________________ 334 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० स० 5 / 2 / 16 ] परिषदा विदितस्य वादिना त्रिरुच्चरितस्यापि यद् अप्रत्युच्चारणं तद् अननुभाषणं नाम निग्रहस्थानं भवति, अप्रत्युच्चारयन् किमाश्रयं दूषणमभिदभ्यात् इति ? ___"अविज्ञातञ्च अज्ञानम् / " [ न्यायसू० 5 / 2 / 17 ] परिषदा विज्ञातस्यापि वादिवा क्यस्य प्रतिवादिना यद् अविज्ञानं तद् अज्ञानं नाम निग्रहस्थानम् / अजानन् कस्य प्रतिषेधं 5 कुर्यात् इति ? ___ "उत्तरस्याऽप्रतिपत्तिः अप्रतिभा / " [ न्यायसू० 5 / 2 / 18 ] परपक्षप्रतिषेधः उत्तरम् , तद् यदा न प्रतिपद्यते तदा निगृहीतो वेदितव्यः / “कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपैः / " [न्यायसू० 5 / 2 / 16 ] वादमुपक्रम्य सिसाधयिषितस्यार्थस्य अशक्यसाध्यतामवसाय कालयापनार्थ यत्र कर्त्तव्यं व्यासज्य कथां विच्छि१० नत्ति-'इदं मे करणीयं परिहीयते तस्मिन्नवसिते पश्चात् कथयामि' इति, स विक्षेपो नाम निग्रहस्थानम् / "स्वपक्षे दोषाऽभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा।" [ न्यायसू० 5 / 2 / 20 ] यः परेण आपादितं दोषमनुद्धृत्य अभ्युपगम्य च ब्रवीति-भवत्पक्षेऽप्ययं दोषः समानः' इति सः परमतानुज्ञानात् मतानुज्ञा नाम निग्रहस्थानम् आपद्यते / यथा 'चौरो भवान् पुरुषत्वात् प्रसिद्ध१५ चौरवत्' इत्युक्ते स आह-भवानपि चौरः पुरुषत्वाऽविशेषात्' इति / “निग्रहप्राप्तस्य अनिग्रहः पर्य्यनुयोज्योपेक्षणम् / " [ न्यायसू० 5 / 2 / 21] पर्य्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः- इदं ते निग्रहस्थानम् आयातम् अतो निगृहीतोऽसि' इति 1 "परिषदा विज्ञाताया अपि प्रतिज्ञाया केनचिदविज्ञानमज्ञानमुच्यते / " तर्कशा० पृ० 39 / “अप्रतिपत्तितो निग्रहस्थानम् / " न्यायवा० 5 / 2 / 18 / 2 "यदि परस्य प्रतिज्ञा न्यायवदीक्षते दूषणे चासमर्थस्तदाऽप्रतिभा / " तर्कशा० पृ० 39 / “उत्तरविषयाऽप्रतिपत्तिरज्ञानम् , प्रतिपत्तावपि तदप्रत्युच्चारणमननुभाषणम् , अनुभाषितेऽपि उत्तराप्रतिपत्तिरप्रतिभा।" न्यायमं० पृ०.६५३ / 3 "स्वप्रतिज्ञाया दोषं ज्ञात्वा व्याजैः परिहारः कार्यान्तरकथनम् / " तर्कशा० पृ० 39 / 4 “यः परेण चोदितं दोषमनुधृत्य भवतोऽप्ययं दोष इति ब्रवीति सा मतानुज्ञा, परमतं स्वमतेऽनुजानाति / उदाहरणं भवांश्चौरः पुरुषत्वादिति / स तं प्रति ब्रूयात्-भवानपीति, सोऽभ्युपगम्य दोषं परपक्षेऽभ्यनुजानातीति निगृहीतो वेदितव्यः / " न्यायवा० 5 / 2 / 21 / न्यायमं० पृ०६५५ / “परदूषणे स्वपक्षदोषाभ्युपगम इति मतानुज्ञा / " तर्कशा० पृ. 39 / 5 "पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः...।" न्यायभा० 5 / 2 / 21 / न्यायमं० पृ० 656 / “यदि कश्चिन्निग्रहस्थान प्राप्नुयात् , तस्य निग्रहापत्त्यनुद्भावनं तदूषणेच्छया तु दूषणस्थापनम् / तदर्थे च हीने किं प्रयोजनं दूषणेन ? असिद्धमेतत् दूषणम् / एतदुच्यते पर्यनुयोज्योपेक्षणम् / " तर्कशा० पृ. 40 /