________________ लघी० प्रमाणप्र० का०७] भूतचैतन्यवादः 343 इति / अन्वयव्यतिरेकसमधिगम्यो हि सर्वत्र कार्यकारणभावः, तौ चात्र विद्येते सति शरीरे चैतन्यस्योपलब्धिः तदभावे चानुपलब्धिः / तन्न प्रत्यक्षेण आत्मनः सिद्धिः / ___नाप्यनुमानेन; अस्य अप्रमाणत्वात् / प्रमाणत्वे वा हेतोः प्रत्यक्षबाधितपक्षनिर्देशानन्तरं प्रयुक्तत्वेन कालात्ययापदिष्टत्वात्; शरीरव्यतिरिक्त-आत्मपक्षो हि प्रत्यक्षेणैव बाध्यते / न चात्र किञ्चिल्लिङ्ग स्वसाध्येन अविनाभावो वा क्वचित् तस्य प्रसिद्धः, सुखाद्युपलब्धेश्च भूतकार्य- 5 तया तेष्वेव अविनाभावसंभवात् / ततश्च आत्मनः सद्भावे प्रमाणाऽसंभवे तन्नित्यत्वादिकं खपुष्पसौरभप्रख्यं कः सुधीः श्रद्दधीत ? अतो गर्भादिमरणपर्यन्तभूतकार्यमेव चैतन्यं प्रतिपत्तव्यम् तदभिव्यङ्गथं वा / 'ननु क्षित्यादेश्चैतन्याभिव्यक्तौ शरीरवत् घटादिष्वपि तदभिव्यक्तिः स्यात्' इत्याशङ्कथ आह-" चैतन्याऽनभिव्यक्तिघटादिषु कारणान्तराभावात् पांस्वादिषु अनभिव्यक्तमदशक्तिवत् / " [ ] चैतन्याऽभिव्यक्तेहि कारणं क्षित्यादेः का- 10 याकारपरिणतत्वम् मदशक्तौ पिष्टोदकगुणधातक्यादिपरिणतत्ववत् , तच्च घटादौ नास्ति इति तत्र तदभिव्यक्तथभावः पांस्वादौ पिष्टादिपरिणामाऽभावात् मदर्शक्त्यभाववत् / न चैवं मृतशरीरेऽपि चैतन्योपलम्भप्रसङ्गः तत्परिणामाऽविशेषात् इत्यभिधातव्यम् ; कारणवैकल्यात् तत्र तदनुपलम्भोपपत्तेः / कारणं हि चैतन्यावस्थितेः त्वगस्थिपिशितशोणितादिपरिणामविशेषः , तस्य शस्त्रप्रहार-रोगादिना वैकल्ये चैतन्यस्य अनवस्थानादनुपलम्भः शरीराकारविशेषवत् / 15 एवञ्च आकारविशेषवत् चैतन्यस्य शरीरधर्मत्वसिद्धेः सिद्धः-" परलोकिनोऽभावात् परलोकाऽभावः।" [ ] यस्य हि शास्त्रार्थावगम-अनुष्ठान-फलोपभोगैः सम्बन्धः स परलोकी, तस्य च उक्तप्रकारेणाप्रसिद्धः अप्रयत्नप्रसिद्ध एव परलोकप्रतिषेधः / अत्र प्रतिविधीयते / यत्तावदुक्तम् -'पृथिव्यप्तेजोवायुः' इत्यादि; तदसमीचीनम् / यतः 'चत्वार्येव तत्त्वानि' इत्यवधारणं तत्त्वान्तराऽभावे सिद्धे सिद्- 20 तत्प्रतिविधान पुरस्सरं शरीराद्यति- ध्येत / तदभावश्च असिद्धः; जीवलक्षणतत्त्वान्तरस्य स्वसंवेदनरिक्तस्य ज्ञानाद्यसाधारणलक्षण * प्रत्यक्षतः गगनादेश्च आगमानुमानाभ्यां सद्भावप्रसिद्धेः / प्रामालक्षितस्य आत्मनः सिद्धिः ण्यञ्चानयोः 'प्रत्यक्षमेव एकं प्रमाणम्' इत्यस्य प्रतिषेधा - १-रेकेण स-भां० / २-लब्धेः श्र० / ३-लब्धः श्र०। ४-शक्त्यभिव्यक्त्यभाव-श्र० / 5 उद्धृतञ्चैतत्-तत्त्वोपप्लव पृ० 58 / तत्त्वसं० पं० पृ. 523 / प्रमेयक० पृ. 30 पू० / सन्मति० टी० पृ. 71 / ६-कारेणासिद्धेः श्र० / 7 पृ० 341 पं० 16 / 8 “स्वसंवेद्यः स भवति नासावन्येन शक्यते दृष्टुं नासावन्येन शक्यते दृष्टुं कथमसौ निर्दिश्येत 'असौ पुरुषः स्वयमात्मानमुपलभते न चान्यस्मै शक्नोति दर्शयितुम्"'" शावरभा० 1 / 1 / 5 / “अहंप्रत्ययविज्ञेयः स्वयमात्मोपपद्यते // 107 // " मीमांसाश्लो० आत्मवाद / “स्वसंवेदनतः सिद्धः सदात्मा बाधवर्जितात् / तस्य क्ष्मादिविवात्मन्यात्मन्यनुपपत्तितः // 96 // " तत्त्वार्थश्लो० पृ. 26 / शास्त्रवा० समु० श्लो० 79 /