________________ 362 __ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० अभ्युपगन्तव्यम् यथा नीलं नीलतया, अबाधाध्यक्षेऽवभासेते च कथञ्चित्तादात्म्येन द्रव्य- . पर्यायाविति / ___ न च तथा तदवभासिनोऽध्यक्षस्य अबाधत्वमसिद्धम् ; तद्बाधकस्य कस्यचिदपि प्रमाणस्यासंभवात् / नहि प्रत्यक्षं तद्बाधकम; अत्यन्ततद्भेदस्य अत्राप्रतिभासमानत्वात् / अनुमानमपि 5 एतदेव, अन्यद्वा तद्बाधकं स्यात् ? न तावद् एतदेव ; अस्य अध्यक्षबाधितविषयतया उत्थान स्यैवासंभवात् / भ्रान्तत्वान्न तद्विषयस्यानेन बाधा ; इति चेत् ; कुतस्तद्धान्तत्वम् ? अनेन बाधनाच्चेत् चक्रकप्रसङ्गः; तथाहि-अबाधितविषयतया अस्योत्थानेऽध्यक्षस्यानेन बाधा, तस्याश्च सत्यां तस्य भ्रान्तत्वम् , तस्मिन् सति अबाधितविषयतया अस्योत्थानमिति / कथञ्चैवम् 'अनु ष्णोऽग्निः सत्त्वात् जलवत्' इत्यस्यापि अबाधितविषयतया प्रवृत्तिर्न स्यात् भिन्नप्रतिभासत्वस्येव 10 अत्रापि प्रतिबन्धस्य सपक्षे प्रत्यक्षतः प्रतीतेरविशेषात् ? पक्षस्य प्रत्यक्षबाधनाद् अस्यागमकत्वमन्यत्रापि अविशिष्टम् / तन्नानेनानुमानेन अस्य बाधनम् / अनुमानान्तरेण तद्बाधने अस्य वैयर्थ्यम् , साध्यस्यापि अत एव प्रसिद्धः / न च तद्बा- . . धकं तदन्तरमस्ति; तत्खलु भिन्नार्थक्रियाकारित्वात् , भिन्नकारणप्रभवत्वात् , भिन्नकालत्वात् , विरुद्धधर्माध्यासाद्वा लिङ्गादाविर्भूतं तद्बाधकं स्यात् ? तत्र आद्यपक्षोऽयुक्तः; नर्तक्यादिनाऽ१५ नेकान्तात् , एकाऽपि हि नर्तकी करण-अङ्गहार-भ्रूभङ्ग-अक्षिविक्षेपादिलक्षणां प्रेक्षकजनानां हर्ष विषादादिलक्षणां वा अनेकामन्योन्यविलक्षणामर्थक्रियां करोति इति / भिन्नकारणप्रभवत्वमपि अङ्करादिनाऽनैकान्तिकम् , तस्य एकस्यापि क्षित्याद्यनेककारणकलापादुत्पत्तिप्रतीतेः / अथ भिन्नोपादानकारणप्रभवत्वं भेदकम् न भिन्नकारणप्रभवत्वमात्रम्, तच्च इह नास्ति तेन अयमदोषः ; कथमेवं गुणगुण्यादीनामपि भेदः स्यात् भिन्नोपादानकारणप्रभवत्वस्य तत्राप्यसंभवात् ? __भिन्नकालत्वादपि अप्राप्तपटावस्थेभ्यः प्राक्तनाऽवस्थाविशिष्टेभ्यः तन्तुभ्यः पटस्य भेदः साध्येत, प्राप्तपटावस्थेभ्यो वा ? प्रथमपक्षे सिद्धसाध्यता; पूर्वोत्तरावस्थयोः सकलभावानां भेदाऽभ्युपगमात् , न खलु यैव अर्थस्य पूर्वावस्था सैव उत्तरावस्था भवितुमर्हति पूर्वाकारपरित्यागेनैव उत्तराकारोत्पादप्रतीतेः / द्वितीयपक्षे तु असिद्धो हेतुः ; पटावस्थतन्तूनां पटाद् भिन्नकालत्वस्यासंभवात् / विरुद्धधर्माध्यासोऽपि धूपदहनादिना अनैकान्तिकः, न खलु हस्तलग्नेतरप्रदेशे शीतोष्णस्पर्शलक्षणविरुद्धधर्माध्यासेऽपि धूपदहनादेर्भेदः प्रतीयते / न च हस्तलग्नेतरप्रदेशयोरेव शीतोष्णस्पर्शाधारता न धूपदहनाद्यवयविनः इत्यभिधातव्यम् ; प्रत्यक्षविरोधात् / अतोऽत्यन्तभेदस्यैव तादात्म्यविरोधितया विरुद्धधर्माध्यासान्निवृत्तिः न तु कथञ्चिद्भदस्य, यथा 'रजोः 1 अत्यन्तं त-ब०, ज० / “न खलु प्रत्यक्षं तद्बाधकं अत्यन्ततद्भेदस्यात्राऽप्रतिभासमानत्वात् / " स्या. रत्ना * पृ० 739 / २-पि नर्तकी आ० / ३-भ्यः पटस्य आ० /