________________ 349 . लघी० प्रमाणप्र० का०७] भूतचैतन्यवादः नापि सन्दिग्धः; उभयकोटिसंस्पर्शाभावात् / न च इत्थम्भूतस्य अस्य अनालम्बनत्वं युक्तम् ; रूपादिप्रत्ययस्यापि अनालम्बनत्वप्रसङ्गात् / नापि शरीरालम्बनत्वम् ; बहिःकरणनिरपेक्ष-अन्तःकरणव्यापारेण उत्पत्तेः, न खलु शरीरम् इत्थंभूत-अहम्प्रत्ययवेद्यम् बहिःकरणविषयत्वात् / अतः शरीरातिरिक्तः कश्चिद् एतस्य आलम्बनभूतो ज्ञानवान् अर्थोऽभ्युपगन्तव्यः तस्यैव ज्ञातृत्वोपपत्तेः, न तु शरीरस्य भूतारब्धत्वात् घटादिवत्, नहि भूतारब्धस्य घटादेः तद् दृष्टम् / न च 5 भूतारब्धत्वाऽविशेषेऽपि शरीरस्य अहम्प्रत्ययग्राह्यता भविष्यति इत्यभिधातव्यम् ; मृतशरीरेण व्यभिचारात् / याऽपि 'स्थूलोऽहम्' इत्यादि प्रतीतिः साऽपि आत्मोपकारकत्वेन शरीरे जायमाना औपचारिकी अत्यन्तोपकारके भृत्ये 'अहमेव अयम्' इति प्रतीतिवत् / _____तथा अनुमानेनाप्यात्मा प्रतीयते-रूपादिज्ञानं क्वचिदाश्रितम् गुणत्वात् रूपादिवत् / ज्ञानसुखादि उपादानकारणपूर्वकं कार्यत्वात् घटादिवत् / न च शरीरे तदाश्रितत्वस्य तदुपादानत्वस्य 10 च इष्टत्वात् सिद्धसाधनम् इत्यभिधातव्यम् / तत्र तदाश्रितत्व-तदुपादानत्वयोः प्राक् प्रबन्धन प्रतिव्यूढत्वात् / तथा जीवछरीरं प्रयत्नवताऽधिष्ठितम् इच्छाऽनुविधायिक्रियाश्रयत्वात् रथवत् / श्रोत्रादीनि उपलब्धिसाधनानि कर्तृप्रयोज्यानि करणत्वात् वास्यादिवदिति / प्रामाण्यञ्चाऽस्य प्रागेव प्रसाधितम् / तदेवम् आत्मद्रव्यस्य पृथिव्यादिभ्यः तत्त्वान्तरस्य प्रसिद्धः कथं 'चत्त्वायेव तत्त्वानि' इत्यवधारणमुप॑पद्यते ? अन्योन्यं तत्त्वान्तरभावस्य च एषां पृथिव्यादिचतुर्विध- 15 द्रव्यप्रतिषेधाऽवसरे प्रतिषिद्धत्वात् नितरां तदवधारणाऽनुपपत्तिः / विषयत्वात् " प्रश० व्यो० पृ० 391 / “अहं सुखीति संवित्तौ सुखयोगो न विग्रहे। बहिःकरणवेद्यत्वप्रसङ्गानेन्द्रियेष्वपि // 137 // " तत्त्वार्थश्लो० पृ० 32 / 2 "भृत्यवदेव शरीरेप्यहमिति ज्ञानस्य औपचारिकत्वमेव युक्तम् / उपाचारस्तु निमित्तं विना न प्रवर्त्तते इत्यात्मोपकारकत्वं निमित्तं कल्प्यते।" प्रश० व्यो० पृ०३९१ / प्रमेयक. पृ. 29 उ० / सन्मति० टी० पृ० 86 / 3 "प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्च आत्मनो लिङ्गानि / " वै.'सू० 3 / 2 / 4 / "इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गमिति / " न्यायसू० 1 / 1 / 10 / 4 “शब्दादिज्ञानं क्वचिदा. श्रितं गुणत्वात्।" प्रश. व्यो. पृ. 393 / प्रमेयक० पृ. 29 उ० / 5 उपादानपूर्व-ब०, ज० / "समवायिकारणपूर्वकत्वं कार्यत्वाद्रूपादिवदेव / " प्रश० व्यो० पृ० 393 / 6 “यथा यन्त्रप्रतिमाचेष्टितं . प्रयोक्तरस्तित्वं गमयति तथा प्राणापानादिकापि कियावन्तसात्मानं साधयति / " सर्वार्थसि. 5 / 19 / "स्थकर्मणा सारथिवत् प्रयत्नवान् विग्रहस्याधिष्ठातानुमीयते प्राणादिभिश्चेति / " प्रश० भा० पृ. 69 / “जीवच्छरीरं प्रयत्नवदधिष्ठितम् इच्छानुविधायिक्रियाश्रयत्वात् रथवत् / " प्रश० व्यो० पृ० 402 / 7 “करणैः शब्दाद्युपलब्ध्यनुमितैः श्रोत्रादिभिः समधिगमः क्रियते वास्यादीनां करणानां कर्तृप्रयोज्यत्वदर्शनात् शब्दादिषु प्रसिद्धथा च प्रसाधकोऽनुमीयते।" प्रश० भा० पृ० 69 / 8 -पपद्यत ब०, ज०, भा०, श्र० / आत्मद्रव्यस्य सिद्धिः टिप्पणीनिर्दिष्टतत्तद्ग्रन्थेषु अष्टसह 0 पृ० 63, सिद्धिवि० टी. परि. 4, इत्यादिषु च विस्तरतो द्रष्टव्या / .... ... ..