________________ 350 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० ततो यौग-चार्वाकोपकल्पितभेदैकान्तस्य विचार्यमाणस्य आकाशकुशेशयस्य इव अनुपपत्तेः न तत्र अर्थक्रियासिद्धिवार्ताऽपि सङ्गच्छते / बौद्धोपकल्पिते भेदैकान्ते यथा तत्सिद्धिनोपपद्यते तथा अनन्तरकारिकायां प्रतिपादयिष्यते / तन्न भेदैकान्ते अर्थक्रियासिद्धिर्घटते / नाप्यभेदैकान्ते ; सर्वथा अभेदरूपस्य ब्रह्माद्वैतैकान्तस्य प्रागेव प्रतिक्षिप्तत्वात् / ननु माभूत् ब्रह्माद्वैतैकान्तरूपतया परिकल्पिते सर्वथा विचाराऽसहे अभेदैकान्ते अर्थ'प्रकृतेर्महान' इत्यादिना क्रियासिद्धिः, प्रकृतिरूपे तु भविष्यति तस्य विचारसहत्वात् / पंचविंशतितत्त्वं वर्णयतः सांख्या हि 'निस्तरङ्गमहोदधिप्रख्यं प्रधानं जगत्प्रपञ्चरचनायां सांख्यस्य पूर्वपदः- कारणम्' इत्याचक्षते / प्रेधीयन्तेऽस्मिन् विकाराः इति प्रधानम् / तच्च सक्षेपतः त्रिविधम् ___ शक्तिः करणं कार्यम् इति त्रेधा जगत्स्थितम् / . कार्य भूतानि करणं खानि शक्तिः गुणत्रयम् // " [ ] इत्यभिधानात् / नहि कार्य-करण-शक्तिव्यतिरिक्तो जगत्प्रपञ्चोऽस्ति। तत्र कार्य दर्शविधम्तन्मात्र-महाभूतसंज्ञकम् / करणं त्रयोदशविधम्-बुद्धीन्द्रिय-कर्मेन्द्रिय-अन्तःकरण-बुद्धि-अह कारभेदात् / शक्तिश्च अननुभूयमानस्वभावा प्रकृतिः एकैव मूलोपादानभूता। तत्सद्भावावेदकं तु१५ “भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च / .. कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य // " [ सांख्यकारि० 15 ] इति हेतुपञ्चकम् / परिमितत्वं हि एककारणंपूर्वकस्यैव प्रतिपन्नम् , यथा घट-शराव-उदञ्चनादेः एकद्रव्यपूर्वकस्य, परिमितञ्च इदं व्यक्तम्-एका बुद्धिः, एकोऽहङ्कारः, पञ्च तन्मात्राणि, एकादश इन्द्रियाणि, पञ्च भूतानि / अतो यत् तदेकं कारणं तत् प्रधानमेव इति तदस्तित्वसिद्धिः। सम२० वयाच; यज्जातिसमन्वितं हि यत् तत् तदात्मककारणकार्यम् यथा घटादयो विशेषाः मृजाति समन्विता मृदात्मककारणकार्याः, सत्त्व-रजः-तमोजातिसमन्वितञ्च इदं महदादिव्यक्तम् / सत्त्वस्य हि प्रसाद-लाघव-उद्धर्ष-प्रोत्यादि कार्यम् , रजसः ताप-शोष-उपेष्टम्भ-उद्वेगादि, १-ल्पिते तु भेदै-श्र० / 2 प्रतिधीयन्ते श्र० / 3 कारणं ज० / 4 यानि ब०, ज० / 5 शक्तेः श्र० / 6 कारणं ब०, ज०। ७“करणं त्रयोदश विधं तदाहरणधारणप्रकाशकरम् / कार्य च तस्य दशधाऽऽहार्य धार्य प्रकाश्यं च // आहारकम् इन्द्रियलक्षणम् , धारकमभिमानलक्षणम् , प्रकाशक बुद्धिलक्षणम् / " सांख्यका० माठरवृ० 32 / ८-णभूतस्यैव ब०, ज० / 9 एकमृद्रव्य-श्र० / 10 "सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः / गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः // 13 // " सांख्यका० / “उपष्टम्भकं प्रेरकम् उन्नाडिः इत्यर्थः, यथा मत्तवृषो वृषं दृष्ट्वा उद्धतो भवति तद्वत्"यदा गुरूणि अंगानि भवन्ति इन्द्रियाणि अलसानि स्वबिषयग्रहणासमर्थानि भवन्ति तदानीं मन्तव्यं एतत्तमः उत्कटत्वेन वत्तते"।" माठरवृ. / “तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम् / सुखसंगेन बध्नाति ज्ञानसंगेन चानघ // 6 // रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् / तन्निबध्नाति कौन्तेय कर्मसंगेन देहिनम् // 7 // तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् / प्रमादालस्यनिद्राभिः तन्निबध्नाति भारत // // " भगवद्गीता अ० 14 / “सत्त्वस्य हि प्रसादलाघन"" तत्त्वार्थराजवा० पृ. 12 / तत्त्वसं. पं० पृ. 21 / ११-अवष्टम्भ-ब०, ज०, भां०, श्र० /