________________ 361 लघी० प्रमाणप्र० का०७] द्रव्यपर्याययोर्भेदाऽभेदवादः व्याः / तथा अनेकान्ते मुक्तोऽपि अमुक्त एव स्यात् , अमुक्तोऽपि च मुक्त एंव वा, अन्यथा अनेकान्तक्षतिः स्यादिति / अत्र प्रतिविधीयते / यत्तावदुक्तम् -'द्रव्यपर्यायौ अत्यन्तं भिन्नौ भिन्नप्रतिभासत्वात्' . इत्यादि; तत्र भिन्नप्रतिभासत्वं भिन्नंप्रमाणग्राह्यत्वमभिप्रेतम् , तत्प्रतिविधानपुरस्सरं द्रव्यपर्या - भिन्नाकाराऽवभासित्वं वा ? प्रथमपक्षे आत्मादिना अनेकान्तः, 5 ययोः कथञ्चिद् भेदाऽभेदात्मकत्व - प्रत्यक्षादिभिन्नप्रमाणग्राह्येऽपि अस्मिन् भेदाऽसंभवात् / द्वितीदोषपरिहारश्च यपक्षेऽपि कथञ्चित् तयोभिन्नाकारावभासित्वं विवक्षितम् ,सर्वथा ___ वा ? यदि कथञ्चित् ; तदा कथञ्चिदेव अतः तयोर्भेदः सिद्धयेत् तेनैव अस्य अविनाभावसंभवात् , न पुनः सर्वथा तद्विपर्ययात् , तथा च हेतोविरुद्धत्वम् साध्यविपर्ययसाधनात् / सिद्धसाधनञ्च, अस्माकं कथञ्चिद्भदस्य इष्टत्वात् / सर्वथा तद्भेदसाधने तु 10 कालात्ययापदिष्टत्वम् ; प्रत्यक्षबाधितकर्मनिर्देशानन्तरं प्रयुक्तत्वात् 'अनुष्णोऽग्निः द्रव्यत्वात्' इत्यादिवत् / 'यद् यद्रूपतया प्रमाणतो न प्रतीयते न तत् तद्रूपतया अभ्युपगन्तव्यम् यथा घटः पटरूपतया, प्रमाणतो न प्रतीयन्ते च अत्यन्तभेदरूपतया द्रव्यपर्यायादयः' इत्यनुमानबाधितपक्षनिर्देशानन्तरं प्रयुक्तत्वाद्वा।। दूरपादपादिना अनैकान्तिकत्वञ्च ; नहि दूर-आसन्नदेशवर्तिप्रतिपतृणामस्पष्टेतरप्रत्यय- 15 ग्राह्यतया भिन्नप्रतिभासत्वेऽपि तस्य भेदः संभवति / ननु च अत्र तत्प्रत्ययभेदात् विषयभेदोऽस्त्येव ; तथाहि-प्रथमं दूरदेशवर्त्तिनो विज्ञानम् अत्र ऊर्ध्वतासामान्यविषयम् , उत्तरकालं तु तद्देशोपसर्पणे शाखादिविशेषविषयमिति ; तदप्यविचारितरमणीयम् ; एवं विषयभेदाऽभ्युपगमे 'यमहमद्राक्षं दूरस्थितः पादपम् एतर्हि तमेव पश्यामि' इति एकत्वाध्यवसायाऽभावप्रसङ्गात् , स्पष्टेतरप्रतिभासानां सामान्य-विशेषविषयत्वेन घट-पटादिप्रतिभासवद् भिन्नविषयत्वात्। 20 अथ पादपापेक्षया तेषामेकेविषयत्वमिष्यते सामान्यविशेषापेक्षया तु विषयभेदः ; कथमेवम् एकान्ताभ्युपगमो न विशीर्येत, द्रव्यपर्यायादावपि तद्वत् कथञ्चिद्भेदाऽभेदप्रसिद्धः ? अथ सर्वथा तयोभिन्नाकारावभासित्वं विवक्षितम् ; तदसिद्धम् ; कथञ्चित् तादात्म्यापन्नयोरेव द्रव्यपर्याययोः अबाधाऽध्यक्षेऽवभासमानत्वात् / यद् यथा अबाधाध्यक्षेऽवभासते तत् तथैव 1 "तथाहि नित्यानित्ययोः विधिप्रतिषेधरूपत्वात् अभिन्ने धर्मिणि अभावः एवं सदसत्त्वादेरपि। तथा मुक्कावप्यनेकान्तो त व्यावर्त्तते इति मुक्तो न मुक्तश्चेति स्यात् / एवं च सति स एव मुक्तः संसारी चेति प्रसक्तेः / एवमनेकान्तेप्यनेकान्ताभ्युपगमे दूषणम् / ..." प्रश० व्यो० पृ० 20 (च)।२ एवान्यब०, ज० / 3 पृ० 359 पं० 5 / 4 इति तत्र ब०, ज० / 5 "किं भिन्नप्रमाणग्राह्यत्वात् भिन्नाकारावभासित्वाद्वा ?" स्या. रत्ना० पृ. 738 / ६-श्चित्तद्भद-श्र० / 7 विज्ञानमात्रात् ऊ-ब०, ज० / ८-स्थितं पा-ब०, ज०, भा० / ९-कत्वमि- आ० / -कविषयत्वं विशिष्यते ब०, ज०। 56