________________ 341 लघी० प्रमाणप्र० का० 7] भूतचैतन्यवादः युक्तम् ; तत्र गतिस्थितीनामसंभवात् , भूम्यादौ तदर्शनात् / तर्हि से एव तासां तन्निमित्तमस्तु इत्यप्यनुपपन्नम् ; गगनवर्तिपदार्थगतिस्थितीनां तदसंभवात् / तर्हि नभः साधारणं निमित्तमासामस्तु सर्वत्र तत्संभवात्; इत्यप्यपेशलम् ; तस्य अवगाहनिमित्तत्वप्रतिपादनात् / तस्य एकस्यैव अनेककार्यनिमित्ततायाम् अनेकसर्वगतपदार्थपरिकल्पनाऽनर्थक्यप्रसङ्गः; काल-आत्मदिक्-सामान्य-समवायकार्यस्यापि योगपद्यादिप्रत्ययस्य, बुद्ध यादेः, 'इदमतः पूर्वेण' इत्यादि 5 प्रत्ययस्य, अन्वयज्ञानस्य, 'इहेदम्' इति प्रत्ययस्य च नभोनिमित्तत्वोपपत्तेः तस्य सर्वत्र सर्वदा सद्भावात् / कार्यविशेषात् कालादिनिमित्तभेदव्यवस्थायां तत एव धर्माऽधर्मादिनिमित्तभेदव्यवस्थाऽप्यस्तु सर्वथा विशेषाऽभावात् / एतेन अदृष्टनिमित्तत्वमपि आसां प्रत्याख्यातम् ; पुद्गलानामदृष्टाऽसंभवाच्च / ये यदात्मोपभोग्याः पुद्गलाः तद्गतिस्थितयः तदात्माऽदृष्टनिमित्ताश्चेत् ; तर्हि असाधारणं निमित्तमदृष्टं 10 तासाम् , प्रतिनियतात्माऽदृष्टस्य प्रतिनियतद्रव्यगतिस्थितिहेतुत्वप्रसिद्धः। न च तदनिष्टम्; भूम्यादिवत् तदसाधारणकारणस्य अदृष्टस्यापि इष्टत्वात् , साधारणं तु कारणं तासां धर्माऽधर्मों, इति सिद्धः कार्यविशेषात् तयोः सद्भावः / ____ ततो यौगोपकल्पितपदार्थानां स्वरूपतः इयत्तावधारणतश्च प्रमाणतो विचार्यमाणानामनुपपत्तेर्न तत्परिकल्पितभेदैकान्तेऽर्थस्य सिद्धिर्घटते / नापि चार्वाकपरिकल्पितभेदैकान्ते तत्प- 15 रिकल्पिततत्त्वानामपि स्वरूपतः संख्यातश्च विचार्यमाणानामनुपपद्यमानत्वाऽविशेषात् / ननु चार्वाकमते पृथिवी-अप-तेजो-वायुरूपाणि चत्वार्येव तत्त्वानि अन्योन्याऽसंभविलक्ष'पृथिव्यप्तेजोवायुरिति तत्त्वानि णलक्षितानि शरीर-इन्द्रिय-विषयलक्षणार्थक्रियासम्पादनसमर्थातेभ्यश्चैतन्यम् / इत्यादिना नास्ति नि प्रत्यक्षप्रमाणाधिगतस्वरूपाणि उपपद्यन्त एव, “पृथिव्यकायाकारपरिणतभूतव्यतिरिक्त आत्मा तेजोवायुरिति तत्वानि तत्समुदाये शरीरेन्द्रियविषयसंज्ञाः / " 20 यः परलोकी स्यात्' इति चार्वा- [ ] ईत्यभिधानात् / न ततोऽधिकानि तत्सद्भावे कस्य पूर्वपक्षः- प्रमाणाऽभावात् / न खलु प्रत्यक्षम् आकाशादिसद्भावे प्रवर्त्तते तस्य रूपादौ तद्वति चार्थे प्रवृत्तिप्रतीतेः, न च आकाशादौ एतत् संभवति अरूपिद्रव्यतयाऽस्याभ्युपगमात् / अनुमानस्य चाप्रमाणत्वात् नातोऽपि अस्य सद्भावसिद्धिः / .1 "भूमिजलादीन्येव तत्प्रयोजनसमर्थानि नार्थो धर्माधर्माभ्यामिति चेन्न; साधारणाश्रय इति विशिष्य उक्तत्वात् / " सर्वार्थसि० 5 / 17 / 2 "धर्माधर्मयोः य उपकारः स आकाशस्य युक्तः सर्वगतत्वात् इति चेत्तदयुक्तम् ; तस्य अन्योपकारसद्भावात् / " सर्वार्थसि० 5 / 17 / 3 “अदृष्टहेतुके गतिस्थिती इति चेन्न; पुद्गलेष्वभावात् / ' तत्त्वार्थराज० 5 / 17 / पृ० 215 / 4 उद्धृतञ्चैतत्-तत्त्वोपप्लव पृ० 1 / शा. भा. भामती 3 / 3 / 54 / तत्त्वसं० पं० पृ. 520 / तत्त्वार्थश्लो० पृ. 28 / युक्त्यनुशा० टी. पृ०७३ / प्रमेयक. पृ. 30 पू० / न्यायवि. वि. पृ. 454 पू० / स्या० रत्ना० पृ. 186 /