________________ लघी०-प्रमाणप्र० का०७] भूतचैतन्यवादः 345 अस्ति; तत्किं' चैतन्येन विजातीयम् , सजातीयं वा ? तत्र आद्यपक्षोऽयुक्तः ; विजातीयाद् विजातीयस्योत्पत्तौ जलादेरपि अनलाद्युत्पत्तिप्रसङ्गतः तत्त्वचतुष्टयाभावाऽनुषङ्गात् / अथ सजातीयम्; युक्तमेतत् , सर्वत्र सजातीयस्यैव उपादानत्वोपपत्तेः / तथाहि-यद् यस्य उपादानं तत् तेन सजातीयम् यथा रूपादिमतो घटस्य तथाविधो मृत्पिण्डः , उपादानञ्च स्वसंविस्वभावस्य चैतन्यस्य इष्टं भवद्भिः किञ्चित्तत्त्वम् , अतः पृथिव्यादिभ्योऽर्थान्तरं तत्स्वभावमेव तद् युक्तम् 5 इत्यात्मतत्त्वसिद्धिः / किञ्च, भूतानि निर्विशिष्टानि चैतन्यं प्रति कारणभावं प्रतिपद्यन्ते, विशिष्टानि वा ? यदि निर्विशिष्टानि; सर्वत्र सर्वदा तजनकत्वप्रसङ्गः। अथ विशिष्टानि; कुतस्तेषां वैशिष्टयम्-समुदायात् , कायाकारपरिणतः , अवस्थाविशेषात् , सहकार्यन्तराद्वा ? यदि समुदायात्; अधिश्रयणादेः ओदनपाकवत् चैतन्योत्पत्तिप्रसङ्गः, तत्र तत्समुदायाऽविशेषात्। अथ कायाकारपरिणतेः; 10 ननु कुतस्तेषां सैव सम्पन्ना-किं निर्हेतुका , स्वरूपमात्रप्रभवा , अदृष्टनिमित्ता वा स्यात् ? निर्हेतुकत्वे सदा सत्त्वमसत्त्वं वा स्यात् / स्वरूपमात्रप्रभवत्वे सर्वत्र सर्वदा तेषां तत्परिणतिप्रसङ्गः स्वरूपमात्रस्य सर्वत्र सर्वदाऽविशिष्टत्वात् / अथ अदृष्टकृता; तत्तु अदृष्टं तद्भवप्रभवम् , भवान्तरप्रभवं वा तद्धेतुः स्यात् ? तत्र आद्यविकल्पे चक्रकप्रसङ्गः-शरीरस्योत्पत्तौ हि सत्यां चैतन्यस्योत्पत्तिः, तदुत्पत्तौ च हिताऽहितविवेकपूर्वकमदृष्टसाधनानुष्ठानाद् अदृष्टस्य उत्पत्तिः, 15 ततश्च शरीरस्योत्पत्तिः इति / भावान्तरप्रभवत्वे च परलोकिनः प्रसिद्धेः " परलोकिनोऽभावात् परलोकाऽभावः" [ ] इतीदमसङ्गतं स्यात् / अस्तु वा कायाकारपरिणतिः यथाकथञ्चित् तेषाम् ; तथापि अस्याश्चैतन्यहेतुत्वै मृतशरीरेऽपि चैतन्योत्पत्तिप्रसङ्गो विशेषाऽभावात् / अथ अवस्थाविशेषोऽपि तद्धेतुः तदभावान्न तत्र तत्प्रसङ्गः, तदाकारपरिणतानि हि भूतानि अवस्थाविशेषविशिष्टानि तद्धेतुत्वं प्रतिपद्यन्ते इति / ननु 20 किमिदं तेषां तथाविधानामवस्थाविशेषविशिष्टत्वं नाम-चैतन्योपेतत्वम्, विशिष्टाऽदृष्टाश्लिष्टत्वम् , धातुविशेषोपचितत्वम् , वयोविशेषान्वितत्वं वा ? न तावत् चैतन्योपेतत्वम् ; आद्यचैतन्योत्पत्तौ तेषां हेतुत्वाऽभावप्रसङ्गात् , तदा तेषां तदुपेतत्वाऽभावात् / अथ तदापि तेषां तदुपेतत्वमिष्यते; तत्किं तेनैव चैतन्येन, ततः पूर्वेण वा स्यात् ? तेनैव चेद् अन्योन्याश्रयः-सिद्धे हि औद्यचैतन्ये तेषां तद्विशिष्टत्वसिद्धिः, तत्सिद्धौ च आद्यचैतन्यसिद्धिरिति / अथ ततः पूर्वेण; 25 कथं परलोकिनोऽपह्नवः गर्भचैतन्यात् पूर्वमपि चैतन्यप्रबन्धप्रंसक्तेः ? अथ विशिष्टाऽदृष्टाऽऽ श्लिष्टत्वं तेषां तद्विशिष्टत्वमुच्यते; तदपि मृत्काये कस्मात् नास्ति-चैतन्याऽभावात् , तत्साधकाs .1 "सूक्ष्मभूतविशेषः चैतन्येन विजातीयः सजातीयो वा ?" तत्त्वार्थश्लो० पृ० 29 / प्रमेयक० पृ. 30 पू० / 2 नन्वत्राप्यविशिष्टानि विशिष्टानि वाऽथवा / "" स्या. रत्ना० पृ० 1082 / 3 "मृते चाऽसंभवात्""प्रश० भा०पृ०६९ / शास्त्रवा० समु० श्लो० 65 / न्यायविनि वि.पृ०४५४ उ० / 4 आये चै-२० / ५-प्रसिद्धः श्र० /