________________ लघी० प्रमाणप्र० का०७] सांख्यीयतत्त्वप्रक्रियावादः 351 तमसः विषाद-दैन्य-बीभत्स-गौरव-आवरणादि / महदादौ चास्ति प्रसाद-ताप-विषादादिकार्योपलम्भः अतः प्रधानान्वितत्वसिद्धिः / शक्तितः प्रवृत्तेश्च; यो हि यस्मिन्नर्थे प्रवर्त्तते स तत्र समर्थः यथा तन्तुवायः पटकरणे, प्रवर्तते च प्रधानं व्यक्तकरणे, अतोऽस्ति तस्य शक्तिः यया व्यक्तमुत्पादयति, सा च निराधारा न संभवति इति तदस्तित्वसिद्धिः / कारण-कार्यविभागाच्च; न हि कारणमन्तरेण महदादिकार्यविभागो घटते मृत्पिण्डमन्तरेण घटादिवत् , अस्ति 5 चाऽयम् , अतः कार्यदर्शनात् कारणास्तित्वसिद्धिः / अविभागाच्च वैश्वरूप्यस्य; वैश्वरूप्यं हि महदादिप्रपञ्चोऽभिधीयते, तच्च प्रलयकाले क्वचिद् अविभागं गच्छति, भूतानि हि तन्मात्रेषु लीयन्ते, तन्मात्राणि इन्द्रियाणि च अहङ्कारे, अहङ्कारो बुद्धौ, बुद्धिः प्रकृतौ इति / एवं प्रमाणतः प्रसिद्धसत्ताका प्रकृतिः अनेन क्रमेण तत्त्वसृष्टौ प्रवर्तते "प्रकृतेर्महान् ततोऽहङ्कारः तस्माद् गणश्च षोडशकः / तस्मादपि षोडशकात् पञ्चभ्यः पञ्चभूतानि // " [ सांख्यका० 22 ] इति / प्रथम हि प्रकृतेर्महान् एको व्यापकः विषयाध्यवसायरूपः आसर्गप्रलयस्थायी प्रभवति, स च अस्मादृशामसंवेद्यस्वभावः, ततस्तु याः प्रतिप्राणि विभिन्ना बुद्धिवृत्तयो निःसरन्ति ताः संवेद्यस्वभावाः / ततश्च अहङ्कारस्तथाविधो जलनिधिरिव प्रतिप्राणि विभिन्नैः तैस्तैः 'स्थूलोऽहम् सुरूपोऽहम्' इत्याद्यहङ्कारतरङ्गविशेषैः प्रसरति, स च अहङ्कारः 'वैकारिकः, भूतादिश्च' इति 15 प्रथमतो द्विप्रकारः प्रसरति / तत्र वैकारिकात् सत्त्वप्रधानात् प्रकाशरूप एकादशविध इन्द्रिय 1 "लोक्यं पञ्चसु महाभूतेष्वविभागं गच्छति पञ्चमहाभूतानि तन्मात्रेषु / " माठरवृ० पृ० 27 // .2 "प्रकृतिः प्रधानमधिकुरुते / ब्रह्म अव्यक्तं बहुधात्मकं माया इति पर्यायाः / तस्याः प्रकृतेर्महान् एकः उत्पद्यते-महान् बुद्धिः मतिः प्रज्ञा संवित्तिः ख्यातिः चितिः स्मृतिरासुरी हरिः हरः हिरण्यगर्भ इति पर्यायाः / ततोऽहङ्कारःतस्य इमे पर्यायाः वैकृतः तैजसो भूतादिः अभिमानोऽस्मिता इति / चतुःषष्टिवर्णैः स्वरादिवैखरीपर्यन्तैः यत्किमप्यभिधीयते बुद्धया समर्थ्य तत्सकलम् आद्यन्ताकारहकारवर्णद्वयग्रहणेन उपरिस्थितपिण्डीकृतानुकारिणा बिन्दुना भूषितः प्रत्याहारन्यायेन अहङ्कार इत्यभिधीयते / " माठरवृ. पृ० / 3 “अत्राह त्रिविधोऽहङ्कारः तं व्याख्यास्यामः / तत्र कतरस्मादहङ्कारात् इन्द्रियाणि उत्पद्यन्ते कतरस्माद्वा तन्मात्राणीति ? अत्रोच्यते-सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् / भूतादेः तन्मात्रः स तामसः तैजसादुभयम् // 25 // यदा सत्त्वमुत्कटं भवति अहङ्कारे, तेन च सत्त्वेन रजस्तमसी अभिभूते स्यातां तदा सात्त्विकोऽहङ्कार उच्यते / तस्य सात्त्विकस्य वैकृतिक इति पूर्वाचार्यैः संज्ञा कृता / स वैकृतिको भूत्त्वा अहङ्कार एकादशेन्द्रियाणि उत्पादयति भूतादेः तमोबाहुल्यात् गौणीभूतसत्त्वरजसः भूतादिनाम्नः पूर्वाचायनिरूपितादहङ्कारात् तन्मात्रः शब्दादिपञ्चको गणो जायते / अभिभूतसत्त्वतमसो राजसात् तैजसाभिधानादहङ्कारात् प्रवृत्तिकर्मण उभयं प्रकाशात्मकम् एकादशेन्द्रियकं मोहात्मकं तन्मात्रिकं चासीदिति सम्बन्धः / तैजसे एव राजसेऽहङ्कारे क्रियाशक्तिरस्ति / सत्त्वं निष्क्रियमेकाकि न शक्नोति उत्पादयितुम् / तमश्च मूढत्वादक्रियम् असमर्थ विना रजः सृष्टिमुत्पादयितुम् / अत उभे सत्त्वतमसी सृष्टिविषये रजसाऽ. नुगृहीते ऐन्द्रियकं तन्मात्रिकं च गणद्वयं जनयतः इति तात्पर्यार्थः / " सांख्यका०२५, माठरवृत्ति /