________________ 347 लघी० प्रमाणप्र० का०७] भूतचैतन्यवादः अतिप्रसङ्गात् / सामस्त्यपक्षोऽपि एतेनैव समुत्सारितः, नहि एकस्यापि इन्द्रियस्यापाये सामस्त्यं घटते, तथा च अन्धादेः ज्ञानलेशोऽपि नोत्पद्यत / नहि क्षित्यादेः अन्यतमस्याप्यपाये सामस्त्यम् अङ्कुरोत्पत्तिा दृष्टा / ____ मनस्तर्हि तदाश्रयोऽस्तु उपरतेष्वपि इन्द्रियेषु अन्तःसङ्कल्परूपस्य ज्ञानस्य अवभासनात् इति चेत् ; ननु तत् नित्यम् , अनित्यं वा स्यात् ? न तावन्नित्यम् ; तत्त्वसंख्याव्याघातानुषङ्गात् 5 परमतप्रवेशप्रसङ्गाच्च / अथ अनित्यम् / तत् किं भूतहेतुकम् , अन्यहेतुकं वा ? न तावदन्यहेतुकम् ; अनभ्युपगमात् / भूतहेतुकत्वे प्रागुक्तभौतिकत्वाद्यनुमानेभ्यः चेतनाश्रयत्वाऽनुपपत्तिः / _ किञ्च, तन्मनः चेतनं सत् किं कारणान्तरनिरपेक्षम् अर्थप्रतिभासं जनयति, तत्सापेक्षं वा ? यदि निरपेक्षम् ; सकृदेव अखिलार्थप्रतिभासप्रसङ्गात् सर्वः सर्वदर्शी स्यात्। अथ कारणान्तरसापेक्षम् ; तत् किं कारणान्तरम्-मनः, अन्यद्वा ? मनश्चेत् ; तत् चेतनम् , अचेतनं 1 वा ? न तावद् अचेतनम् ; तस्य चेतनाश्रयतया चेतनत्वप्रतिज्ञानात् , अन्यथा प्रथमस्यापि अचेतनत्वापत्तिः स्यात् / अथ चेतनम् ; तर्हि इदमपि कारणान्तरापेक्षमर्थप्रतिभासं जनयति इत्यनवस्था स्यात् / नाप्यन्यत् ; उपरतेन्द्रियस्य अन्येन्द्रियव्यापाराऽभावात् / नापि विषयः तदाश्रयः; शरीरेन्द्रियाश्रयपक्षोपक्षिप्तदोषोपनिपातप्रसङ्गात् / ततो देहाद् व्यतिरिक्तो ज्ञानस्य आत्मैव आश्रयोऽभ्युपगन्तव्यः इति सिद्धोऽसौ तत्त्वान्तरम् / कथमन्यथा तदहर्जातबालकस्य स्तनादौ प्रवृत्तेर्निबन्धनमभिलाषादिकं सिद्धयेत् ? न च अस्याः तन्निबन्धनत्वमसिद्धम् ; तथाहि-तदहर्जातबालकस्य स्तनादौ प्रवृत्तिः अभिलाषपूर्विका तत्त्वात् मध्यदशाप्रवृत्तिवत्। अभिलाषोऽपि स्मरणपूर्वकः, स्मरणमपि अनुभवपूर्वकम् , तत्त्वात् तद्वदेव / न च गर्भादौ तदनुभवादिकमस्ति इति पूर्वभवाऽनुभवसिद्धिः। स हि क्षुत्पीडितः स्तनादिकं तत्प्रतिपक्षभूतं सुखसाधनत्वेन स्मृत्वा अभिलाषात् तत्र प्रवर्तते, तच्च अलभमानो 2 रोदनमारभते, प्राप्य च अपगतरुदितः तत्पानादिकं करोति, प्रपातादिदुःखानुस्मरणभीतश्च वान 1 “नापि मनसः कारणान्तरानपेक्षित्वे युगपदालोचनस्मृतिप्रसङ्गात् स्वयं करणभावाच / ..." प्रश. भा० पृ. 69 / प्रमेयक० पृ. 30 पू० / “अस्तु तर्हि मनोगुणो ज्ञानम् ; “युगपज्ज्ञेयानुपलब्धेश्च न मनसः / " न्यायसू० 3 / 2 / 19 / 2 करणा-श्र० / 3 करणा-श्र०। 4 करणा-श्र० / 5 " अत एव विषयस्यापि न चैतन्यम् / " प्रश० कन्द० पृ. 72 / 6 “पूर्वानुभूतस्मृत्यनुबन्धाजातस्य हर्षभयशोकसम्प्रतिपत्तेः / " न्यायभा० 3 / 1 / 19 / न्यायमं० पृ. 470 / “जातिस्मराणां संवादात् अपि संस्कारसंस्थितेः / अन्यथा कल्पयंल्लोकमतिकामति केवलम् // नाऽस्मृतेऽभिलाषोऽस्ति न विना सापि दर्शनात् / तद्धि जन्मान्तरान्नायं जातमात्रेऽपि लक्ष्यते // " न्यायवि० 2 / 79,80 / पृ. 463 पू० / 7 “येन सुखसाधनं स्तनादिकमन्विच्छति, तच्चालभमानो रोदनमारभते प्राप्य च व्यपगतरुदितः "सद्योजातोऽपि वानरादिशिशुः अवपातपतनप्रभवदुःखान्मरणभीतो मातुरतीव क्रोडमाश्लिष्यति प्रपातादिस्थानं च परिहरतीति / तत्त्वसं. पं० 532 /