________________ 356 ___ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त / षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः // " [ सांख्यकारि० 3 ] इति / यच्च प्रकृतौ महदादिप्रपञ्चस्य सत्त्वसाधने 'असदकरणात्' इत्यादि साधनमुपन्यस्तम्'; तत्र को धर्मी, किञ्च साध्यम् ? यदि कार्य धर्मी, 'प्रागुत्पत्तेः सत्' इति साध्यम् ; तदा व्यधि५ करणाऽसिद्धो हेतुः, सत्त्वं हि साध्यं महदादिकार्ये वर्त्तते असदकरणं तु साधनं खपुष्पादौ अकार्ये इति / अथ असदकरणम् ‘सतः करणात्' इत्यत्र पर्यवस्यति; तदा साध्याऽविशिष्टत्वम् / अथ क्रियमाणत्वं हेतुः, प्रागुत्पत्तेः कार्यमस्ति क्रियमाणत्वात् , 'असदकरणात्' इति तु व्यतिरेककथनम्-'यदसत् तन्न क्रियते यथा गगनकुसुमम्' इति; तदप्यविचारितरमणीयम् ; सतः . करणविरोधात् , यद्धि निष्पन्नं स्वात्मसत्तांप्रति अन्यनिरपेक्षं तत् 'सत्' इत्युच्यते, तस्य च 10 कथं करणम् ? प्रयोगः-यत् सर्वात्मना सत् तन्न केनचित्कर्तुं शक्यम् यथा प्रकृतिः पुरुषो वा, सच्च सर्वात्मना परमते कार्यमिति / अतः अनिष्पन्नस्यैव करणमुपपन्नम्, निष्पन्नत्व-अनिष्पन्नत्वयोश्च विरुद्धधर्मयोः एकत्र धर्मिणि एकान्तवादिनः समावेशाऽसंभवात् अतो विरुद्धोऽयं हेतुः,.. क्रियमाणत्वस्य असत्त्वे सत्येव संभवात् / असत्कार्यवादाऽनभ्युपगमे च कथं कारणेऽसन्तो हेतुमत्त्वादयो धर्माः कार्ये भवितुम१५ हन्ति ? न खलु ते व्यक्तवद् अव्यक्ते सन्ति / कालात्ययापदिष्टश्च; पक्षस्य प्रत्यक्षबाधनात् , न खलु उत्पत्तेः प्राक् कार्य स्वतन्त्रं कारणात्मकं वा प्रत्यक्षतः प्रतीयते , सतो हि क्षीरादौ विशिष्टाकारसंस्थानरसाद्युपेतस्य दध्यादेः प्रत्यक्षेण अवश्यं भाव्यम् ,दैध्याद्यर्थिनः क्षीरादौ प्रवृत्त्या च / अथ न साक्षाद् व्यक्तीभूता दध्याद्यवस्था तत्र साध्यते, किन्तु शक्तथात्मना तत्र व्यव स्थितं दध्यादि व्यक्तीभवति इति ; ननु केयं शक्तयात्मकता नाम-दध्यादेः सूक्ष्मेण रूपेण 20 अवस्थानम् , क्षीरादेस्तैजननसामर्थ्य वा ? तत्र आद्यः पक्षोऽयुक्तः; नहि पदार्थस्य द्वे रूपे स्तः स्थूलं सूक्ष्मं च, निष्पन्नता हि पदार्थस्य स्वरूपप्राप्तिः, सा चेदस्ति किं स्थूल-सूक्ष्मभेदेन ? द्वितीयपक्षे तु न सत्कार्यवादः समर्थितः , नहि सामर्थ्यमेव कार्य युक्तम् / किञ्च इदं कार्य नाम-किमसतः प्रादुर्भावः , अङ्गाङ्गिभावगमनम् , धर्मिणः पूर्वधर्मत्यागेन धर्मान्तरस्वीकारोवा ? प्रथमपक्षे स्वमतविरोधः / द्वितीयपक्षे तु कः अङ्गाङ्गिभावार्थः ? 25 गुणप्रधानभावश्चेत् ; तथाहि-यत्र सत्त्वम् अङ्गि रजस्तमसी अङ्गे तत्र सात्त्विकः परिणामः सुखात्मा स्रक्चन्दनादिः , यत्र रजः अङ्गि सत्त्वतमसी अङ्गे तत्र राजसो दुःखात्मा अहिकण्ट 1 पृ. 352 पं० 13 / 2 “यत् सर्वाकारेण सन्न तत् केनचिज्जन्यम् यथा प्रकृतिः चैतन्यं वा?" तत्त्वसं० पं० पृ० 25 / सन्मति० टी० पृ. 298 / 3 दध्यर्थिनः आ०, ब०, ज०, श्र० / "यदि दध्यादयः सन्ति दुग्धाद्यात्मसु सर्वथा। तेषां सतां किमुत्पाद्यं हेत्वादिसदृशात्मनाम् // 17 // " तत्त्वसं० / 4 तज्जनकत्वसाम-श्र० /