम् ; अवस्थाभेदनिबन्धनत्वात्तस्य, अतः तमेव असौ प्रसाधयति न पुनः तदत्यन्तभेदम् / अनैकान्तिकश्चायम्; 'गगनम्' 'आकाशम्' इत्यादौ अत्यन्तभेदाऽभावेऽपि संज्ञाभेदस्य, 'जलम्' 'आपः' इत्यादी तु संज्ञाभेदस्य वचनभेदस्य च संभवात् / अनन्वयवस्तुविषयो हि संज्ञादिभेदो वस्तुनोऽत्य- 20 न्तभेदप्रसाधकः नान्यः ; अतिप्रसङ्गात् / प्रयोगः-यः अपरित्यक्तान्वये वस्तुनि संज्ञादिभेदः नाऽसौ अत्यन्तभेदप्रसाधकः यथा 'जलम् ' 'आपः' इत्यादिसंज्ञादिभेदः, तथाभूते वस्तुनि संज्ञादिभेदश्चायम् 'तन्तवः' 'पटः' इत्यादिरिति / नन्वेवं गगनाकाशादिवत् तन्तुपटादावपि पर्यायशब्दताप्रसक्तिः इति चेत् ; एवमेतत् , तच्छब्दानामवस्थाविशेषवाचित्वात् / योषिदादिकरव्यापारोत्पन्ना हि तन्तवः कुविन्दादिव्यापारात् पूर्व शीतापनोदाद्यर्थाऽसमर्थाः तन्तुव्यप- 25 देशं लभन्ते, तद्व्यापारात्तु उत्तरकालं विशिष्टावस्थाप्राप्ताः तत्समर्थाः पटव्यपदेशम् / ___यच्चान्यदुक्तम्-'पटस्य भावः' इत्यादि; तदप्ययुक्तम् ; 'षण्णां पदार्थानामस्तित्वम्' 'षण्णां पदार्थानां वर्गः' इत्यादौ भेदाऽभावेऽपि षष्ठ्याद्युत्पत्तिप्रतीतेः, न खलु भवता षट्पदार्थातिरि १-मभावात् आ०, ब०, ज०, भां० / 2 अक्षे आ० / 3 सुशक्यत्वात् ब०, ज०। 4 पृ० 359 पं० 14 / 5 संज्ञाभेद- आ० / 6 पृ० 359 पं० 15 /