________________ लघी० प्रमाणप्र० का०७] सांख्यीयतत्त्वप्रकियावादः 355 शक्तितः प्रवृत्तेः तदस्तीति किं केन सङ्गतम् , अन्यथा 'खपुष्पमस्ति तस्यैव शक्तितः प्रवृत्तेः' इत्यपि स्यात् / शक्तेश्च व्यतिरेक-अव्यतिरेकैकान्ते अनुपपत्तेः कथं ततः कस्यचित् प्रवृत्तिः ? कारणकार्यविभागाच्च तत्सत्त्वसिद्धिः खरविषाणसत्त्वसिद्धिमन्वाकर्षति, न खलु खरविषाणवत् प्रधानस्य सत्त्वं कुतश्चित् प्रसिद्धम् / प्रलयकालस्य चाप्रसिद्धः अविभागोऽपि वैश्वरूप्यस्य उक्तप्रकारोऽप्रसिद्ध एव / तन्न उक्तहेतुभ्यः प्रकृतिसिद्धिः / ___ अस्तु वा ततस्तत्सिद्धिः, तथापि प्रकृतिः तत्त्वसृष्टौ भूतसृष्टौ च प्रवर्त्तमाना स्वभावतः प्रवर्त्तते, किञ्चिन्निमित्तमाश्रित्य वा ? स्वभावतः प्रवृत्तौ नैयत्येन प्रवृत्तिः प्रवृत्तिविरामश्च न स्यात्, चैतन्यशून्यस्य 'एतावत्येव तत्त्वसृष्टिः,इदमस्यैव च उपकारकं भवतु' इत्यनुसन्धानविकलस्य तदसंभवात् / निमित्तश्च किं पुरुषप्रेरणम् , पुरुषार्थकर्त्तव्यता वा स्यात् ? न तावत् पुरुषप्रेरणम् ; निरभिलाषस्य उदासीनतया इष्टस्य इदमस्माद् भवति' इति अनुसन्धाना- 10 ऽभावतः प्रतिनियतायां प्रसवक्रियायां तत्प्रेरणाऽसंभवात् / नापि पुरुषार्थकर्त्तव्यता ; पुरुषस्य निरभिलाषतया अर्थस्यैव असंभवात् / प्रकृतेश्च जडतया 'पुरुषप्रयोजनमहं सम्पादयामि' इत्यनुसन्धानाऽनुपपत्तेः / नहि पुरुषेण अनभिलषितः पुरुषार्थो नाम, लोके हि 'अस्य इदमभिलषितम्' इति तद्वचनादन्यतो वा कुतश्चिनिश्चित्य 'अस्य अभिलषितमहं सम्पादयामि येनायं मम तुष्यति' इति अनुसन्धाय च प्रवृत्तिः प्रतीयते / अथ अस्याः स्वभावस्तादृशः येन केन- 15 चिदप्रयुक्ताऽपि 'अस्याभिलाषं पूरयामि' इत्यनुसन्धानशून्याऽपि एवंविधं विश्वप्रपञ्चमारचयतीति ; नन्वयं स्वभाववादः प्रमाणप्रतिपन्ने वस्तुनि उपपन्नः यथा अग्न्याकाशयोर्दहनेतरस्वभावतायाम् , तदप्रतिपन्नेऽपि तदभ्युपगमे वन्ध्यासुतादेरपि जगद्वैचित्र्यविधाने स्वभावाऽभ्युपगमः किन्न स्यात् ? ततः प्रधानस्य परिणामप्रसराऽनुपपत्तेः अयुक्तम्-'प्रकृतेर्महान्' इत्यादि तत्प्रसरक्रमनिरूपणम् / किन्च, अयं महदादिप्रपञ्चः प्रकृतेर्भिन्नः, अभिन्नो वा ? अभेदे द्वयोरप्यविशेषतः कार्यत्वं कारणत्वं वास्यात् , तथा च 'प्रकृतेः कारणत्वमेव, भूतेन्द्रियलक्षणषोडशकगणस्य कार्यत्वमेव, बुद्धि-अहङ्कार-तन्मात्राणां पूर्वोत्तरापेक्षया कार्यत्वं कारणत्वञ्च' इति प्रतिज्ञातं विरुद्ध येत / तथा चेदमसङ्गतम् 1 संगृह्यताम ब०, ज० / 2 “शक्तितः प्रवृत्तेः इत्यनेन यद्यव्यतिरिक्तशक्तियोगिकारणमात्रं साध्यते तदा सिद्धसाध्यता। अथ व्यतिरिक्तविचित्रशक्तियुक्तमेकं नित्यं कारणं तदाऽनैकान्तिकता हेतोः...।" तत्त्वसं० पं० 39 / प्रमेयक० पृ० 84 पू० / सन्मति० टी० पृ० 306 / 3 प्रकृतसि-ज०।४"तच्च केवलं प्रधानं "किमपेक्ष्य प्रवर्तते निरपेक्ष्य वा ?" प्रमेयरत्नमा० 4 / 1 / ५-त्तं किं आ० / 6 भवतु . आ० / ७-माचरतीति ब०, ज०, आ० / 8 "नहिं यद् यस्मादव्यतिरिक्तं तत्तस्य कारणं कार्य वा युक्तं भिन्नलक्षणत्वात् कार्यकारणयोः। ततश्च यद्भवद्भिः मूलप्रकृतेः कारणत्वमेव।" तत्त्वसं० पं० पृ० 22 / प्रमेयक० पृ० 81 उ० / सन्मति० टी० पृ० 296 / 9 रूपान्तरापेक्षया ब०, ज०। 20