________________ लघी० प्रमाणप्र० का०७] द्रव्यपर्याययोदाऽभेदवादः 359 अन्यस्य असंभवान्न किञ्चित् प्रमेयं स्यादित्यत्राह-'द्रव्य' इत्यादि / द्रव्यपर्यायौ उक्तलक्षणौ आत्मा स्वभावः यस्य अर्थस्य तस्य बुद्धौ प्रत्यक्षादिप्रतीतौ प्रतिभासनात् स एव अस्याः प्रमेयः सिद्धः। ननु द्रव्यपर्याययोः भिन्नप्रतिभासत्वादिना अन्योन्यमत्यन्तं भिन्नत्वात् कथं तदात्माप्यर्थः .. . र प्रमेयः स्यात् ? तथाहि-द्रव्यपर्यायौ अत्यन्तं भिन्न भिन्नप्रतिभा- 5 'द्रव्यपर्यायौ अत्यन्तं भिन्नौ भिनप्रतिभासत्वात्' इत्यादिना सत्वात् घटपटादिवत् / घटपटादौ हि भिन्नप्रतिभासत्वमत्यन्त भेटे सर्वथा भेदम्पवर्णयतो सत्येव उपलब्धम् , तद् द्रव्यपर्याययोरुपलभ्यमानं कथन्नात्यन्तभेदं योगस्य पर्वपक्षः- प्रसाधयेत् ? अन्यत्राप्यस्य तदप्रसाधकत्वप्रसङ्गात् / न चानयो भिन्नप्रतिभासत्वमसिद्धम् ; तन्त्वादिद्रव्यप्रतिभासस्य पंटादिपर्यायप्रतिभासवैलक्षण्येन अखिलप्राणिनां सुप्रसिद्धत्वात् / तथा विरुद्धधर्माध्यासतोऽपि अनयोः 10 जलाऽनलवद् भेदः / नचानयोः तदध्यासोऽसिद्धः; पटो हि पटत्वजातिसम्बन्धी विलक्षणार्थक्रियासम्पादकः अतिशयेन महत्त्वयुक्तोऽनुभूयते, तन्तवस्तु तन्तुत्वजातिसम्बन्धिनोऽल्पपरिमाणादिधर्मोपेताश्च, इति कथन्न भिद्यन्ते ? तादात्म्यञ्च एकत्वमुच्यते, तस्मिंश्च सति प्रतिभासभेदो विरुद्धधर्माध्यासश्च न प्राप्नोति विभिन्नविषयत्वात्तयोः / तथा तन्तुपटादीनां तादात्म्ये 'पटः तन्तवः' इति संज्ञाभेदः, वचनभेदः, 'पटस्य भावः पटत्वम्' इति षष्ठी, तद्धितोत्पत्तिश्च न 15 प्राप्नोति / तथा तत्तादात्म्ये तत्पुरुष-बहुव्रीहि-द्वन्दसमासा अपि न प्राप्नुवन्ति, सतिं हि भेदे तत्पुरुषो दृष्टः यथा राज्ञः पुरुषः एवं 'तन्तूनां पटः' इति, बहुव्रीहिश्च यथा चित्रगुः एवं 'तन्तुकारणकः पटः' इति, द्वन्दश्च यथा प्लक्ष-न्यग्रोधौ एवं 'तन्तुपटौं' इति / ___ किञ्च 'तादात्म्यम्' इत्यत्र किं ‘स पटः आत्मा येषां तन्तूनाम् तेषां भावः तादात्म्यम्' इति विग्रहः, ते वा तन्तवः आत्मा यस्य पटस्य, ‘स च ते च आत्मा यस्य' इति वा ? तत्र 20 आद्यविकल्पे पटस्य एकत्वात् तन्तूनामपि एकत्वप्रसङ्गः, अन्यथा तत्तादात्म्याऽनुपपत्तिः / द्वितीयविकल्पे तु तन्तूनामनेकत्वात् पटस्यापि अनेकत्वाऽनुषङ्गः, अन्यथा तत्तादात्म्यं न स्यात्। तृतीयविकल्पस्तु अविचारितरमणीयः ; तद्व्यतिरिक्तस्य वस्तुनोऽसंभवात् , नहि तन्तु-पटव्यतिरिक्तं किञ्चिद् वस्त्वन्तरमस्ति यस्य तन्तुपटात्मता उच्यते / तन्न द्रव्यपर्याययोस्तादात्म्यं घटते। एतेन गुणगुणिनोः क्रियातद्वतोः सामान्यविशेषयोः भावाऽभावयोश्च तादात्म्यं प्रत्या- 25 ख्यातम् ; भिन्नप्रतिभासत्वस्य विरुद्धधर्माध्यासादेश्च तद्बाधकस्य अत्राप्यविशेषात् / गुणगुण्यादीनाञ्च आकारनानात्वेऽपि अन्योन्यमनानात्वे बहिरन्तर्वा नानात्ववात्तॊच्छेदः स्यात् / किञ्च, एकं नित्यं निरवयवं व्यापि च सामान्यस्वरूपम् तद्विपरीतस्वभावाश्च विशेषाः, तत्र. यदि वस्तुनः सामान्यस्वभावता उररीक्रियते कथं तत्र विशेषरूपता स्यात् विरोधात् ? अथ १-न्तभि-भां० / 2 घटादि-भां० / 3 सति भेदे तत्पुरुषो यथा भा० /