________________ 346 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० नुष्ठानाऽभावात् , तावस्थितिकत्वेन उपार्जितत्वाद्वा ? प्रथमपक्षे न विशिष्टाऽदृष्टाऽऽश्लिष्टत्वस्य चैतन्यसाधकत्वम् चैतन्यस्यैव तत्साधकत्वप्रसङ्गात् / एतेन द्वितीय-तृतीयपक्षावपि प्रत्याख्यातौ; अदृष्टविशेषसाधकाऽनुष्ठानस्य तावस्थितिकत्वेन उपार्जितत्वस्य च चैतन्यविशेषाऽऽधीनत्वात् / नापि धातुविशेषोपचितत्वम् अवस्थाविशेषविशिष्टत्वं तेषां युक्तम् ; सुषुप्तावस्थायां 5 तदुपचितेऽपि शरीरे चैतन्योत्पत्त्यप्रतीतेः / 'वयोविशेषान्वितत्वं तद्विशिष्टत्वम्' इत्यपि एतेन प्रतिव्यूढम् ; सुषुप्तावस्थाशरीरस्य मृतशरीरस्य च बालादिवयोविशेषान्वितत्वेऽपि चैतन्याऽनुत्पादकत्वात् / नापि सहकार्यन्तराद् भूतानां वैशिष्टयम् ; तत्त्वचतुष्टयव्यतिरेकेण अपरस्य सहकार्यन्तरस्यानभ्युगमात् / अभ्युपगमे वा 'चत्त्वार्येव तत्त्वानि' इत्यवधारणविरोधः, आत्म सिद्धिश्च स्यात् , तस्यैव आत्मत्वात् / 10 किञ्च, सर्व कार्य साश्रयं भवति, अतः चैतन्यस्य कार्यत्वे कश्चिद् आश्रयो वक्तव्यः / स च शरीरम् , भूतानि, इन्द्रियाणि, मनः, विषयो वा स्यात् ? न तावत् शरीरम् ; भौतिकत्वाद् बाह्येन्द्रियप्रत्यक्षत्वात् मूर्त्तत्वाच्च घटादिवत् / एतेन भूतानामपि चैतन्याश्रयत्वं प्रत्याख्यातम् ; सर्वत्र सर्वदा तत्सद्भावाऽनुषङ्गाच्च तदाश्रयभूतानां तेषां सर्वत्र सर्वदा अविकलानां सद्भावाऽ. विशेषात् / अस्तु तर्हि इन्द्रियाणां तदाश्रयत्वम् , अन्वयव्यतिरेकाभ्यां तस्य तत्पूर्वकत्वसक्तेः; 15 इत्यपि नोत्सृष्टमनेन; भौतिकत्वाद्यनुमानविरोधस्य अत्राप्यविशेषात् / किञ्च, व्यस्तानाम् , समस्तानां वा तेषां तदाश्रयत्वं स्यात् ? यदि व्यस्तानाम् ; तदा एकस्मिन् शरीरे अनेकचेतनसन्तानप्रसङ्गात् एकसन्तानेऽपि अनेकसन्तानवद् अनुसन्धानाऽभावः स्यात् / कथकच अॅन्धादेः इन्द्रियाऽपाये रूपादिस्मरणम् , स्वप्नाद्यवस्थायां रूप-रसादिज्ञानम् ,प्रसुप्तिकादिरोगेण च इन्द्रियोपघाते सुखदुःखादिज्ञानं स्यात् ? न च यस्य विकारे यन्न विक्रियते तत् तस्य कार्यम् / 1 "न शरारेन्द्रियमनसामज्ञत्वात् , न शरीरस्य चैतन्यं घटादिवद् भूतकार्यत्वात् मृते चाऽसंभवात् / " प्रश० भा० पृ. 69 / “सति शरीरे निवर्तमानत्वात् / " प्रश. व्यो० पृ. 394 / प्रमेयक. पृ. 29 उ० / “न शरीरगुणश्चेतना; कस्मात् ? यावच्छरीरभावित्वाद् रूपादीनाम् / " "शरीरव्यापित्वात् / " "शरीरगुणवैधात् / " न्यायसू० 3 / 2 / 49,52, 55 / “न शरीरस्य ज्ञानादियोगः परिणामित्वात् , रूपादिमत्त्वात् अनेकसमूहस्वभावत्वात् सन्निवेशविशिष्टत्वात् / .." न्यायमं० पृ. 439 / "देहधर्मवैलक्षण्यात्।" ब्रह्मसू. शां० भा० 3 / 3 / 54 / 2 “नेन्द्रियाणां करणत्वात् उपहतेषु विषयाऽसान्निध्ये चाऽनुस्मृतिदर्शनात् / " प्रश. भा० पृ०६९ / "नेन्द्रियार्थयोः तद्विनाशेऽपि ज्ञानाऽवस्थानात् / " न्यायसू० 3 / 2 / 18 / ३-प्रसिद्धेः श्र० / 4 “कृतं भूतेन्द्रियाणां च चैतन्यप्रतिषेधनम् / समस्तव्यस्तसंघातविवेकपरिणामिनाम् // 111 // " मीमांसाश्लो. आत्मवाद / "ते च परमाणवः प्रत्येकं वा हेतवः स्युः, समुदिता वा ?" तत्त्वसं० पं० पृ. 527 / 5 "नासिकाद्यकाङ्गवैकल्येऽपि मनसामनुत्पादापत्तेः.."प्रसुप्तिकादिरोगादिना कायेन्द्रियाणामुपघातेऽपि मनोधीरविकृता एकामविकलां सत्तामनुभवति'" तत्त्वसं० पं.पृ० 527 //