________________ 338 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० यदपि 'वीतरागकथा' इत्यादि वादस्य लक्षणम् ; तदप्यनुपपन्नम्। तस्य वीतरागविषयत्वाऽसंभवात् ; तथाहि-वादो ने अविजिगीषुविषयः निग्रहस्थानवत्त्वात् जल्प-वितण्डावत् / न चास्य निग्रहस्थानवत्त्वमसिद्धम् ; न्यून-अधिक-अपसिद्धान्त-हेत्वाभासपञ्चकलक्षणाऽष्टनिग्रहस्थानानां तत्र सद्भावात् / सतामप्येषां निग्रहबुद्धया उद्भावनाऽभावात् न वादे विजिगीषु५ विषयता; इत्यप्यसाम्प्रतम् ; जल्प-वितण्डयोरपि तथोद्भावनाऽभावप्रसङ्गतोऽविजिगीषुविषयताप्रसक्तेः / तत्र छलादिप्रयोगसंभवात् न तथोद्भावनाभावः इति चेत् ; ननु वादे कुतस्तत्प्रयोगाऽभावः ? तत्त्वाध्यवसायसंरक्षणार्थत्वरहितत्वाच्चेत् , जल्पवितण्डे हि तत्त्वाध्यवसायसंरक्षणार्थे अतः तयोरेव तत्प्रयोगो न वादे इति; तदप्यनल्पतमोविलसितम् ; छलादोनामसदुत्तर तया तत्त्वाध्यवसायसंरक्षणहेतुत्वाऽनुपपत्तेः / परस्य तूष्णींभावनिमित्तत्वात् तेषां तद्धेतृत्वमुप१० पन्नम् ; इत्यप्यसत् ; तथा परस्य तूष्णीभावाऽसंभवात् , असदुत्तराणामानन्त्यात् / तत्त्वाध्यव सायसंरक्षणार्थत्वरहितत्वच वादेऽसिद्धम् ; तस्यैव तत्संरक्षणार्थत्वोपपत्तेः / तथाहि-वार्दै एव तत्त्वाध्यवसायसंरक्षणार्थः, प्रमाणतर्कसाधनोपालम्भत्वे सिद्धान्ताऽविरुद्धत्वे पचावयवोपपन्नत्वे च सति पक्षप्रतिपक्षपरिग्रहवत्त्वात् , यस्तु न तथा स न तथा यथा आक्रोशादिः, यथोक्त विशेषणश्च वादः, तस्मात् तत्त्वाध्यवसायसंरक्षणार्थ इति / 15 न चायमसिद्धो हेतुः; " प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताऽविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः / " [ न्यायसू० 1 / 2 / 1 ] इत्यभिधानात् / 'पक्षप्रतिपक्षपरिग्रहवत्त्वात्' इत्युच्यमाने जल्पस्यापि तथात्वप्रसङ्गाद् अवधारणविरोधः स्यात् , तत्परिहारार्थ प्रमाणतर्कसाधनोपालम्भत्वविशेषणम् / नहि जल्पे तत्संभवति-" यथोक्तोपपन्नश्छलजातिनिग्रहस्था नसाधनोपालम्भः जल्पः / ' [ न्यायसू० 1 / 2 / 2 ] इति वचनात् / नापि वितण्डा तथाऽनुष२० ज्यते; जल्पस्यैव वितण्डारूपत्वात् , “स प्रतिपक्षस्थापनाहीनो वितण्डा / " [न्यायसू० 1 / 2 / 3 ] इत्यभिधानात् / ततः प्रमाणतर्कसाधनोपालम्भत्वविशेषणस्य पक्षप्रतिपक्षपरिग्रहस्य जल्प-वितण्डयोरभावात् सिद्धं वादस्यैव तत्त्वाध्यवसायसंरक्षणार्थत्वम् / तत्त्वस्य अध्यवसायो हि निश्चयः, तस्य संरक्षणम्-न्यायबलात् निखिलबाधकनिराकरणम् , न पुनः तत्र बाधकमुद्भावयतो यथाकथञ्चित् निर्मुखीकरणम् लकुटचपेटादिभिस्तन्न्यक्कारस्यापि तत्त्वाध्यवसायसंरक्षणार्थत्वाऽ 1 "वादो जिगीषितोरेव तत्त्वाध्यवसायसंरक्षणार्थत्वात् अन्यथा तदनुपपत्तेः "निग्रहस्थानवत्त्वाच / " तत्त्वार्थश्लो. पृ० 279 / प्रमेयक० पृ० 194 उ० / २-णार्थरहि-ब०, ज० / 3 तदध्य-भां, श्र० / ४"वाद एव तत्त्वाध्यवसायसंरक्षणार्थः...।" तत्त्वार्थश्लो० पृ. 278 / प्रमेयक. पृ. 195 पू० / 5 तथा आक्रो-आ० / 6 अवसायः ज०, श्र० / “तत्त्वरक्षणार्थ सद्भिरुपहर्त्तव्यमेव छलादि विजिगीषुभिरिति चेत् ; नखचपेटशस्त्रप्रहारादीपनादिभिरपीति वक्तव्यम् , तस्मान्न ज्यायानयं तत्त्वरक्षणोपायः / " वादन्याय पृ० 71 / 7 तन्न्यकरण-ब०,ज०, भा०, श्र० /