________________ 360 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० विशेषरूपता अस्य अङ्गीक्रियते; तदा सामान्यस्वभावता तत्र न स्यात् तत एव / भावाऽभावात्मकत्वञ्च अर्थानां छायातपवद् विरोधाद् अतीव दुर्घटम् / किञ्च, भावोपमर्दनात्मकत्वमभावस्य स्वरूपम् , तेन च यदि भावरूपता प्रासीकृता तदा अभावरूपतैव तत्र स्यात् इति भाव रूपताया नामाऽपि न श्रूयेत / उत्तरपदार्थे च निश्चिते सर्वत्र नत्रः प्रयोगः अब्राह्मणादिवत् , 5 एकान्तश्च यदि कचित् निश्चितः कथं सर्वमनेकान्तात्मकं स्यात् ? तदात्मकत्वे च अर्थानां संशयादिदोषोपनिपातः; तथाहि-'केन स्वरूपेण तन्तु-पटादीनां भेदः, केन च अभेदः' इति संशयः / तथा 'यत्र अभेदः तत्र भेदस्य विरोधः, यत्र च भेदः तत्र अभेदस्य शीतोष्णस्पर्शवत्' इति विरोधः / तथा 'अभेदस्य एकत्वस्वभावस्य अन्यदधिकर णम् भेदस्यानेकत्वस्वभावस्य अन्यत्' इति वैयधिकरण्यम् / तथा 'एकान्तेन एकात्मकत्वे यो 10 दोषः अनेकस्वभावत्वाऽभावलक्षणः, अनेकान्तात्मकत्वे च एकस्वभावत्वाऽभावलक्षणः सोऽ त्राप्यनुषज्यते' इत्युभयदोषः / तथा 'येन स्वभावेन अर्थस्य एकस्वभावता तेन अनेकस्वभावत्वस्यापि प्रसङ्गः येन च अनेकस्वभावता तेन एकस्वभावत्वस्यापि' इति सङ्करप्रसङ्गः / “सर्वेषां युगपत्प्राप्तिः सङ्करः।" [ ] इत्यभिधानात् / तथा 'येन स्वभावेन अनेकत्वं तेन एकत्वं प्राप्नोति येन च एकत्वं तेन अनेकत्वम् ' इति व्यतिकरः / “परस्पर१५ विषयगमनं व्यतिकरः / " [ . ] इति वचनात् / तथा 'येन रूपेण भेदः तेन कथ श्चिद्भेदः येन च अभेदः तेनाऽपि कथञ्चिदभेदः' इत्यनवस्था / अतः अप्रतिपत्तितोऽभावः तत्त्वस्य अनुषज्येत अनेकान्तवादिनाम् / एवं सत्त्वाद्यभ्युपगमेऽपि एते दोषी द्रष्ट 1 "नैकस्मिन्नसंभवात् / " "न ह्येकस्मिन् धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः संभवति शीतोष्णवत् / य एते सप्त पदार्था निर्धारिता एतावन्त एवंरूपाश्चेति ते तथैव वा स्युः नैव वा तथा स्युः, इतरथा हि तथा वा स्युः इतरथा वा इत्यनिधारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् "अवक्तव्याश्च उच्येरन् , उच्यन्ते च अवक्तव्याश्चेति विप्रतिषिद्धम् "उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्ते इति च / तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा "एवं जीवादिषु पदार्थेषु एकस्मिन् धर्मिणि सत्त्वासत्त्वयोः विरुद्धयोधर्मयोरसंभवात् , सत्त्वे चैकस्मिन् धर्मे असत्त्वस्य धर्मान्तरस्यासंभवात् असत्त्वे चैव सत्त्वस्याऽसंभवादसंगतमिदमाहतं मतम् / " ब्रह्मसू० शां. भां० 2 / 2 / 33 / “अथ पुनः द्रव्यपर्याययोः सम्मूच्छितत्वात् नरसिंहवदेकं शबलरूपत्वात् द्विरूपमुच्यते; तदयुक्तम् ; नरसिंहस्य शबलरूपत्वाऽ सिद्धेः.."आह च-द्रव्यपर्यायरूपत्वात् द्वैरूप्यं वस्तुनः किल / तयोरेकात्मकत्वेऽपि भेदः संज्ञादिभेदतः ॥१॥....."धर्मित्वं तस्य चैवं स्यात् तत्तन्त्रत्वात्तदन्ययोः / न चैवं गम्यते तेन वादोऽयं जाल्मकल्पितः // 44 // " हेतुबि० टी० पृ० 151-57 / तत्त्वोपप्लव पृ. 95-96 / "परस्परस्वभावत्वे स्यात् सामान्यविशेषयोः / साङ्कर्यं तत्त्वतो नेदं द्वैरूप्यमुपपद्यते // 1722 // परस्परास्वभावत्वेप्यनयोरनुषज्यते / नानात्वमेवं भावेऽपि द्वैरूप्यं नोपपद्यते // 1723 // तद्भावश्चाप्यतद्भावः परस्परविरोधतः। एकवस्तुनि नैवायं कथञ्चिदवकल्प्यते // 1729 // विधानप्रतिषेधौ हि परस्परविरोधिनौ। शक्यावेकत्र नो कर्त केनचिस्वस्थचेतसा // 1730 // " तत्त्वसं० /