________________ 337 लघी० प्रमाणप्र० का०७] षोडशपदार्थवादः णनप्रसङ्गःतत्प्रवृत्त्यङ्गत्वाऽविशेषात् / किञ्च, जरनैयायिकैः प्रतिज्ञाद्यवयवपञ्चकवत् 'जिज्ञासा, संशयः, शक्यप्राप्तिः, प्रयोजनम् , संशयव्युदासः' इत्यन्येऽपि अवयवाः पञ्च प्रतिज्ञाताः / तेषाञ्च मध्ये भवता किमिति संशय-प्रयोजने एव गृह्यते ? दृष्टान्तोऽपि न उदाहरणादन्यः। ततश्चास्य पृथगभिधाने सर्वेषामपि अवयवानां पृथगभिधानप्रसङ्गः अविशेषात् / सिद्धान्तोऽपि प्रतिज्ञातो नाऽर्थान्तरम् / अतोऽस्य पृथग् लक्षणाभिधानमनर्थकम् / सर्वैरेव हि शास्त्रकारैः अपसिद्धान्तं ब्रुवाणो निगृह्यते, न च सिद्धान्तलक्षणं प्रतिज्ञातः पृथक् तैः क्रियते, तस्या एव सिद्धान्तत्वेन सर्वेषां सुप्रसिद्धत्वात् / अवयवानाञ्च पदार्थसंख्यायां परिगणने अनुमानस्यापि पृथक् परिगणनप्रसङ्गः / तस्य प्रमाणान्तर्गतत्वात् पृथगपरिगणने अवयवानामपि अनुमानात्मकत्वान्न पृथक् परिगणनं स्यात्। 10 'प्रधानभूतञ्च अनुमानं प्रमाणान्तर्गतत्वान्न पृथगुपादीयते तदन्तर्भूतास्तु अवयवाः पृथगुपादीयन्ते' इति महती प्रेक्षापूर्वकारिता ! उपादानेऽप्येषाम् इयत्ताऽवधारणमयुक्तम् ; यावद्भिर्विवक्षितार्थप्रतिपत्तिभवति तावतामेव उपादानाहत्वात् , सा च क्वचित् कियद्भिर्भवतीति / तर्कस्य च प्रमाणविषयपरिशोधकत्वम्-तत्तिरोधायकाद्यपनेतृत्वम् , संशयादिव्यवच्छेदेन तन्निश्चायकत्वम् , तद्ग्रहणे प्रवृत्तस्य प्रमाणस्य अग्रेसरतया तत्स्वरूपविवेचनमानं वा ? प्रथ- 15 मपक्षे प्रतीतिविरोधः ; घटादितिरोधायकस्य अन्धकारादेः तर्काद् अपनयनाऽप्रतीतेः / द्वितीयतृतीयपक्षेऽपि अप्रमाणात्मकोऽसौ तथा तन्निश्चयं तद्विवेचनमात्रञ्च कुर्यात् , प्रमाणात्मको . वा ? न तावद् अप्रमाणात्मकः; प्रमाणविषयस्य अप्रमाणात्मना तेन परिशोधनाऽनुपपत्तेः / यद् अप्रमाणं न तत् प्रमाणविषयपरिशोधकम् यथा मिथ्याज्ञानम् प्रमेयो वाऽर्थः, अप्रमाणञ्च भवद्भिः परिकल्पितः तर्क इति / तत्परिशोधकत्वे वा अस्य प्रमाणत्वप्रसङ्गः, यत् प्रमाण- 20 विषयपरिशोधकम् तत् प्रमाणम् यथा अनुमानादि, प्रमाणविषयपरिशोधकश्च भवद्भिः परिकल्पितः तर्क इति / अस्तु तर्हि प्रमाणात्मक एवासौ इति चेत् ; न; 'चत्वारि एव प्रमाणानि' इति संख्याव्याघातप्रसक्तेः / निर्णयश्च प्रमाणफलम् , तच्च सति प्रमाणे अवश्यं भवति इति न किञ्चित् तस्य पृथगुपादाने प्रयोजनम् , अन्यथा हान-उपादानादेरपि पृथगुपादानप्रसङ्गः प्रमाणफलत्वाऽविशेषात् / 25 . 1 “दशावयवानेके नैयायिका वाक्ये सञ्चक्षते-जिज्ञासा, संशयः, शक्यप्राप्तिः,प्रयोजनम् , संशय व्यदास इति / ..." न्यायभा० 111 / 32 / न्यायमं० पृ. 570 / जिज्ञासाप्रयोजनसंशयार्थप्राप्तीनां * वादमार्गज्ञानाधिगम्यपदार्थरूपतया उल्लेखः चरकसंहितायामपि (पृ० 262 ) दृश्यते / 2 इयत्त्वा ज०।३॥ तच्च प्रमाणविषयतिरोधायकापनेतृत्वम् , संशयादिव्यवच्छेदेन तन्निश्चायकत्वम् , तद्ग्रहणे प्रवृत्तस्य प्रमाणस्य अग्रेसरतया तत्स्वरूपविवेचनमात्रं वा ?" स्या० रत्ना० पृ० 977 / 43