________________ 357 लघी० प्रमाणप्र० का०७] सांख्यीयतत्त्वप्रक्रियावादः कादिः, यत्र तमः अङ्गि सत्त्वरजसी अङ्गे तत्र तामसः अन्धकारादिः इति ; तदसत्यम् ; स्रक्चन्दनादेः सुखाद्यात्मकत्वस्य प्राक् प्रतिषेधात् / अङ्गाङ्गिता च सत्त्वादेः पूर्वरूपवैलक्षण्ये, अवैलक्षण्ये वा स्यात् ? अवैलक्षण्ये अङ्गिता वा अङ्गतैव वा स्यात् ? वैलक्षण्ये तु धर्मिणः पूर्वधर्मत्यागेन धर्मान्तरस्वीकार एव स्वीकृतः स्यात् सत्त्वादेः सूक्ष्मरूपत्यागेन स्थूलरूपतोपादानात् / पूर्वधर्मस्य न त्यागे नाशः तिरोभावः , नाशाभ्युपगमे स्वमतक्षतिः / तिरोभावश्च 5 अतिरोभावविनाशमन्तरेण नोपपद्यते, तदभ्युपगमे च पूर्वधर्मविनाश एव अभ्युपगम्यताम् किमनेन अन्तर्गडुना ? तथा च परमतप्रवेशः। धर्मान्तरस्वीकारोऽपि तदुत्पादः , अभिव्यक्तिर्वा ? न तावत् तदुत्पादः ; सत्कार्यवादक्षतिप्रसङ्गात् / अभिव्यक्तिरपि ज्ञानधर्मः , अर्थधर्मो वा स्यात् ? यदि ज्ञानधर्मः ; अर्थस्य किमायातं येन सोऽप्यभिव्यक्तः स्यात् ? यज्ज्ञानधर्मश्चासौ तज्ज्ञानमपि तत्कालोत्पन्नम् , पूर्व- 10 कालस्थितं वा ? पूर्वकालस्थितत्वे पूर्वमपि उपलम्भः स्यात् / तत्कालोत्पत्तौ च सत्कार्यवादक्षतिरेव / अर्थधर्मत्वेऽपि अर्थस्य सदा सत्त्वेन अस्याः सदा सत्त्वाऽनुषङ्गात् सदैव अभिव्य- .. क्तोऽर्थः स्यात्, तदाऽसत्त्वे वा अस्य असत्कार्यवादप्रसङ्गात् स एव परमतप्रवेशाऽनुषङ्गः / अभिव्यक्तेश्च पूर्व यथा अन्यस्यां दाहादिक्रियायां वस्तु असमर्थम् तथा अभिव्यक्तावपि, तत्कथं तत्संभवः ? कथञ्च अप्रत्यक्षस्वभावस्य प्रधानस्य प्रत्यक्षस्वभावो भावप्रपञ्चः स्यात् , नीरूप- 15 स्वभावस्य च रूपवान् ? नीरूपादपि अतो रूपवद्भावप्रपञ्चसंभवे चेतनादात्मनो अचेतनो जगप्रपञ्चः किन्न स्यात् यतो ब्रह्माद्वैतसिद्धिर्न स्यात् ? . ' न च सत्कार्यवादे कारकाणां साफल्यम्, प्रागसत्किञ्चिदपि अकुर्वतां कारकव्यपदेशस्यापि असंभाव्यमानत्वात् ; प्रयोगः-यदु अविद्यमानसाध्यं न तत् कारकम् यथा चैतन्यम् , अविद्यमानसाध्यश्च परमते कारकत्वेनाभिमतः पदार्थ इति। न च अभिव्यक्तौ तेषां व्यापारः; 20 तत्रापि सत्त्वाऽसत्त्वपक्षयोः करणाऽसंभवात् , न खलु सापि विद्यमाना कर्तुं युक्ता करणाऽनुपरमप्रसङ्गात् / अविद्यमानायाश्च करणे सत्कार्यवादहानिः स्यात् / कारकाणि च उपादानसहकारिभेदेन विभिन्नानि, तत्र क कुंटादिकार्यस्य सूक्ष्मेण रूपेण अनभिव्यक्तस्य अवस्थानम् ? उपादाने मृत्पिण्डादौ चेत् ; दण्डादीनामकारकत्वम् / : एतेन 'उपादानग्रहणात्' इत्यपि प्रत्युक्तम् ; व्यधिकरणाऽसिद्धत्वादेर्दोषस्य अत्राप्यविशे- 25 1 अभिव्यक्तायामपि आ० / 2 चेतनात्मनो श्र० / 3 “यदि सत् सर्वथा कार्य पुंवन्नोत्पत्तुमर्हति / परिणामप्रक्लप्तिश्च नित्यत्वैकान्तबाधिनी // 39 // " आप्तमी०,अष्टसह. पृ० 181 / 4 "साप्यभिव्यक्तिः प्राक् प्रवृत्तेः सती आहोऽसती इति पूर्ववत् प्रसङ्गः / " न्यायवा० पृ० 444 / तत्त्वसं० पं० पृ० 26 / न्यायमं० पृ० 493 / प्रश० कन्द० पृ. 144 / प्रश० व्यो० पृ. 545 / प्रमेयक० पृ० 82 उ० / सन्मति० टी० पृ. 298 / 5 घटादि-ब०, ज., भां०, श्र०।६ प्रत्याख्यातम् भां, श्र० / "उत्पत्तौ खलु सिद्धायामुपादानं विचार्यते। सतस्तु सैव नास्तीति किमुपादानचिन्तया // " न्यायमं० पृ० 495 / तत्त्वसं० पं० पृ. 26 / सन्मति० टी० पृ. 302 /