________________ 348 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० रादिशिशुः मातुरतीव क्रोडमाश्लिष्यति प्रपातस्थानञ्च परिहरति, नहि अननुभूत-इष्टाऽनिष्टसाधनफलाः तानि नियमेन उपादित्सन्ते जिहासन्ति च अतिप्रसङ्गात् / यस्य च पूर्वभवाऽनुभवसिद्धिः सोऽत्र आत्मा तत्त्वान्तरभूतः / तस्य अपूर्वैर्देहेन्द्रियादिभिः अभिसम्बन्धो जन्म, न पुनः असतः प्रादुर्भावः , तन्निरोधश्च मरणम् न तु सर्वथा विनाश इति / __यच्च-'मदर्शक्तिवद् विज्ञानम्' इत्युक्तम् / तदप्ययुक्तम् ; मद्याङ्गपरिणामाद् अन्यत्रापि धत्तरककोद्रवादौ मदशक्तेः प्रतीतितो भूतपरिणामविशेषात् तस्याः प्रादुर्भावाऽविरोधात्। चिच्छक्तस्तु भूतपरिणामविशेषे घटादौ स्वप्नेऽपि अप्रतीतिः तद्विरोधात् / ___यच्चान्यत् 'जलबुबुदवत् जीवाः' इत्युक्तम् ; तदप्यसाम्प्रतम् ; दृष्टान्त-दार्टान्तिकयोः सा म्याऽसंभवात् , जलबुद्बुदानां जलादत्यन्तवैलक्षण्याऽभावतस्तद्धेतुकत्वोपपत्तेः ततः तद्वैचित्र्य१० मुपपन्नम् , भूतचैतन्ययोः पुनः अत्यन्तवैलक्षण्यतः कार्यकारणभावस्यैवासंभवात् न अदृष्टमन्त रेण सुखदुःखादिवैचित्र्यं शरीरादिवैचित्र्यं वा उपपन्नम् , कथमन्यथा सेवा-कृष्यादौ सममीहमानानां सममधीयानानां वा केषाञ्चिदेव फलयोगः अन्येषाञ्च नैष्फल्यं स्यात् ? ततो दृष्ट- . . कारणव्यभिचारात् अदृष्टकारणप्रसिद्धः सिद्धम्-अदृष्टवैचित्र्यात् सुखादिवैचित्र्यम् / तन्न कार्यकारणभावमङ्गीकृत्य परलोकिनोऽपह्नवः कर्तुं शक्यः / 15 नापि व्यङ्ग्य-व्यञ्जकभावम् , तद्भावस्य परलोकसिद्धथनुकूलत्वात् / तथाहि-संतः चैत'न्यस्य व्यक्तिः , असतः , सदसद्रूपस्य वा स्यात् ? प्रथमपक्षे परलोकसिद्धिः अविवादात् , कायाकारपरिणतभूतेभ्यः प्रागपि चैतन्यस्य सत्त्वप्रसक्तेः। प्रागसतो व्यक्तिस्तु प्रतीतिविरुद्धा; सतो हि घटादेः दीपादिना प्रकटीकरणमात्रम् अभिव्यक्तिः प्रसिद्धा न पुनः असतः / अथ सदसद्रूपस्य; किं सर्वथा; कथञ्चिद्वा ? न तावत् सर्वथा; विरोधात् / अथ कथञ्चित; जैनमत२० सिद्धिः, द्रव्यतः सतः पर्यायतश्च असतः चैतन्यस्य कायाकारपरिणतपृथिव्यादिपुद्गलेभ्यो ऽभि: व्यक्तः जैनैरभीष्टत्वात् , इति सिद्धोऽनाद्यनन्तोऽयम् आत्मा। यदप्यभिहितम्-'तत्सद्भावे प्रमाणाऽभावात्' इत्यादि ; तदप्यभिधानमात्रम् ; प्रत्यक्षस्यैव आत्मसद्भावे प्रमाणस्य सद्भावात् ; तथाहि-'सुखमहमनुभवामि' इत्यन्योन्यविविक्तज्ञेय-ज्ञातज्ञानोल्लेखी प्रतिप्राणि स्वसंवेद्यः प्रत्ययो जायमानः संवेद्यते / नेचायं मिथ्या; बाधकाऽभावात् / 1 “मद्याङ्गवद् भूतसमागमे ज्ञः शक्तयन्तरव्यक्तिरदैवसृष्टिः / इत्यात्मशिश्नोदरपुष्टितुष्टैः निहोभयैः हा मृदवः प्रलब्धाः // 35 // " युक्तयनुशा० / 2 पृ. 342 पं. 7 / 3 पृ. 342 पं० 11 / 4 "शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म / " "एतेन नियमः प्रत्युक्तः / " न्यायसू०, भा० 3 / 2 / 68, 69 / 5 "चैतन्यशक्तिं सतीमेव, प्रागसतीमेव वा अभिव्यञ्जयेयुः, सदसती वा ?" युक्त्यनु० टी० पृ. 75 / प्रमेयक० पृ० 30 पू० / ६-लोकिसि-श्र० / ७-भ्यो व्यक्तेः ब०, भा० / 8 पृ० 342. पं. 14 / 9 "तथा च सुख्यहं दुख्यहमिच्छावानहमिति प्रत्ययो दृष्टः "नापि विपर्ययज्ञानमेतत् अबाध्यमानत्वात् / नापि संशयज्ञानं तद्रूपस्याऽसंवेदनात् / " प्रश० व्यो. पृ० 391 / .