________________ 340 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० इति भाष्यकारवचनात् / यच्च छलजातिनिग्रहस्थानानां प्रत्येकं दूषणं तत् प्रेमेयकमलमार्तण्डे सप्रपञ्चं प्रपञ्चितम् इह द्रष्टव्यम् / तदेवं षोडशपदार्थानां विचार्यमाणानामव्यवस्थितेन यौगानां षट्पदार्थनियमवत् षोडशपदार्थनियमोऽपि उपपन्नः / __ धर्माऽधर्मद्रव्ययोः तदर्थान्तरभूतयोः सद्भावाच्च / कुतः प्रमाणात् तत्सिद्धिरितिचेत् ? 5 ‘अनुमानात्' इति ब्रूमः / तथाहि-विवादापन्नाः सकलजीवपुद्गलाश्रयाः सकृद्गतयः साधार णबाह्यनिमित्तापेक्षाः युगपद्भाविगतित्वात् एकसरस्सलिलादिना अनेकमत्स्यादिगतिवत् / तथा, सकलजीवपुद्गलस्थितयः साधारणबाह्यनिमित्तापेक्षाः युगपद्भाविस्थितित्वात् एककुण्डाश्रयानेकबदरादिस्थितिवत् / यत् तत्साधारणं निमित्तम् स धर्मः अधर्मश्च, ताभ्यां विना तद्गतिस्थितिकार्याऽनुत्पत्तेः। गतिस्थितिपरिणामिन एव अर्थाः परस्परं तद्धतवश्चेत् ; न ; अन्योन्याश्रयाऽनुषङ्गात्सिद्धायां हि तिष्ठत्पदार्थेभ्यो गच्छत्पदार्थानां गतौ तेभ्यः तिष्ठत्पदार्थानां स्थितिसिद्धिः, तत्सिद्धौ च गच्छत्पदार्थानां गतिसिद्धिरिति / साधारणनिमित्तरहिता एव अखिलार्थगतिस्थितयः / प्रतिनियतस्वकारणपूर्वकत्वात् इति चेत् ; कथमिदानीम् ईश्वर अङ्कुरादिकार्योत्पत्तौ, नर्तकीक्षणो वा निखिलप्रेक्षकजनानां नानातद्वेदनोत्पत्तौ साधारणं निमित्तं स्यात् ? तल्लक्षणसाधारण१५ निमित्तमन्तरेण तदुपपत्त्यनुपपत्तेः इति चेत् ; तदेतद् अन्यत्रापि समानम् , नहि सकलार्थ गतिस्थितयोऽपि सकृद्भाविन्यो धर्माऽधर्मलक्षणसाधारणनिमित्तमन्तरेण उपपद्यन्ते, सकृद्भाविकार्यत्वात् , यत् सकृद्भावि कार्यम् तन्न साधारणनिमित्तमन्तरेण उपपद्यते यथा अङ्करादि, तथाभूताश्चैताः सकलार्थगतिस्थितय इति / ईश्वर एव आसां साधारणनिमित्तमस्तु, इत्यप्य 1 भाष्ये नोपलब्धं वाक्यमिदम् / “सामान्यमधिकृत्य निग्रहस्थाने दे। भेदविस्तरविवक्षायां त द्वाविंशतिधा भेदः / उदाहरणमात्रत्वाच्च भेदस्य आनन्त्वमिति / " न्यायवा० 5 / 2 / 1 / “असंकीर्णोदाहरणविवक्षया च द्वाविंशतिभेदसंकीर्तनम् अवान्तरभेदैस्तु जातिवदानन्त्यमेव तेषामिति / " न्यायम० पृ० 639 / 2 पृ० 195-204 / तत्त्वार्थश्लो० पृ० 281-311 / निग्रहस्थानानां खण्डनं तु वादन्यायेऽपि (पृ०७४-१४२) द्रष्टव्यम् / एतदर्थ सिद्धिविनिश्चयटीकायाः जल्पसिद्धिनामकं प्रकरणमपि समवलोकनीयम् / 3 “गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः।" तत्त्वार्थसू० 5 / 17 / " उदयं जह मच्छाणं गमणाणुग्गहयरं हवदि लोए / तह जीवपुग्गलाणं धम्मं दव्वं वियाणेहि // 85 // " पञ्चास्ति / “धम्मत्थिकाए णं जीवाणं आगमणगमणभासुम्मसमणजोगा वइजोगा कायजोगा जे यावन्ने तहप्पगारा चला भावा सव्वे ते धम्मत्थिकाए पवत्तंति / गइलक्खणेणं धम्मत्थिकाए।" व्या० प्रज्ञ. 13 / 4 / 481 / ४“जह हवदि धम्मदव्वं तह तं जाणेह दव्वमधमक्खं / ठिदिकिरियाजुत्ताणं कारणभूदं दु पुढवीव // 86 // " पञ्चास्ति / “अहमत्यिकाएणं किं पवत्तति ? गोयमा / अहमत्यिकाएणं जीवाणं ठाणनिसीयणतुयट्टणमणस्सय एगत्तीभावकरणता जे यावन्ने तहप्पगारा थिरा भावा सव्वे ते अहमत्थिकाए पवत्तंति / ठाणलक्खणेणं अहमत्थिकाए / " व्या० प्रज्ञ० 13 / 4 / 481 / ५-नुपपत्तेः ज०, श्र० / 6 तद्धेतुश्चेत् आ० / :