________________ 332 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे . [2 विषयपरि० “प्रकृतादर्थाद् अप्रतिसम्बद्धार्थम् अर्थान्तरम् / " [ न्यायसू० 5 / 27 ] यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुना साध्यसिद्धौ प्रकृतायां 'प्रकृतं हेतुं प्रमाणसामर्थ्येन अहमसमर्थः समर्थयितुम्' इत्यवस्यन्नपि कथामपरित्यजन् अर्थान्तरं ब्रवीति-'नित्यः शब्दः अस्पर्शवत्त्वात् इति, हेतुश्च हिनोतेर्धातोः तुप्रत्यये कृदन्तं पदम् , पदच नाम-आख्यात-उपसर्ग-निपाताः इति 5 प्रकृत्य नामादीनि व्याचष्टे' इति / "वर्णक्रमनिर्देशवत् निरर्थकम् / " [ न्यायसू. 5 / 2 / 8 ] अभिधेयरहितकेवलवर्णानुपू. र्वीमात्रं निरर्थकं नाम निग्रहस्थानम् / यथा अनित्यः शब्दः जबगडदैत्वात् घंटधवत् इति / "परिषत्प्रतिवादिभ्यां त्रिरभिहितमपि अविज्ञातम् अविज्ञातार्थम् / " [न्यायस० 5 / 2 / 6] यत् साधनवाक्यं दूषणवाक्यं वा त्रिरभिहितमपि परिषदा प्रतिवादिना च न ज्ञायते 'अप्रसि१० सिद्धप्रयोगम् अतिंद्रुतोच्चारितम् ' इत्येवं प्रकारम् असामर्थ्यसंवरणाय धूतैराश्रीयते तद् अविज्ञातं नाम निग्रहस्थानम् / “पौर्वापर्याऽयोगात् अप्रतिसम्बद्धार्थम् अपार्थकम् / " [ न्यायसू० 5 / 2 / 10 ] पूर्वाप 1 “यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां ब्रूयात् नित्यः शब्दः अस्पर्शत्वादिति हेतुः, हेतु म हिनोतेधातोः तुनि प्रत्यये कृदन्तपदम्।" न्यायभा० 5 / 2 / 7 / “अभ्युपगतार्थासङ्गतत्वान्निग्रहस्थानं यदभ्युपगतं तत्सम्बद्धमन्यदसम्बद्धमुच्यते / " न्यायवा० 5 / 2 / 7 / “प्रकृ. तादादर्थान्तरं तदनौपयिकमभिदधतोऽर्थान्तरं नाम निग्रहस्थानं भवति / " न्यायमं० पृ. 645 / न्यायकलि. 23 / “अर्थान्तरं नाम यथा ज्वरलक्षणे वाच्ये प्रमेहलक्षणमाह / " चरकसं० पृ० 267 / "प्रकृतार्थाप्रतिसम्बद्धार्थाभिधानमर्थान्तरम् / " तर्कशा• पृ०३६ / 2 समाख्यात-ब०, ज० / 3 "अभिधेयरहितवर्णनुपूर्वीप्रयोगमात्रं निरर्थकम् / " न्यायमं० 646 / न्यायकलि. पृ. 24 / न्यायसार पृ० 25 / "साधनमनुपादानादज्ञानमेवं त्रुबन् न साध्यं जानीत इति न साध्यं न साधनञ्चोपादत्ते इति निग्रहाते " न्यायघा० 5 / 2 / 8 / “अनर्थकं नाम यद्वचनमक्षरग्राममात्रमेव स्यात पञ्चवर्गवत . न चार्थतो गृह्यते / " चरकसं० पृ० 265 / “यदा वाद इष्टः तदा मन्त्रभाषणमिति निरर्थकम् / " तर्कशा. पृ० 36 / ४-दशत्वात् ब०, ज० / 5 सधधवत् ब०, ज०। झभघढधषवत् भां०, श्र० / 6 "यद्वाक्यं परिषदा प्रतिवादिना च त्रिभिरभिहितमपि न विज्ञायते श्लिष्टशब्दमप्रतीतप्रयोगमतिद्वतोच्चारितमित्येवमादिना कारणेन तदविज्ञातार्थम् / अविज्ञातार्थमसामर्थ्यसंवरणाय प्रयुक्तमिति निग्रहस्थानम् / " न्यायभा० 5 / 2 / 9 / “निरर्थक सर्वेण सर्वमर्थशून्यता, इह तु भवन्नप्यों नावगम्यते द्रुततोच्चारणादिव्यतिकरवशादिति / " न्यायमं० पृ. 648 / “परिषत्प्रतिवादिभ्यां त्रिभिरभिहितमप्यविज्ञातमित्यविज्ञातार्थम् / " तर्कशा० पृ. 37 / 7 “यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वीपर्येण अन्वययोगो नास्ति इत्यसम्बद्धार्थत्वं गृह्यते, तत्समुदायार्थस्यापायादपार्थकम् / " न्यायभा० 5 / 2 / 10 / “निरर्थकादपार्थकं न भिद्यते तत्राप्यर्थो न गम्यत इहापीति ; भिद्यते इति ब्रूमः, तत्र हि वर्णमात्रम् , इह तु पदान्यसम्बद्धानि / " न्यायवा० 5 / 2 / 10 / " " अपार्थकं नाम यदर्थवच्च परस्परेण चायुज्यमानार्थकम् / " चरकसं० पृ. 266 / “पौर्वापर्यासम्बद्धोऽपार्थकम् / " तर्कशा० पृ. 37 /