________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० ननु ग्राहकस्य आत्मनोऽभावे कथं चतुर्णामपि तत्त्वानां सद्भावसिद्धिः प्रमात्रधीनत्वात् . प्रमेयव्यवस्थायाः इत्याशङ्कय आह-"तेभ्यश्चैतन्यम् / " [ ] अत्र केचित् 'अभिव्यज्यते' इति क्रियाभिसम्बन्ध प्रतिपद्यन्ते, अन्ये तु 'प्रादुर्भवति' इति / अतः 'परपरिक ल्पितो जीवः अनादिज्ञानसन्तानो वा तत्प्रमाता' इति प्रत्याख्यातम् ; तत्सद्भावे प्रमाणाऽभा५ वात् / तत्प्रमेयत्वस्य च प्रमातृमात्रेण अविनाभावप्रसिद्धः चैतन्यमेव प्रमातृ भविष्यति / ननु विभिन्नेभ्यः पृथिव्यादिभ्यः कथमभिन्नं चैतन्यम् अभिव्यक्तिमाविर्भाव वा बिभ्रदविरुद्धम् ? इत्याह-"मदशक्तिवद् विज्ञानम् / " [ ] यथैव हि मद्याङ्गानां किण्वादीनां देश-काल-अवस्थाविशेषे मदशक्तिलक्षणावस्थाविशेषः प्रादुर्भवति एवं पृथिव्यादीनां तैद्विशेषे विशिष्टं प्रतिनियतघटादिग्राहकं ज्ञानमिति / _____ न च प्रतिनियतसुख-दुःखादिकार्यवैचित्र्यस्य नियामकमन्तरेण अनुपपत्तेः तन्नियामकस्य पूर्वभवोपार्जितस्य अदृष्टस्य प्रसिद्धेः तत्कर्तुरात्मनः पूर्वभवेऽप्यस्तित्वसिद्धिः; यतः "जलबुबुदवत् जीवाः।" [ ] यथैव हि समुद्रादौ नियामकाऽदृष्टरहिताः पदार्थसामर्थ्यवशाद् वैचित्र्यभाजो बुबुदाः प्रादुर्भवन्ति तथा सुखदुःखवैचित्र्यभाजो जीवाः , न पुनः कायाकार परिणतभूतव्यतिरिक्ता नित्यादिस्वभावाः तत्सद्भावे प्रमाणाऽभावात् / तत्र हि प्रमाणं प्रत्यक्षम् , 15 अनुमानं वा प्रवर्तते ? न तावत् तद्वयतिरिक्तात्मसद्भावे प्रत्यक्षं प्रवर्तते; तस्य प्रतिनियतेन्द्रिय सम्बद्धरूपादिगोचरचारितया तद्विलक्षणे जीवे प्रवृत्त्यनुपपत्तेः / न च 'घटमहं वेद्मि' इत्यहप्रत्यये ज्ञानकर्तृतया आत्मा तथाविधः प्रतिभाति इत्यभिधातव्यम् ; तस्यापि 'स्थूलोऽहं कृशोऽहम्' इत्यादिवत् शरीरविषयत्वस्यैव उपपत्तेः। न खलु तत्प्रत्ययस्य आत्मालम्बनत्वमस्ति तत्र स्थौल्यादिधर्माऽसंभवात्। तथा 'घटमहं वेद्मि' इत्यादि प्रत्ययस्यापि, नहि तस्यापि शरीरा२० दन्यो भवत्परिकल्पितः कश्चिद् आत्मा आलम्बनत्वेन स्वप्नेऽपि प्रतीयते / अप्रतीतस्यापि कल्पने कल्पनागौरवं प्रतिनियतवस्तुव्यवस्थाऽभावश्च स्यात् / न च अप्रतीतसद्भावस्य कर्तृत्वं युक्तम् ; खपुष्पादेरपि तत्प्रसङ्गात् / ततः प्रमाणप्रसिद्धस्वरूपत्वात् शरीरस्यैव चैतन्यं प्रति कर्तृत्वमुपपन्नम् / तदन्वर्यव्यतिरेकानुविधायित्वाच्च; यत् खलु यस्य अन्वय-व्यतिरेको अनुकरोति तत् तस्य कार्यम् यथा घटो मृत्पिण्डस्य, शरीरस्य अन्वयव्यतिरेको अनुकरोति च चैतन्यम् 1 “तेभ्य एव तथा ज्ञानं जायते व्यज्यतेऽथवा // 1859 // " तत्त्वसं० / “तेभ्यश्चैतन्यमिति, तत्र केचिद् वृत्तिकारा व्याचक्षते-उत्पद्यते तेभ्यश्चैतन्यम् , अन्ये अभिव्यज्यते इति / " तत्त्वसं० पं० पृ. 520 / ब्रह्मसू० शां० भा० 3 / 3153 / प्रमेयक० पृ.३० / सर्वदर्शनसं. चावीकद० / 2 ब्रह्मसू० शां. भां० 3 / 3 / 53 / न्यायमं० पृ० 437 / “मदशक्तिवच्चैतन्यमिति / " प्रकरणपं० पृ० 146 / 3 तद्विशेषेऽपि ब०। 4 नियामकारहिताः ब०, ज० / 5 “देह एव चेतनश्च आत्मा चेति प्रतिजानते हेतुञ्चाचक्षते शरीरे भावादिति। यद्धि यस्मिन् सति भवति असति च न भवति तत्तद्धर्मत्वेन अध्यवसीयते / " ब्रह्मसू. शां. भा० 3 / 3 / 53 /