________________ 344 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० ऽवसरे प्ररूपितम् / ननु जीवस्य तत्त्वान्तरत्वमसिद्धम् , चेतनालक्षणस्यास्य भूतकार्यतया घटादिवत् तत्रैवान्तर्भावात् ; इत्यसमीक्षिताऽभिधानम् ; भूत-चैतन्ययोः कार्यकारणभावोऽनुपपत्तेः। तथाहि-न भूतकार्य चैतन्यम् तेषु संत्स्वपि अभावात् सर्वदाऽनुपलब्धिवत् / यथैव हि पृथि व्यादिभूतेषु सत्स्वपि सर्वदाऽनुपलब्धेरभावात् नाऽसौ तत्कार्या तथा चैतन्यमपि अॅविशेषात् / 5 न खलु भूतेषु मृत्काय-घटाद्यनेकावस्थाविशिष्टेषु सँदा सत्स्वपि चैतन्यं संदा उपलभ्यते / तन्तुपटादिवत् पूर्वापरीभावाऽभावाच अत्र कार्यकारणभावाऽभावः, नहि चैतन्यरहितस्तत्परिणामः कायः प्रथमतः प्रतीयते, पश्चात् चैतन्यम् इति, अतः सहसिद्धत्वेन अनयोरुपलम्भात् जलाऽनलवत् न कार्यकारणभावः / / ____ अस्तु वाऽसौ; तथापि भूतानां चैतन्यं प्रति उपादानभावेन कारणत्वं स्यात् , सहकारि१० भावेन वा ? न तावद् उपादानभावेन; तेषु विक्रियमाणेष्वपि अस्य अविक्रियमाणत्वात् / यस्मिन् विक्रियमाणेऽपि यन्न विक्रियते न तत् तस्योपादानम् यथा गोः अश्वः , विक्रियमाणेष्वपि कायाकारपरिणतभूतेषु न विक्रियते च चैतन्यमिति / न चेदमसिद्धम् ; अन्यत्रगतचित्तानां वासीचन्दनकल्पानां शस्त्रसम्पातादिना शरीरविकारेऽपि चैतन्यस्याविकारप्रसिद्धः। "तदविकारेऽपि विक्रियमाणत्वाञ्च तद्वदेव / न चेदमप्यसिद्धम् ; शरीरगतप्राच्य-अप्रसन्नता१५ द्याकाराऽविनाशेऽपि कमनीयकामिनीसन्निधाने चैतन्ये हर्षादिविकारोपलम्भात् / तन्न उपा दानभावेन तेषां तज्जनकत्वं घटते ।"सहकारिभावेन तु तेषां तज्जनकत्वे ततोऽन्यत् तस्य उपादानमस्ति, न वा ? यदि नास्ति; कथमनुपादानस्यास्य उत्पत्तिः स्यात् ? यद् अनुपादानं न तस्योत्पत्तिः यथा खरविषाणस्य, अनुपादानं भवद्भिः परिकल्प्यते च चैतन्यमिति / अथ 1 “व्यतिरेकः तद्भावाऽभावित्वान्न तूपलब्धिवत् / " ब्रह्मसू० 3 / 3 / 54 / तत्त्वसं० पं० पृ. 525 / तत्त्वार्थश्लो० पृ० 30 / 2 सत्सु अभा-आ० / 3 अविशेषात् तत्रैवान्तर्भावात् ब०, ज० / 4 सर्वदा भां० / 5 सद्वा आ० / 6 तन्तुघटादि-भां० / “किमुपादानकारणमहोस्वित् सहकारिकारणम् 1" तत्त्वसं० पं० पृ. 526 / 7 “भूतानि किमुपादानकारणं चैतन्यस्य सहकारिकारणं वा ?" युक्त्यनुशा० टी० पृ० 78 / प्रमेयक० पृ. 30 उ० / 8 "न च यस्य विकारेऽपि यन्न विक्रियते तत्तस्कार्य युक्तमतिप्रसङ्गात् / ' तत्त्वसं० पं० 527 / “प्रमितेऽप्यप्रमेयत्वात् विकृतेरविकारिणी / निर्हासातिशयाभावात् निर्हासातिशये धियः / " “बलीयस्यबलीयस्त्वात् विपरीते विपर्ययात् / काये तस्मान्न ते तस्य परिणामाः सुखादयः // न्यायविनि० 2 / 73-74 / पृ० 459 उ० / 9 गौरश्वस्य श्र० / 10 "यदविकारेऽपि यस्य विकारापादनं संभवति न तत्तदुपादानम् / .." तत्त्वसं० पं० पृ. 528 / 11 "नापि ते कारका वित्तेर्भवन्ति सहकारिणः / स्वोपादानविहीनायास्तस्यास्तेभ्योऽप्रसूतितः // 20 // " तत्त्वार्थश्लो० पृ० 28 / 12 अनुपादानं च भवद्भिः परिकल्पितं चै-श्र० / अनुपादानं च स्वसंविदितस्वभावस्य चैतन्यस्य इष्टं भवद्भिः परिकल्प्यते चैतन्यमिति ब०, ज० /