________________ 336 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० अतो भवत्परिकल्पितप्रमाणपदार्थस्य अव्यवस्थितेः कथं तत्परिच्छेद्यत्वेन आत्मादिप्रमेयतत्त्वं व्यवतिष्ठते ? यथा च आत्मा नित्यव्यापित्वादिरूपो भवत्परिकल्पितो न व्यवतिष्ठते तथा' षट्पदार्थपरीक्षाप्रघट्ट के प्रतिपादितम् / शरीरञ्च स्वारम्भकाऽवयवेभ्योऽर्थान्तरम् अवयविनिराकरणादेव निराकृतम् / 'भौतिकानि प्राप्यकारीणि इन्द्रियाणि, बुद्धथन्तरवेद्या बुद्धिः, अणु मनश्च' इति त्रितयमपि प्रागेवं अपास्तम् / आत्मगुणत्वेन भवत्परिकल्पितयोर्धर्माऽधर्मयोरप्यव्यवस्थितेः तद्रूपा प्रवृत्तिरपि अव्यवस्थितैव / तद्गुणत्वेन अनयोरव्यवस्थितिश्च आत्मद्रव्यविचारावसरे प्रतिपादिता। प्रेत्यभावश्च आत्मनो व्यापिनः स्वदेहप्रमितौ प्रत्याख्यातः / दोषफल-दुःखानाम् आत्मगुणानां गुणपदार्थविचारावस, निराकृतिः कृता / अपवर्गश्च भवत्कल्पितो मोक्षस्वरूपनिरूपणप्रघट्ट के प्रतिषेत्स्यते / तन्न द्वादशविधं प्रमेयमवतिष्ठते / 10 किञ्च, अस्य द्वादशविधत्वावधारणं तावत्येव प्रमाणव्यापारपरिसमाप्तेः, प्रयोजनपरि समाप्तेर्वा स्यात् ? तत्र आद्यः पक्षोऽनुपपन्नः; दिक्-काल-आकाश-पृथिव्यादिप्रपन्चेऽपि प्रमाणव्यापारप्रतीतेः / न च तत्प्रपन्चस्य अत्रैव अन्तर्भावः इत्यभिधातव्यम् ; ततोऽस्य अस्यन्तविलक्षणत्वात् / यद् यतोऽत्यन्तविलक्षणम् न तत तत्र अन्तर्भवति यथा जलेऽनलः, अत्यन्तविलक्षणाश्च आकाशादयो भावा भवत्परिकल्पितद्वादशविधप्रमेयपदार्थात् इति / तथा१५ विधानामप्येषामत्रान्तर्भावे आत्मन्येव अशेषपदार्थानामन्तर्भावात् ब्रह्माऽद्वैतप्रसङ्गतो गता षोडशपदीर्थपरिकल्पना / द्वितीयपक्षेऽपि कस्य प्रयोजनस्य अत्रैव परिसमाप्तिः-लौकिकस्य, अपवर्गलक्षणस्य, प्रयोजनमात्रस्य वा ? न तावल्लौकिस्य; तत्प्रयोजनप्रसाधकानां घट-पट-मुकुटशकट-अन्नपानादीनामत्राऽसङ्ग्रहात् / नापि अपवर्गलक्षणस्य ; तत्प्रयोजनोत्पादकानां दीक्षा तपोध्यानादीनाम् "अत्राऽसङ्ग्रहात्। नापि प्रयोजनमात्रस्य; लौकिकेतरप्रयोजनातिरिक्तस्य 20 प्रयोजनमात्रस्यैवासंभवात् / ततोऽयुक्तमेतत् "ज्ञानं ( तं ) सम्यगसम्यग्वा यन्मोक्षाय भवाय वा / तत्प्रमेयमिहाऽभीष्टं न प्रमाणार्थमांत्रकम् // " [न्यायमं० पृ० 427 ] सत्येतरज्ञानपरिच्छेद्यस्य अखिलस्य प्रमेयराशेः द्वादशविधे प्रमेये सङ्ग्रहीतुमशक्यत्वात् / पदार्थसंख्यायां संशयपरिगणने च"विपर्यय-अनध्यवसाययोरपि" परिगणनप्रसङ्गः / न्यायप्रवृत्त्यङ्गत्वात् तस्यैव परिगणने अनुग्रहेच्छा-पराभिभवाभिलाष-लाभ-पूजा-ख्यात्यादेरपि परिग १-था प्रत्यक्षप्रमाणप-ब०,ज० / 2 पृ० 261 / 3 पृ० 77 / पृ० 183 / पृ. 269 / 4 पृ. 263 / 5 पृ. 268 / 6 पृ. 275 / 7 “अपि चास्य द्वादशविधत्वावधारणं तावत्येव प्रमाणव्यापारपरिसमाप्तेः प्रयोजनपरिसमाप्तेर्वा स्यात् / " स्या० रत्ना० पृ. 976 / ८-र्थकल्पना ब०, ज०। 9 तत्प्रसाधकानाम्ब०, ज०, भां०, श्र० / 10 अत्र सङ्ग्रहाभावात् ब०, ज०, भां० / 11 “विपर्ययानध्यवसाययोश्च प्रमाणादिषोडशपदार्थेभ्योऽर्थान्तरभूतयोः प्रतीतेः।" प्रमेयक० पृ० 189 पू० / स्या. रत्ना० पृ. 976 / १२-पि गण-आ० /