________________ 358 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे . [2 विषयपरि० पात् / किञ्च, अन्वयव्यतिरेकसमधिगम्यः कार्यकारणभावः, यच्च यस्माद् अन्वयव्यतिरेका; भ्यामुपजायमानं दृष्टं तदर्थिभिः तद् उपादीयते न सर्वम् , तथा च प्राक् कार्यसद्भावाङ्गीकारोव्यर्थः / तदङ्गीकारे मूलत एव उपादानग्रहणाऽभावप्रसङ्गात् , नहि विद्यमानवस्तुसिद्धयर्थ कश्चिदुपादानं गृह्णाति, प्रधान-पुरुषयोरपि सिद्धयर्थमुपादानग्रहणानुषङ्गात् / 5 सर्वसंभवाऽभावोपि एतेन चिन्तितः; सर्वसंभवाऽभावो हि नियतस्य नियतात् जन्म उच्यते, तच्च सत्कार्यवादे दुर्घटम् / नैयत्यञ्च अन्वयव्यतिरेकाभ्यामेव अवगम्यते, यद्धि यस्मादुपजायमानं प्रमाणतः परिच्छिन्नं तत् कथमन्यतोऽपि स्यात् ? 'शक्तस्य शक्यकरणात्, कारणभावाच्च' इत्यपि एतेन कृतोत्तरम् / किमर्थञ्च शिष्यान् प्रति भवतः शास्त्रप्रणयनं हेतूपन्यासश्च ? संशयोच्छित्ति-निश्चयो१० सत्त्यर्थमिति चेत्, तो यदि संशय-निश्चयौ शिष्यबुद्धिस्थौ स्वरूपेण आसाते कथं तदुच्छि त्यादिकम् ? अथ संशयस्य तिरोभावमात्रं तेन क्रियते न अत्यन्तमुच्छेदः “नाऽभावो विद्यते सतः / " [ भगवद्गी० 2 / 16 ] इत्यभ्युपगमात् , निश्चयस्यापि अभिव्यक्तिमात्रम् ;. इत्यपि मनोरथमात्रम् ; पुनः संशयाऽऽविर्भावप्रसङ्गात् , तथा च सम्प्रज्ञातयोगाय दत्तो जला जलिः, अत्यन्तसंशयोच्छेदस्य कस्यचिदपि असंभवात् / अभिव्यक्तिश्च 'सती, असती वा न 15 संभवति' इत्युक्तम् / अथ शास्त्र-साधनप्रयोगसाफल्यार्थम् असत उत्पत्तिः सतो विनाशश्च अङ्गीक्रियते; तर्हि तेनैव ‘असदकरणात्' इत्यादेव्यभिचार इति / तदेवं प्रधानसद्भावस्य तत्र महदादिसद्भावस्य च कुतश्चिद्धेतोरप्रसिद्धितः प्रकृतेः तत्त्वसृष्टिप्रक्रिया भूतसृष्टिप्रक्रियावत् खपुष्पसौरभव्यावर्णनप्रख्या इत्युपेक्षते / ततः स्थितमेतत्-'भेदाभेदैकान्तयोरनुपलब्धेः अर्थस्य सिद्धिः अनेकान्तात् ' इति / कुतः एतत् ? इत्यत्राह-'नाऽन्तर्बहिर्वा' इत्यादि / स्वलक्षणं सौगतकल्पितम् सामान्यलक्षणं ब्रह्माद्यद्वैतवादि-सांख्यपरिकल्पितम् प्रमेयम् , 'न' इति सम्बन्धः / क ? अन्तर्बहिर्वा / तर्हि यौगकल्पितं तत् प्रमेयं स्यादित्यत्राह-परस्पराऽनात्मकम् / अन्योन्यमत्यन्तभिन्नम् स्वलक्षणं सामान्यलक्षणं वा 'न प्रमेयम्' इति सम्बन्धः / कथं न प्रमेयम् ? इत्याह'यथा' इत्यादि / यथा येन प्रकारेण मन्यते परैः इति / तर्हि भेदाऽभेदैकान्तव्यतिरेकेण १-णप्रसङ्गात् प० / 2 “न सन्देहविपर्यासौ निवत्यौ सर्वदा स्थितेः। नापि निश्चयजन्माऽस्ति तत एव वृथाऽखिलम् // 24 // " तत्त्वसं० / प्रमेयक. पृ. 82 उ०। स्या. रत्ना० पृ. 979 / 3" वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः / " योगसू० 1 / 17 / 4 कचिदपि ब०, ज० / ५-पेक्ष्यते आ० / "चिदर्थशून्या च जडा च बुद्धिः शब्दादितन्मात्रजमम्बरादि / नबन्धमोक्षौ पुरुषस्य चेति कियजडैनै प्रथितं विरोधि // 13 // " स्याद्वादमं० /