________________ 333 लघो० प्रमाणप्र० का०७] षोडशपदार्थवादः राऽसङ्गतपदकेदम्बोच्चारणाद् अप्रतिष्ठितवाक्यार्थम् अपार्थकं नाम निग्रहस्थानम् / यथा देश दाडिमानि, षड् अपूपाः, कुण्डम् , अजाऽजिनम् , पललपिण्डः इत्यादि। ___“अवयवविपर्यासवचनम् अप्राप्तकालम् / " [ न्यायसू० 5 / 2 / 11 ] अवयवानां प्रतिज्ञादीनां विपर्यासेन यथाक्रमोल्लङ्घनेन प्रयुज्यमानम् अनुमानवाक्यम् अप्राप्तकालं नाम निग्रहस्थानं भवति। "हीनमन्यतमेनापि अवयवेन न्यूनम् / " [ न्यायसू० 5 / 2 / 12 ] पञ्चावयवे वाक्ये प्रयोक्तव्ये तदन्यतमेनापि अवयवेन हीनं प्रयुञ्जानस्य न्यूनं नाम निग्रहस्थानं भवति / "हेतूदाहरणाधिकम् अधिकम् / " [ न्यायसू० 5 / 2 / 13 ] एकेनैव हेतुना दृष्टान्तेन वा प्रतिपादितेऽर्थे हेत्वन्तरं दृष्टान्तान्तरं वा प्रयुजानस्य अधिकं नाम निग्रहस्थानं भवति / . "शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्राऽनुवादात् / " [ न्यायसू० 5 / 2 / 14 ] शब्दस्य 10 अर्थस्य च अभिहितस्य पुनरभिधानं पुनरुक्तं नाम निग्रहस्थानम् अनुवादं वर्जयित्वा / तत्र शब्दपुनरुक्तम्-'अनित्यः शब्दः, अनित्य शब्दः' इति / अर्थपुनरुक्तम्-'अनित्यः शब्दः, निरोधधर्मको ध्वनिः' इति / अनुवादे पौनरुक्तथं न दोषाय, यथा हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमिति / “अर्थादापन्नस्य॑ स्वशब्देन पुनर्वचनम् / " [ न्यायसू० 5 / 2 / 15 ] पुनरुक्तम्-यथा 'उत्पत्तिधर्मकम् अनित्यम्' इत्यभिधाय अर्थादापन्नस्य अर्थस्य योऽभिधायकः 15 शब्दः तेने स्वशब्देन ब्रूयात् 'नित्यम् अनुत्पत्तिधर्मकम्' इति / .. "विज्ञातस्य परिषदा त्रिरभिहितस्यापि अप्रत्युच्चारणम् अननुभाषणम् / " [ न्याय १-कदम्बको-ब०, ज० / 2 " यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनम् पललपिण्डः अ?रुकमेतत् कुमार्याः स्फयैकृतस्य पिता अप्रतिशीनः इति / " पात. महाभा० 1 / 2 / 45 / न्यायभा० 5 / 2 / 10 / न्यायप्रवेशवृ० पृ.... / 3 "प्रतिज्ञायां दुष्टायां पश्चाद्धेतुस्थापनमप्राप्तकालम् / " तर्कशा० पृ. 37 / 4 "प्रतिज्ञाहेतूदाहरणोपनयनिगमनानामन्यतमेनापि न्यूनं न्यूनं भवति।" चरकसं० पृ. 265 / “पञ्चावयवा अन्यतमेन हीना न्यूनम् / " तर्कशा० पृ. 37 / “तत्कथं निग्रहस्थानम् ? न साधनाभावे साध्यसिद्धिरिति।" न्यायवा० 5 / 2 / 12 / 5 “अधिकं नाम यदायुर्वेदे भाषमाणे बार्हस्पत्यमोशनसमन्यद्वाऽप्रतिसम्बद्धार्थमुच्यते / " चरकसं० पृ. 265 / " बहुहेतूदाहरणोक्तिरधिकम् / " तर्कशा० पृ० 30 / 6 “यद्वा पुनः प्रतिसम्बद्धार्थमपि द्विरभिधीयते तत्पुनरुक्तदोषादधिकम् / तच्च पुनरुक्तं द्विविधम्-अर्थपुनरुक्तं शब्दपुनरुक्तं च / " चरकसं० पृ. 265 / "पुनरुक्तं त्रिविधम्-शब्दपुनरुक्तम् , अर्थपुनरुक्तम् , अर्थापत्तिपुनरुक्तं च / " तर्कशा० पृ० 38 / 7 वा ब०, ज०। ८-स्य च शब्दस्य स्व-भा०, श्र० / 9 तेन शब्देन ब्र-१०, ज० / तेन ब्र-आ० / "तेन स्वशेब्देन ब्रूयात्" न्यायभा० 5 / 2 / 14 / 10 “परिषदा विज्ञातायाः प्रतिज्ञायाः त्रिरभिहिताया अपि यदि कश्चित्प्रत्युच्चारणासमर्थः तदाऽननुभाषणम् / " तर्कशा० पृ० 39 /