________________ लघी० प्रमाणप्र० का०७] षोडशपदार्थवादः . 335 वचनीयः , तं यः उपेक्षते नाऽनुयुक्ते, स पर्यनुयोज्योपेक्षणात् निगृह्यते / एतच्च 'कस्य पराजयः' इति अनुयुक्तया परिषदा वचनीयम् , न खलु निग्रहप्राप्तः स्वं कौपीनं विवृणुयादिति / - “अनिग्रहस्थाने निग्रहस्थानानुयोगो निरैनुयोज्यानुयोगः।” [ न्यायसू० 5 / 2 / 22 ] उपपनवादिनम् अनिग्रहाहमपि 'निगृहीतोऽसि' इति यो ब्रूयात् स अभूतदोषोद्भावनात् निगृह्यत इति / " सिद्धान्तमभ्युपेत्य अनियमात् कथाप्रसङ्गः अपसिद्धान्तः।” [ न्यायसू० 5 / 2 / 23] 5 यः पूर्व कञ्चन सिद्धान्तमभ्युपगम्य कथायां प्रवृत्तः सिसाधयिषितार्थसमर्थनरभसेन दूषणोद्धरणरभसेन वा स्वसिद्धान्तविरुद्धमभिधत्ते स अपसिद्धान्तेन निगृह्यते / यथा नित्यान् प्रतिज्ञाय शब्दादीन् पुनः अनित्यान् ब्रूते इति / ___“हेत्वाभासाश्च यथोक्ताः।"[ न्यायसू० 5 / 2 / 24 ] यथोक्ताः पूर्वोक्तलक्षणैर्लक्षिताः हेत्वाभासाः पञ्च, असिद्ध-विरुद्ध-अनैकान्तिक-कालात्ययापदिष्ट-प्रकरणसमाः निग्रंहस्थानं भवन्तीति। 10 अत्र प्रतिविधीयते / यत्तावदुक्तम्-'प्रमाण' इत्यादि; तदविचारितरमणीयम् ; भवत्परिक ल्पितानां प्रमाणादिषोडशपदार्थानां स्वरूपतः प्रमाणेन विचार्यमाषोडशपदार्थानां विशदतया प्रति- णानामघटमानत्वेन तत्तत्त्वज्ञानात् निःश्रेयसप्राप्त्यनुपपत्तेः / विधानम्, धर्माऽधर्मद्रव्ययोः गति- . - यत् स्वरूपतः प्रमाणेन विचार्यमाणं नोपद्यते न तत्तत्त्वज्ञानात - स्थितिसाधारणहेतुतया पृथक - निःश्रेयसप्राप्तिः यथा तथाविधाद् इन्दुद्वयस्वरूपज्ञानात् , नोप- 15 द्रव्यत्वसिद्धिश्च पद्यन्ते च स्वरूपेण प्रमाणतो विचार्यमाणा भवत्परिकल्पिताः * षोडशपदार्था इति / न च स्वरूपतः प्रमाणेन विचार्यमाणानां तेषामघटमानत्वमसिद्धम् ; तथाहि-यत्तावद् भवद्भिः सकलपदार्थानां गरिष्ठत्वात् प्रथमतः प्रमाणपदार्थः प्रतिपादितः; स यथा स्वरूपतः प्रमाणेन विचार्यमाणो नोपपद्यते तथा प्रत्यक्षप्रमाणस्वरूपनिरूपणावसरे प्रपब्चितम् , अनुमानादिप्रमाणस्वरूपनिरूपणप्रघट्टके प्रपञ्चयिष्यते च / १“एतच्च कस्य पराजय इत्यनुयुक्तया परिषदा वचनीयम् , न खलु निग्रहं प्राप्तः स्वं कौपीनं विवृणुयादिति / " न्यायभा० 5 / 2 / 21 / 2" कस्यचिदनिग्राह्यत्वेऽपि निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः / " तर्कशा० पृ. 40 / “भूतदोषाऽप्रतिपत्तिरप्रतिभा, अभूतदोषप्रतिपत्तिरननुयोज्यानुयोगः / " न्यायमं० पृ० 657 / 3 “पूर्व चतुर्विधे सिद्धान्ते स्वयमङ्गीकृतेऽपि पश्चाच्चेद्यथासिद्धान्तं न ब्रूयादयमपसिद्धान्तः / " तर्कशा० पृ० 40 / 4 " यथा पूर्वमुक्ताः त्रिविधाः असिद्धोऽनैकान्तिको विरुद्धश्चेति हेत्वाभासाः / " तर्कशा० पृ. 40 / 5 एतेषां निग्रहस्थानानां विशेषविवरणं तत्तन्न्यायसूत्रीयभाष्यवार्तिक-तात्पर्यटीकासु , न्यायसारे (पृ. 23-28), न्यायमञ्जयां (पृ. 638-659) न्यायकलिका- - याञ्च (पृ० 22.27) द्रष्टव्यम् / प्रकृते च न्यायमञ्जय्येव विशेषतो ग्रन्थकृता अनुसृता। ६-वतीति श्र० 7 पृ. 309 पं० 17 / 8 यद्भव-ब०, ज० / पृ. 309 पं० 19 / “यत्तावद्भवद्भिः सकलपदार्थानां गरिष्ठत्वात् प्रथमतः।" स्या०रत्ना०पृ० 975-76 / 9 पृ० 77 /